ऋग्वेदः सूक्तं ७.६०
← सूक्तं ७.५९ | ऋग्वेदः - मण्डल ७ सूक्तं ७.६० मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.६१ → |
दे. १ सूर्यः, २-१२ मित्रावरुणौ । त्रिष्टुप्। |
यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् ।
वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥१॥
एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् ।
विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥२॥
अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः ।
धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥३॥
उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः ।
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥४॥
इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति ।
इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥५॥
इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः ।
अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥६॥
इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति ।
प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥७॥
यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे ।
तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥८॥
अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः ।
परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥९॥
सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते ।
युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥१०॥
यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः ।
सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥११॥
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥१२॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
व्याख्याय निगमाभिज्ञः पञ्चमस्य चतुर्थकम् ।
अध्यायं सायणाचार्यः पञ्चमं व्याकरोत्यथ ।।
तत्र ‘ यदद्य सूर्य ' इति द्वादशर्चं पञ्चमं सूक्तम् । अत्रानुक्रमणिका – यदद्य मैत्रावरुणं तु वै सौर्याद्या ' इति । मण्डलद्रष्टा वसिष्ठ ऋषिः । अनुक्तत्वात्त्रिष्टुप् छन्दः । ‘तु वै ' इत्युक्तत्वादेतदादीनि सप्त सूक्तानि मित्रावरुणदेवत्यानि आद्या सूर्यदेवत्या । विनियोगो लैङ्गिकः ॥
यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् ।
व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्त॑ः ॥१
यत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् ।
व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥१
यत् । अद्य । सूर्य । ब्रवः । अनागाः । उत्ऽयन् । मित्राय । वरुणाय । सत्यम् ।
वयम् । देवऽत्रा । अदिते । स्याम । तव । प्रियासः । अर्यमन् । गृणन्तः ॥१
हे "सूर्य सर्वस्य प्रेरकैतन्नामक देव "उद्यन् उदयंस्त्वं “यत् यदि “अद्य अस्मिन्ननुष्ठानकाले अस्मान् “ब्रवः ब्रूयाः । किमिति । “अनागाः अनागस इति । एतेऽपापा इति यदि देवेषु मध्ये ब्रूयाः तर्हि “वयं हे “अदिते अदीन देव “देवत्रा देवेषु देवानां मध्ये "मित्राय “वरुणाय च "सत्यम् अवितथं "स्याम अनागसो भवेम। किंच हे अर्यमन् दातः त्वां “गृणन्तः स्तुवन्तः “तव “प्रियासः प्रियाः स्याम त्वत्प्रेमविषया भवेम । यद्वा । उत्तरार्धं एकं वाक्यम् । हे अदिते हे अर्यमन् उक्तलक्षण देव वयं देवेषु मध्ये त्वां गृणन्तस्तवैव प्रियाः स्याम । यदि मां देवेष्वपापं ब्रूयास्तर्हि तैरयमनपराधीत्यनुगृहीतस्त्वां स्तुत्वा तव प्रियो भवेयमित्यर्थः ।।
ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् ।
विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥२
ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् ।
विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥२
एषः । स्यः । मित्रावरुणा । नृऽचक्षाः । उभे इति । उत् । एति । सूर्यः । अभि । ज्मन् ।
विश्वस्य । स्थातुः । जगतः । च । गोपाः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥२
हे “मित्रावरुणा “एषः पुरतो दृश्यमानः “स्यः सः सर्वैः स्तुत्यत्वेन प्रसिद्धः “नृचक्षाः नृणां मनुष्याणां द्रष्टा "सूर्यः “उभे द्यावापृथिव्यौ “अभि अभिलक्ष्य “उदेति "ज्मन् अन्तरिक्षे गच्छन् । स विशेष्यते । “विश्वस्य सर्वस्य “स्थातुः स्थावरस्य “जगतः जङ्गमस्य “च गोपाः गोपायिता। किं कुर्वन् । 'मर्तेषु मनुष्येषु स्थितानि “ऋजु ऋजूनि सुकृतानि “वृजिना वृजिनानि पापानि “च “पश्यन् ॥
अयु॑क्त स॒प्त ह॒रित॑ः स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताची॑ः ।
धामा॑नि मित्रावरुणा यु॒वाकु॒ः सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥३
अयु॑क्त । स॒प्त । ह॒रितः॑ । स॒धऽस्था॑त् । याः । ई॒म् । वह॑न्ति । सूर्य॑म् । घृ॒ताचीः॑ ।
धामा॑नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः॑ । सम् । यः । यू॒थाऽइ॑व । जनि॑मानि । चष्टे॑ ॥३
अयुक्त । सप्त । हरितः । सधऽस्थात् । याः । ईम् । वहन्ति । सूर्यम् । घृताचीः ।
धामानि । मित्रावरुणा । युवाकुः । सम् । यः । यूथाऽइव । जनिमानि । चष्टे ॥३
हे “मित्रावरुणा मित्रावरुणौ युवयोरागमनाय “सधस्थात् सहस्थानादन्तरिक्षात् अन्तरिक्षे “सप्त सर्पणस्वभावान् एतत्संख्याकान् वा “हरितः हरिद्वर्णानश्वान् “अयुक्त युक्तवान् रथे । 'हरित आदित्यस्य ' इति हि निरुक्तम् । “याः हरितः “ईम् एनम् “सूर्यं देवं “घृताचीः घृताञ्चना उदकवत्यः । उदकप्रदा इत्यर्थः । तादृश्यः सत्यो “वहन्ति ता अयुक्त । अथोदितः सन् “धामानि स्थानानि लोकान् “जनिमानि जन्मानि । जन्मभाजः प्राणिन इत्यर्थः। तांश्च “युवाकुः युवां कामयमानः “यः देवः “सं “चष्टे सम्यक् पश्यति "यूथेव गोयूथानीव यूथपाः । स यथा सर्वं यूथं तदवान्तरगोव्यक्तिं च सम्यक् पश्यति तद्वल्लोकान् प्राणिनश्च पश्यति ।।
उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्ण॑ः ।
यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑ः ॥४
उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । अ॒स्थुः॒ । आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ ।
यस्मै॑ । आ॒दि॒त्याः । अध्व॑नः । रद॑न्ति । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ॥४
उत् । वाम् । पृक्षासः । मधुऽमन्तः । अस्थुः । आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः ।
यस्मै । आदित्याः । अध्वनः । रदन्ति । मित्रः । अर्यमा । वरुणः । सऽजोषाः ॥४
हे मित्रावरुणौ “वां युवयोरर्थाय "पृक्षासः अन्नानि चरुपुरोडाशादीनि "मधुमन्तः माधुर्योपेतानि तत्साधनान्योषध्यादीनि वा “उत् "अस्थुः संपादितान्यासन् । “सूर्यः च “शुक्रं दीप्तम् “अर्णः अर्णवमन्तरिक्षम् “आ “अरुहत् आरोहति । “यस्मै सूर्याय तद्गमनार्थम् “आदित्याः अदितेः पुत्री देवाः “आध्वनः मार्गान् “रदन्ति विलिखन्ति साधयन्ति । के ते। “मित्रः “अर्यमा “वरुणः च एते त्रयोऽपि देवाः सजोषसः समानप्रीतयः सन्तः । स देव आरुहदिति ॥
इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ ।
इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मास॑ः पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥५
इ॒मे । चे॒तारः॑ । अनृ॑तस्य । भूरेः॑ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । हि । सन्ति॑ ।
इ॒मे । ऋ॒तस्य॑ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः॑ । पु॒त्राः । अदि॑तेः । अद॑ब्धाः ॥५
