रामायणम्/अरण्यकाण्डम्/सर्गः ६४
< रामायणम् | अरण्यकाण्डम्
← सर्गः ६३ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६५ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥ स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् । शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् ॥३-६४-१॥ अपि गोदावरीम् सीता पद्मानि आनयितुम् गता । एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥ नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः । ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥ नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कम् नु सा देशम् आपन्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥ न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥ रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् । स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥ भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि । न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥ ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति । न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥ रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः । ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥ निराशः तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥ एषा गोदावरी सौम्य किंचन् न प्रतिभाषते । किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥ मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् । या मे राज्य विहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥ सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता । ज्ञाति वर्ग विहीनस्य राज पुत्रीम् अपश्यतः ॥३-६४-१३॥ मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः । मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥ सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते । एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥ वक्तु कामा इह हि मे इंगितानि अनुपलक्षये । तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥ क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा । एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥ दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् । मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥ तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् । येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥ पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः । तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥ उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् । क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥ दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः । सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥ यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते । बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥ लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् । एवम् संभाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥ वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् । पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥ उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः । अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥ अपिनद्धानि वैदेह्या मया दत्तानि कानने । मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥ अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥ उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् । कच्चित् क्षिति भृताम् नाथ दृष्टा सर्वांग सुंदरीम् ॥३-६४-२९॥ रामा रम्ये वनोद् देशे मया विरहिता त्वया । क्रुद्धो अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र मृगम् यथा ॥३-६४-३०॥ ताम् हेम वर्णाम् हेम अंगीम् सीताम् दर्शय पर्वत । यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम् ॥३-६४-३१॥ एवम् उक्तः तु रामेण पर्वतो मैथिलीम् प्रति । दर्शयन् इव ताम् सीताम् न दर्शयत राघवे ॥३-६४-३२॥ ततो दाशरथी राम उवाच शिलोच्चयम् । मम बाण अग्नि निर्दग्धो भस्मी भूतो भविष्यसि ॥३-६४-३३॥ असेव्यः सततम् चैव निस्तृण द्रुम पल्लवः । इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥ यदि न आख्याति मे सीताम् अद्य चन्द्र निभ आननाम् । एवम् प्ररुषितो रामो दिधक्षन् इव चक्षुषा ॥३-६४-३५॥ ददर्श भूमौ निष्क्रांतम् राक्षसस्य पदम् महत् । त्रस्तया राम काङ्क्षिण्याः प्रधावन्त्या इतः ततः ॥३-६४-३६॥ राक्षसेन अनुवृत्तया वैदेह्या च पादानि तु । स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च ॥३-६४-३७॥ भंगम् धनुः च तूणी च विकीर्णाम् बहुधा रथम् । संभ्रांत हृदयो रामः शशंस भ्रातरम् प्रियम् ॥३-६४-३८॥ पश्य लक्ष्मण वैदेह्याः कीर्णाम् कनक बिन्दवः । भूषणानाम् हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥ तप्त बिन्दु निकाशैः च चित्रैः क्षतज बिन्दुभिः । आवृतम् पश्य सौमित्रे सर्वतो धरणी तलम् ॥