रामायणम्/अरण्यकाण्डम्/सर्गः ६
< रामायणम् | अरण्यकाण्डम्
← सर्गः ५ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ७ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥
|
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥''' शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः । अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम् ॥३-६-१॥ वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः । अश्म कुट्टाः च बहवः पत्र आहाराः च तापसाः ॥३-६-२॥ दन्त उलूखलिनः च एव तथा एव उन्मज्जकाः परे । गात्र शय्या अशय्याः च तथा एव अनवकाशिकाः ॥३-६-३॥ मुनयः सलिल आहारा वायु भक्षाः तथा अपरे । आकाश निलयाः च एव तथा स्थण्डिल शायिनः ॥३-६-४॥ तथा ऊर्थ्व वासिनः दान्ताः तथा आर्द्र पट वाससः । स जपाः च तपो नित्याः तथा पंच तपोऽन्विताः ॥३-६-५॥ सर्वे ब्राह्म्या श्रिया ज्युक्ता दृढ योग समाहिताः । शरभंग आश्रमे रामम् अभिजग्मुः च तापसाः ॥३-६-६॥ अभिगम्य च धर्मज्ञा रामम् धर्म भृताम् वरम् । ऊचुः परम धर्मज्ञम् ऋषि संघाः समागताः ॥३-६-७॥ त्वम् इक्ष्वाकु कुलस्य अस्य पृथिव्याः च महारथः । प्रधानः च अपि नाथः च देवानाम् मघवान् इव ॥३-६-८॥ विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च । पितृ व्रतत्वम् सत्यम् च त्वयि धर्मः च पुष्कलः ॥३-६-९॥ त्वाम् आसाद्य महात्मानम् धर्मज्ञम् धर्म वत्सलम् । अर्थित्वात् नाथ वक्ष्यामः तत् च नः क्षन्तुम् अर्हसि ॥३-६-१०॥ अधार्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः । यो हरेत् बलि षड् भागम् न च रक्षति पुत्रवत् ॥३-६-११॥ युंजानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव । नित्य युक्तः सदा रक्षन् सर्वान् विषय वासिनः ॥३-६-१२॥ प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु वार्षिकीम् । ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते ॥३-६-१३॥ यत् करोति परम् धर्मम् मुनिः मूल फल अशनः । तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥३-६-१४॥ सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् । त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥३-६-१५॥ एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् । हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥३-६-१६॥ पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि । चित्रकूट आलयानाम् च क्रियते कदनम् महत् ॥३-६-१७॥ एवम् वयम् न मृष्यामो विप्रकारम् तपस्विनाम् । क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥३-६-१८॥ ततः त्वाम् शरणार्थम् च शरण्यम् समुपस्थिताः । परिपालय नः राम वध्यमानान् निशाचरैः ॥३-६-१९॥ परा त्वत्तः गतिः वीर पृधिव्यम् न उपपद्यते । परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मजः ॥३-६-२०॥ एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् । इदम् प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः ॥३-६-२१॥ न एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् । केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया ॥३-६-२२॥ विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् । पितुः तु निर्देशकरः प्रविष्टो अहम् इदम् वनम् ॥३-६-२३॥ भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया । तस्य मे अयम् वने वासो भविष्यति महाफलः ॥३-६-२४॥ तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् । पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥३-६-२५॥ दत्त्वा अभयम् च अपि तपो धनानाम्धर्मे धृइत आत्मा सह लक्ष्मणेन । तपो धनैः च अपि सह आर्य दत्तःसुतीक्ष्णम् एव अभिजगाम वीरः ॥३-६-२६॥