इमे । चेतारः । अनृतस्य । भूरेः । मित्रः । अर्यमा । वरुणः । हि । सन्ति ।
इमे । ऋतस्य । ववृधुः । दुरोणे । शग्मासः । पुत्राः । अदितेः । अदब्धाः ॥५
“इमे “मित्रः “अर्यमा "वरुणः च त्रयोऽपि “अनृतस्य पापस्य “भूरेः प्रभूतस्य “चेतारः हन्तारः “सन्ति भवन्ति "हि। "इमे मित्रादयः “ऋतस्य यज्ञस्य “दुरोणे गृहे "ववृधुः वर्धन्ते हविषा स्तुत्या च । कीदृशास्ते । “शग्मासः सुखकराः "अदितेः “पुत्राः “अदब्धाः अहिंसिताः ॥
इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षै॑ः ।
अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंह॑ः सु॒पथा॑ नयन्ति ॥६
इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ ।
अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥६
इमे । मित्रः । वरुणः । दुःऽदभासः । अचेतसम् । चित् । चितयन्ति । दक्षैः ।
अपि । क्रतुम् । सुऽचेतसम् । वतन्तः । तिरः । चित् । अंहः । सुऽपथा । नयन्ति ॥६
“इमे आदित्याः “मित्रः “वरुणः च । एतद्द्यमर्यम्णोऽप्युपलक्षणम् । एते “दूळभासः दुर्दभाः अनभिभाव्याः "अचेतसं “चित् अप्रज्ञानमनुष्ठानविषयज्ञानरहितमपि “दक्षैः सामर्थ्यैः “चितयन्ति । “अपि “सुचेतसं प्रकृष्टज्ञानवन्तं पुरुषं “क्रतुं कर्तारं कर्मानुष्ठानवन्तं “वतन्तः गच्छन्तः “अंहः दुष्कृतं "तिरश्चित् तिरो नयन्तोऽस्मान् "सुपथा शोभनेन मार्गेण "नयन्ति प्रापयन्त्यभिमतं यज्ञं स्वर्गादिकं वा ॥ ॥ १ ॥
इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति ।
प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥७
इ॒मे । दि॒वः । अनि॑ऽमिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः॑ । अ॒चे॒तस॑म् । न॒य॒न्ति॒ ।
प्र॒ऽव्रा॒जे । चि॒त् । न॒द्यः॑ । गा॒धम् । अ॒स्ति॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य॑ । प॒र्ष॒न् ॥७
इमे । दिवः । अनिऽमिषा । पृथिव्याः । चिकित्वांसः । अचेतसम् । नयन्ति ।
प्रऽव्राजे । चित् । नद्यः । गाधम् । अस्ति । पारम् । नः । अस्य । विष्पितस्य । पर्षन् ॥७
“इमे मित्रादयः “दिवः द्युलोकस्य “पृथिव्याः च संबन्धिनः “अनिमिषा अनिमेषेण सर्वदा “चिकित्वांसः जानन्तः । कम् । “अचेतसम् अज्ञानम् । “नयन्ति प्रापयन्ति कर्माणि । “प्रव्राजे “चित् प्रवणेऽप्यत्यन्तनिम्नेऽपि देशे “नद्यः नद्याः “गाधमस्ति भवति युष्मत्सामर्थ्यात् । ते महान्तः “नः अस्माकम् “अस्य “विष्पितस्य व्याप्तितस्य(?) कर्मणः “पारं “पर्षन् पारयन्तु नयन्तु ॥
यद्गो॒पाव॒ददि॑ति॒ः शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ ।
तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥८
यत् । गो॒पाव॑त् । अदि॑तिः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्छ॑न्ति । वरु॑णः । सु॒ऽदासे॑ ।
तस्मि॑न् । आ । तो॒कम् । तन॑यम् । दधा॑नाः । मा । क॒र्म॒ । दे॒व॒ऽहेळ॑नम् । तु॒रा॒सः॒ ॥८
यत् । गोपावत् । अदितिः । शर्म । भद्रम् । मित्रः । यच्छन्ति । वरुणः । सुऽदासे ।
तस्मिन् । आ । तोकम् । तनयम् । दधानाः । मा । कर्म । देवऽहेळनम् । तुरासः ॥८
“यत् “शर्म सुखं गृहं वा “गोपावत् रक्षणोपेतं “भद्रं स्तुत्यम् “अदितिः अदीनोऽर्यमादितिर्वा “मित्रः “वरुणः च एते त्रयो देवाः “सुदासे सुदानाय मह्यं “यच्छन्ति प्रयच्छन्ति “तस्मिन् शर्मणि “तोकं पुत्रं “तनयं तत्पुत्रादिकम् । अथवा तनयशब्दोऽपत्यसामान्यवचनः । तोकं बलवन्तं पुत्रम् "आ सर्वतः “दधानाः धारयन्तो वयं हे “तुरासः गमनाय त्वरमाणाः "देवहेळनं देवानां मित्रादीनां कोपनं “मा “कर्म मा कार्ष्म ।।
अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिप॒ः काश्चि॑द्वरुण॒ध्रुत॒ः सः ।
परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कम् ॥९
अव॑ । वेदि॑म् । होत्रा॑भिः । य॒जे॒त॒ । रिपः॑ । काः । चि॒त् । व॒रु॒ण॒ऽध्रुतः॑ । सः ।
