रामायणम्/अरण्यकाण्डम्/सर्गः ४३
< रामायणम् | अरण्यकाण्डम्
← सर्गः ४२ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ४४ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥ सा तम् संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती । हेम राजत वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम् ॥३-४३-१॥ प्रहृष्टा च अनवद्यान्गी मृष्ट हाटक वर्णिनी । भर्तारम् अपि च आक्रन्द लक्ष्मणम् चैव सायुधम् ॥३-४३-२॥ आहूय आहूय च पुनः तम् मृगम् साधु वीक्षते । आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सह अनुज ॥३-४३-३॥ तया आहूतौ नरव्याघ्रौ वैदेह्या राम लक्ष्मणौ । वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम् ॥३-४३-४॥ शंकमानः तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् । तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम् ॥३-४३-५॥ चरन्तो मृगयाम् हृष्टाः पापेन उपाधिना वने । अनेन निहता राम राजानः काम रूपिणा ॥३-४३-६॥ अस्य मायाविदो माया मृग रूपम् इदम् कृतम् । भानुमत् पुरुषव्याघ्र गन्धर्व पुर संनिभम् ॥३-४३-७॥ मृगो हि एवम् विधो रत्न विचित्रो न अस्ति राघव । जगत्याम् जगतीनाथ माया एषा हि न संशयः ॥३-४३-८॥ एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि स्मिता । उवाच सीता संहृष्टा चद्मना हृत चेतना ॥३-४३-९॥ आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः । आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥३-४३-१०॥ इह आश्रम पदे अस्माकम् बहवः पुण्य दर्शनाः । मृगाः चरन्ति सहिताः चमराः सृमराः तथा ॥३-४३-११॥ ऋक्षाः पृषत संघाः च वानराः किनराः तथा । विचरन्ति महाबाहो रूप श्रेष्ठा महाबलाः ॥३-४३-१२॥ न च अस्य सदृशो राजन् दृष्ट पूर्वो मृगः मया । तेजसा क्षमया दीप्त्या यथा अयम् मृग सत्तमः ॥३-४३-१३॥ नाना वर्ण विचित्र अंगो रत्न भूतो मम अग्रतः । द्योतयन् वनम् अव्यग्रम् शोभते शशि संनिभः ॥३-४३-१४॥ अहो रूपम् अहो लक्ष्मीः स्वर संपत् च शोभना । मृगो अद्भुतो विचित्रांगो हृदयम् हरति इव मे ॥३-४३-१५॥ यदि ग्रहणम् अभ्येति जीवन् एव मृगः तव । आश्चर्य भूतम् भवति विस्मयम् जनयिष्यति ॥३-४३-१६॥ समाप्त वन वासानाम् राज्य स्थानाम् च नः पुनः । अंतःपुरे विभूषार्थो मृग एष भविष्यति ॥३-४३-१७॥ भरतस्य आर्यपुत्रस्य श्वश्रूणाम् मम च प्रभो । मृग रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति ॥३-४३-१८॥ जीवन् न यदि ते अभ्येति ग्रहणम् मृग सत्तमः । अजिनम् नरशार्दूल रुचिरम् तु भविष्यति ॥३-४३-१९॥ निहतस्य अस्य सत्त्वस्य जांबूनदमय त्वचि । शष्प बृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम् ॥३-४३-२०॥ कामवृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् । वपुषा तु अस्य सत्त्वस्य विस्मयो जनितो मम ॥३-४३-२१॥ तेन कांचन रोम्णा तु मणि प्रवर शृंगिणा । तरुण आदित्य वर्णेन नक्षत्र पथ वर्चसा ॥३-४३-२२॥ बभूव राघवस्य अपि मनो विस्मयम् आगतम् । एवम् सीता वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् ॥३-४३-२३॥ लोबितः तेन रूपेण सीताया च प्रचोदितः । उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः ॥३-४३-२४॥ पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् । रूप श्रेष्ठतया हि एष मृगो अद्य न भविष्यति ॥