रामायणम्/अरण्यकाण्डम्/सर्गः ७०
< रामायणम् | अरण्यकाण्डम्
← सर्गः ६९ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ७१ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥ तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम लक्ष्मणौ । बाहु पाश परिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् ॥३-७०-१॥ तिष्ठतः किम् नु माम् दृष्ट्वा क्षुधा आर्तम् क्षत्रिय ऋषभौ । आहार अर्थम् तु सन्दिष्टौ दैवेन गत चेतसौ ॥३-७०-२॥ तत् श्रुत्वा लक्ष्मणो वाक्यम् प्राप्त कालम् हितम् तदा । उवाच आर्तिम् समापन्नो विक्रमे कृत निश्चयः ॥३-७०-३॥ त्वाम् च माम् च पुरा तूर्णम् आदत्ते राक्षस अधमः । तस्मात् असिभ्याम् अस्य आशु बाहू चिन्दावहे गुरू ॥३-७०-४॥ भिषणो अयम् महाकायो राक्षसो भुज विक्रमः । लोकम् हि अति जितम् कृत्वा हि अवाम् हन्तुम् इह इच्छति ॥३-७०-५॥ निश्चेष्टानाम् वधो राजन् कुत्स्तितो जगती पतेः । क्रतु मध्य उपनीतानाम् पशूनाम् इव राघव ॥३-७०-६॥ एतत् संजल्पितम् श्रुत्वा तयोः क्रुद्धः तु राक्षसः । विदार्य आस्यम् ततो रौद्रम् तौ भक्षयितुम् आरभत् ॥३-७०-७॥ ततः तौ देश कालज्ञौ खड्गाभ्याम् एव राघवौ । अच्छिन्दताम् सुसंहृष्टौ बाहू तस्य अंस देशतः ॥३-७०-८॥ दक्षिणो दक्षिणम् बाहुम् असक्तम् असिना ततः । चिच्छेद रामो वेगेन सव्यम् वीरः तु लक्ष्मणः ॥३-७०-९॥ स पपात महाबाहुः चिन्न बाहुः महा स्वनः । खम् च गाम् च दिशः चैव नादयन् जलदो यथा ॥३-७०-१०॥ स निकृत्तौ भुजौ दृष्ट्वा शोणित ओघ परिप्लुतः । दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः ॥३-७०-११॥ इति तस्य ब्रुवाणस्य लक्ष्मणः शुभ लक्षणः । शशंस तस्य काकुत्स्थम् कबंधस्य महाबलः ॥३-७०-१२॥ अयम् इक्ष्वाकु दायादो रामो नाम जनैः श्रुतः । तस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम् ॥३-७०-१३॥ मात्रा प्रतिहतो राज्ये रामः प्रवाजितो वनम् । मया सह चरति एष भार्यया च महत् वनम् ॥३-७०-१४॥ अस्य देव प्रभावस्य वसतो विजने वने । रक्षसा अपहृता भार्या याम् इच्छन्तौ इह आगतौ ॥३-७०-१५॥ त्वम् तु को वा किम् अर्थम् वा कबन्ध सदृशो वने । आस्येन उरसि दीप्तेन भग्न जन्घो विचेष्टसे ॥३-७०-१६॥ एवम् उक्तः कबंधः तु लक्ष्मणेन उत्तरम् वचः । उवाच परम प्रीतः तत् इन्द्र वचनम् स्मरन् ॥३-७०-१७॥ स्वागतम् वाम् नरव्याघ्रौ दिष्ट्या पश्यामि वाम् अहम् । दिष्ट्या च इमौ निकृत्तौ मे युवाभ्याम् बाहु बन्धनौ ॥३-७०-१८॥ विरूपम् यत् च मे रूपम् प्राप्तम् हि अविनयात् यथा । तत् मे शृणु नरव्याघ्र तत्त्वतः शंसतः तव ॥३-७०-१९॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र