परि॑ । द्वेषः॑ऽभिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒ऽदासे॑ । वृ॒ष॒णौ॒ । ऊं॒ इति॑ । लो॒कम् ॥९
अव । वेदिम् । होत्राभिः । यजेत । रिपः । काः । चित् । वरुणऽध्रुतः । सः ।
परि । द्वेषःऽभिः । अर्यमा । वृणक्तु । उरुम् । सुऽदासे । वृषणौ । ऊं इति । लोकम् ॥९
हे मित्रादयः “सः अस्मद्द्वेषी "वेदिं यागसाधनं "होत्राभिः। वाङ्नामैतत् । वाग्रूपाभिः स्तुतिभिः सार्धम् “अव “यजेत । वेद्यां कर्माणि कुर्वन् देवान्न स्तुयादित्यर्थः। अवपूर्वो यजतिस्त्यागार्थः । स किं प्राप्नुयादिति तत्राह। “वरुणध्रुतः वरुणेन त्वया हिंसितः सः “काश्चित् “रिपः हिंसाः प्राप्नुयादिति शेषः । अस्मांस्तु “अर्यमा देवः "द्वेषोभिः द्वेष्टृभी रक्षःप्रभृतिभिः “परि “वृणक्तु वर्जयतु । “उरुं विस्तीर्णं “लोकं स्थानं “सुदासे शोभनदानाय मह्यं प्रयच्छतं हे “वृषणा वर्षकौ कामानां मित्रावरुणौ ॥
स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते ।
यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥१०
स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते ।
यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥१०
सस्वरिति । चित् । हि । सम्ऽऋतिः । त्वेषी । एषाम् । अपीच्येन । सहसा । सहन्ते ।
युष्मत् । भिया । वृषणः । रेजमानाः । दक्षस्य । चित् । महिना । मृळत । नः ॥१०
“एषां मित्रादीनां “समृतिः संगतिः संहतिर्वा “सस्वः अन्तर्हिता निगूढा “त्वेषी दीप्ता च भवति । तादृशा एते “अपीच्येन । एतदप्यन्तर्हितनाम। निगूढेन “सहसा बलेन “सहन्ते अभिभवन्त्यस्मद्वे्यष्टॄन् । किंच हे “वृषणः अभिमतवर्षका मित्रादयः "युष्मत् युष्मत्तः “भिया भीत्या “रेजमानाः कम्पमाना भवन्ति विरोधिनः । यस्मादेवं तस्मात् “दक्षस्य युष्माकं बलस्य “महिना महिम्ना महत्त्वेन "नः अस्मभ्यं “मृळत उपदयां कुरुत ॥
यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः ।
सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥११
यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः ।
सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥११
यः । ब्रह्मणे । सुऽमतिम् । आऽयजाते । वाजस्य । सातौ । परमस्य । रायः ।
सीक्षन्त । मन्युम् । मघऽवानः । अर्यः । उरु । क्षयाय । चक्रिरे । सुऽधातु ॥११
"यः यजमानः “ब्रह्मणे परिवृढस्वकर्मणे युष्मत्स्तोत्ररूपाय “सुमतिं शोभनां बुद्धिम् “आयजाते आयजते । यजतिरत्र दाने । ददाति करोति । किमर्थम्। “वाजस्य अन्नस्य “सातौ दाने निमित्ते “परमस्य उत्कृष्टस्य “रायः धनस्य च सातौ। तस्य “अर्यः । ईरयति स्तुतीः प्रेरयतीत्यरिः स्तोता। “मन्युं स्तोत्रं “मघवानः दानवन्तोऽर्यमादयः “सीक्षन्त सचन्ते । सेवित्वा च तस्य “उरुक्षयाय विस्तीर्णनिवासाय "सुधातु सुधाम शोभनस्थानं “चक्रिरे कुर्वते ॥
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।
विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१२
इ॒यम् । दे॒वा॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।
विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१२
इयम् । देवा । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि ।
विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१२
अनया स्तुतिमुपसंहरति । हे “देवा देवौ “मित्रावरुणौ “युवभ्यां युवाभ्यां “यज्ञेषु “इयं “पुरोहितिः पुरस्क्रिया पूजा स्तुतिलक्षणा "अकारि कृताभूत्। तां सेवित्वा “विश्वानि सर्वाणि “दुर्गा दुःखेन गन्तव्यान्यापदः “तिरः तिरस्कुरुतम् । तथा कृत्वा "नः अस्मान् “पिपृतं पारयतम् । शिष्टो गतः ॥ ॥ २ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|