३-४३-२५॥ न वने नंदनोद्देशे न चैत्ररथ संश्रये । कुतः पृथिव्याम् सौमित्रे यो अस्य कश्चित् समो मृगः ॥३-४३-२६॥ प्रतिलोम अनुलोमाः च रुचिरा रोम राजयः । शोभन्ते मृगम् आश्रित्य चित्राः कनक बिन्दुभिः ॥३-४३-२७॥ पश्य अस्य जृंभमाणस्य दीप्ताम् अग्नि शिखोपमाम् । जिह्वाम् मुखात् निःसरंतीम् मेघात् इव शत ह्रदाम् ॥३-४३-२८॥ मसार गल्वर्क मुखः शंख मुक्ता निभ उदरः । कस्य नाम अनिरूप्यः असौ न मनो लोभयेत् मृगः ॥३-४३-२९॥ कस्य रूपम् इदम् दृष्ट्वा जांबूनदमय प्रभम् । नाना रत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् ॥३-४३-३०॥ मांस हेतोः अपि मृगान् विहारार्थम् च धन्विनः । घ्नन्ति लक्ष्मण राजानो मृगयायाम् महावने ॥३-४३-३१॥ धनानि व्यवसायेन विचीयन्ते महावने । धातवो विविधाः च अपि मणि रत्न सुवर्णिनः ॥३-४३-३२॥ तत् सारम् अखिलम् नॄणाम् धनम् निचय वर्धनम् । मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण ॥३-४३-३३॥ अर्थी येन अर्थ कृत्येन संव्रजति अविचारयन् । तम् अर्थम् अर्थ शास्त्रज्ञः प्राहुः अर्थ्याः च लक्ष्मण ॥३-४३-३४॥ एतस्य मृग रत्नस्य परार्ध्ये कांचन त्वचि । उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥३-४३-३५॥ न कादली न प्रियकी न प्रवेणी न च अविकी । भवेत् एतस्य सदृशी स्पर्शनेन इति मे मतिः ॥३-४३-३६॥ एष चैव मृगः श्रीमान् यः च दिव्यो नभः चरः । उभौ एतौ मृगौ दिव्यौ तारामृग महीमृगौ ॥३-४३-३७॥ यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण । माया एषा राक्षसस्य इति कर्तव्यो अस्य वधो मया ॥३-४३-३८॥ एतेन हि नृशंसेन मारीचेन अकृत आत्मना । वने विचरता पूर्वम् हिंसिता मुनि पुंगवाः ॥३-४३-३९॥ उत्थाय बहवो अनेन मृगयायाम् जनाधिपाः । निहताः परम इष्वासाः तस्मात् वध्यः तु अयम् मृगः ॥३-४३-४०॥ पुरस्तात् इह वातापिः परिभूय तपस्विनः । उदरस्थो द्विजान् हन्ति स्व गर्भो अश्वतरीम् इव ॥३-४३-४१॥ स कदाचित् चिरात् लोभात् आससाद महामुनिम् । अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह ॥३-४३-४२॥ समुत्थाने च तत् रूपम् कर्तु कामम् समीक्ष्य तम् । उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥३-४३-४३॥ त्वया अविगण्य वातापे परिभूताः च तेजसा । जीव लोके द्विज श्रेष्ठाः तस्मात् असि जराम् गतः ॥३-४३-४४॥ तत् एतत् न भवेत् रक्षो वातापिः इव लक्ष्मण । मत् विधम् यो अतिमन्येत धर्म नित्यम् जितेन्द्रियम् ॥३-४३-४५॥ भवेत् हतो अयम् वातापिः अगस्त्येन इव मा गतः । इह त्वम् भव संनद्धो यंत्रितो रक्ष मैथिलीम् ॥३-४३-४६॥ अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन । अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम् ॥३-४३-४७॥ यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् । पश्य लक्ष्मण वैदेहीम् मृग त्वचि गताम् स्पृहाम् ॥३-४३-४८॥ त्वचा प्रधानया हि एष मृगो अद्य न भविष्यति । अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥३-४३-४९॥ यावत् पृषतम् एकेन सायकेन निहन्मि अहम् । हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण ॥३-४३-५०॥ प्रदक्षिणेन अतिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण । भव अप्रमत्तः प्रतिगृह्य मैथिलीम्प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