रामायणम्/अरण्यकाण्डम्/सर्गः ५०
< रामायणम् | अरण्यकाण्डम्
← सर्गः ४९ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ५१ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥ तम् शब्दम् अवसुप्तस्य जटायुः अथ शुश्रुवे । निरैक्षत् रावणम् क्षिप्रम् वैदेहीम् च ददर्श सः ॥३-५०-१॥ ततः पर्वत शृंग आभः तीक्ष्ण तुण्डः खग उत्तमः । वनस्पति गतः श्रीमान् व्याजहार शुभाम् गिरम् ॥३-५०-२॥ दशग्रीव स्थितो धर्मे पुराणे सत्य संश्रयः । भ्रातः सः त्वम् निन्दितम् कर्म कर्तुम् न अर्हसि संप्रताम् ॥३-५०-३॥ जटायुः नाम नाम्ना अहम् गृध्र राजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ॥३-५०-४॥ लोकानाम् च हिते युक्तो रामो दशरथ आत्मजः । तस्य एषा लोक नाथस्य धर्म पत्नी यशस्विनी ॥३-५०-५॥ सीता नाम वरारोहा याम् त्वम् हर्तुम् इह इच्छसि । कथम् राजा स्थितो धर्मे पर दारान् परामृशेत् ॥३-५०-६॥ रक्षणीया विशेषेण राज दारा महाबलः । निवर्तय गतिम् नीचाम् पर दार अभिमर्शनात् ॥३-५०-७॥ न तत् समाचरेत् धीरो यत् परो अस्य विगर्हयेत् । यथा आत्मनः तथा अन्येषाम् दारा रक्ष्या विमर्शनात् ॥३-५०-८॥ अर्थम् वा यदि वा कामम् शिष्टाः शास्त्रेषु अनागतम् । व्यवस्यन्ति अनु राजानम् धर्मम् पौलस्त्य नंदन ॥३-५०-९॥ राजा धर्मः च कामः च द्रव्याणाम् च उत्तमो निधिः । धर्मः शुभम् वा पापम् वा राज मूलम् प्रवर्तते ॥३-५०-१०॥ पाप स्वभावः चपलः कथम् त्वम् रक्षसाम् वर । ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती ॥३-५०-११॥ काम स्वभावो यः सः असौ न शक्यः तम् प्रमार्जितुम् । न हि दुष्ट आत्मनाम् आर्यम् आवसति आलये चिरम् ॥३-५०-१२॥ विषये वा पुरे वा ते यदा रामो महाबलः । न अपराध्यति धर्मात्मा कथम् तस्य अपराध्यसि ॥३-५०-१३॥ यदि शूर्पणखा हेतोः जनस्थान गतः खरः । अतिवृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ॥३-५०-१४॥ अत्र ब्रूहि यथा तत्त्वम् को रामस्य व्यतिक्रमः । यस्य त्वम् लोक नाथस्य हृत्वा भार्याम् गमिष्यसि ॥३-५०-१५॥ क्षिप्रम् विसृज वैदेहीम् मा त्वा घोरेण चक्षुषा । दहेत् दहनभूतेन वृत्रम् इन्द्र अशनिः यथा ॥३-५०-१६॥ सर्पम् आशीविषम् बद्ध्वा वस्त्र अन्ते न अवबुध्यसे । ग्रीवायाम् प्रतिमुक्तम् च काल पाशम् न पश्यसि ॥३-५०-१७॥ स भारः सौम्य भर्तव्यो यो नरम् न अवसादयेत् । तत् अन्नम् अपि भोक्तव्यम् जीर्यते यत् अनामयम् ॥३-५०-१८॥ यत् कृत्वा न भवेत् धर्मो न कीर्तिः न यशः ध्रुवम् । शरीरस्य भवेत् खेदः कः तत् कर्म समाचरेत् ॥३-५०-१९॥ षष्टि वर्ष सहस्राणि जातस्य मम रावण । पितृ पैतामहम् राज्यम् यथावत् अनुतिष्ठतः ॥३-५०-२०॥ वृद्धो अहम् त्वम् युवा धन्वी स रथः कवची शरी । न च अपि आदाय कुशली वैदेहीम् न गमिष्यसि ॥३-५०-२१॥ न शक्तः त्वम् बलात् हर्तुम् वैदेहीम् मम पश्यतः । हेतुभिः न्याय संयुक्तैः ध्रुवाम् वेद श्रुतीम् इव ॥३-५०-२२॥ युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा पूर्वम् खरः तथा ॥३-५०-२३॥ असकृत् संयुगे येन निहता दैत्य दानवाः । न चिरात् चीर वासाः त्वाम् रामो युधि वधिष्यति ॥३-५०-२४॥ किम् नु शक्यम् मया कर्तुम् गतौ दूरम् नृप आत्मजौ । क्षिप्रम् त्वम् नश्यसे नीच तयोः भीतो न संशयः ॥३-५०-२५॥ न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् । सीताम् कमल पत्र अक्षीम् रामस्य महषीम् प्रियाम् ॥३-५०-२६॥ अवश्यम् तु मया कार्यम् प्रियम् तस्य महात्मनः । जीवितेन अपि रामस्य तथा दशरथस्य च ॥३-५०-२७॥ तिष्ठ तिष्ठ दशग्रीव मुहूर्तम् पश्य रावण । वृन्तात् इव फलम् त्वाम् तु पातयेयम् रथ उत्तमात् । युद्ध आतिथ्यम् प्रदास्यामि यथा प्राणम् निशा चर ॥३-५०-२८॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