३-६४-४०॥ मन्ये लक्ष्मण वैदेही राक्षसैः काम रूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥ तस्या निमित्तम् वैदेह्या द्वयोः विवदमानयोः । बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह ॥३-६४-४२॥ मुक्ता मणि चितम् च इदम् तपनीय विभूषितम् । धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः ॥३-६४-४३॥ राक्षसानाम् इदम् वस्त सुराणाम् अधवा अपि । तरुण आदित्य संकाशम् वैदूर्य गुलिका चितम् ॥३-६४-४४॥ विशीर्णम् पतितम् भूमौ कवचम् कस्य कांचनम् । छत्रम् शत शलाकम् च दिव्य माल्य उपशोभितम् ॥३-६४-४५॥ भग्न दण्डम् इदम् कस्य भूमौ सौम्य निपातितम् । कान्चन उरः छदाः च इमे पिशाच वदनाः खराः ॥३-६४-४६॥ भीम रूपा महाकायाः कस्य वा निहता रणे । दीप्त पावक संकाशो द्युतिमान् समर ध्वजः ॥३-६४-४७॥ अपविद्धः च भग्नः च कस्य सांग्रामिको रथः । रथ अक्ष मात्रा विशिखाः तपनीय विभूषणाः ॥३-६४-४८॥ कस्य इमे निहता बाणाः प्रकीर्णा घोर दर्शनः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥ प्रतोद अभीशु हस्तो अयम् कस्य वा सारथिः हतः । पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि राक्षसः ॥३-६४-५०॥ वैरम् शत गुणम् पश्य मम तैः जीवित अंतकम् । सुघोर हृदयैः सौम्य राक्षसैः काम रूपिभिः ॥३-६४-५१॥ हृता मृता वा सीता हि भक्षिता वा तपस्विनी । न धर्मः त्रायते सीताम् ह्रियमाणाम् महावने ॥३-६४-५२॥ भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण । के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः ॥३-६४-५३॥ कर्तारम् अपि लोकानाम् शूरम् करुण वेदिनम् । अज्ञानात् अवमन्येरन् सर्व भूतानि लक्ष्मण ॥३-६४-५४॥ मृदुम् लोक हिते युक्तम् दांतम् करुण वेदिनम् । निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश ईश्वराः ॥३-६४-५५॥ माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्य एव सर्व भूतानाम् रक्षसाम् अभवाय च ॥३-६४-५६॥ संहृत्य एव शशि ज्योत्स्नाम् महान् सूर्य इव उदितः । संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाश्ते ॥३-६४-५७॥ न एव यक्षा न गंधर्वा न पिशाचा न राक्षसाः । किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥ मम अस्त्र बाण संपूर्णम् आकाशम् पश्य लक्ष्मण । असंपातम् करिष्यामि हि अद्य त्रैलोक्य चारिणाम् ॥३-६४-५९॥ संनिरुद्धग्रहगणमावारितनिशाकरम् । विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ यद्व - संनिरुद्ध ग्रह गणम् आवारित निशा करम् । विप्रनष्ट अनल मरुत् भास्कर द्युति संवृतम् ॥३-६४-६०॥ विनिर्मथितशैलाग्रम्शुष्यमाणजलाअशयम् । ध्वस्तद्रुमलतागुल्मम्विप्रणाशितसागरम् ॥ यद्वा - विनिर्मथित शैल अग्रम् शुष्यमाण जल आशयम् । ध्वस्त द्रुम लता गुल्मम् विप्रणाशित सागरम् ॥३-६४-६१॥ त्रै लोक्यम् तु करिष्यामि संयुक्तम् काल कर्मणा । न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः ॥३-६४-६२॥ अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । न आकाशम् उत्पतिष्यन्ति सर्व भूतानि लक्ष्मण ॥३-६४-६३॥ मम चाप गुण उन्मुक्तैः बाण जालैः निरंतरम् । मर्दितम् मम नाराचैः ध्वस्त भ्रांत मृग द्विजम् ॥३-६४-६४॥ समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण । आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः ॥ यद्वा - आकर्ण पूर्णैर् इषुभिर् जीव लोकम् दुरावरैः ॥३-६४-६५॥ करिष्ये मैथिली हेतोः अपिशाचम् अराक्षसम् । मम रोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः ॥३-६४-६६॥ द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर गामिनाम् । न एव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥ भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते । देव दानव यक्षाणाम् लोका ये रक्षसाम् अपि ॥३-६४-६८॥ बहुधानिपतिष्यन्तिबाणोघैश्शकलीकृताः । यद्वा - बहुधा नि पतिष्यन्ति बाण ओघैः शकली कृताः । निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्यसायकैः ॥ यद्वा - निर् मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः ॥३-६४-६९॥ हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः । तथा रूपम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥ नाशयामि जगत् सर्वम् त्रैलोक्यम् स चर अचरम् । यावत् दर्शनम् अस्या वै तापयामि च सायकैः ॥३-६४-७१॥ इति उक्त्वा क्रोध ताम्र अक्षः स्फुरमाण ओष्ट संपुटः । वल्कल अजिनम् आबद्ध्य जटा भारम् बन्धयत् ॥३-६४-७२॥ तस्य क्रुद्धस्य रामस्य तथा अभूतस्य धीमतः । त्रि पुरम् जग्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः ॥३-६४-७३॥ लक्ष्मणात् अथ च आदाय रामो निष्पीड्य कार्मुकम् । शरम् आदाय संदीप्तम् घोरम् अशी विष उपमम् ॥३-६४-७४॥ संदधे धनुषि श्रीमान् रामः पर पुरंजयः । युग अन्त अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत् ॥३-६४-७५॥ यथा जरा यथा मृत्युः यथा कालो यथा विधिः । नित्यम् न प्रतिहन्यन्ते सर्व भूतेषु लक्ष्मण । तथा अहम् क्रोध संयुक्तो न निवार्यो अस्मि असंशयम् ॥३-६४-७६॥ पुरा इव मे चारु दतीम् अनिन्दिताम् दिशन्ति सीताम् यदि न अद्य मैथिलीम् । सदेव गन्धर्व मनुष्य पन्नगम् जगत् स शैलम् परिवर्तयामि अहम् ॥३-६४-७७॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