ऋग्वेदः सूक्तं ७.७७

(ऋग्वेद: सूक्तं ७.७७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.७६ ऋग्वेदः - मण्डल ७
सूक्तं ७.७७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७८ →
दे. उषसः। त्रिष्टुप्।


उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै ।
अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥१॥
विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् ।
हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥२॥
देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् ।
उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥३॥
अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः ।
यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥४॥
अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः ।
इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥५॥
यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः ।
सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

‘ उपो रुरुचे ' इति षडृचं सप्तमं सूक्तं वसिष्ठस्यार्षमुषस्यम् । तथा चानुक्रान्तम् - उपो रुरुचे षट् ' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वन्ती॑ च॒रायै॑ ।

अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥१

उपो॒ इति॑ । रु॒रु॒चे॒ । यु॒व॒तिः । न । योषा॑ । विश्व॑म् । जी॒वम् । प्र॒ऽसु॒वन्ती॑ । च॒रायै॑ ।

अभू॑त् । अ॒ग्निः । स॒म्ऽइधे॑ । मानु॑षाणाम् । अकः॑ । ज्योतिः॑ । बाध॑माना । तमां॑सि ॥१

उपो इति । रुरुचे । युवतिः । न । योषा । विश्वम् । जीवम् । प्रऽसुवन्ती । चरायै ।

अभूत् । अग्निः । सम्ऽइधे । मानुषाणाम् । अकः । ज्योतिः । बाधमाना । तमांसि ॥१

इयमुषाः "उपो समीप एव सूर्यस्य “रुरुचे दीप्यते । “युवतिः यौवनोपेता “योषा “न योषिदिव। सा थथा वस्त्राभरणादिना पत्युः समीपे प्रदीप्यते तद्वत् । किं कुर्वती । “विश्वं सर्वं “जीवं जीवसंघं “चरायै संचाराय “प्रसुवन्ती प्रेरयन्ती । किंच “अग्निः “मानुषाणां मनुष्याणामर्थाय “समिधे “अभूत् समिन्धनीयोऽभवत्। कृत्यार्थे केन् । समिद्धः सन् “तमांसि अन्धकारान् “बाधमाना बाधमानं बाधकं “ज्योतिः तेजःसंघम् “अकः अकार्षीत् । अथवा । औषसं ज्योतिस्तमांसि बाधमाना बाध्यमानान्यकः अकरोत् ॥


विश्वं॑ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् ।

हिर॑ण्यवर्णा सु॒दृशी॑कसंदृ॒ग्गवां॑ मा॒ता ने॒त्र्यह्ना॑मरोचि ॥२

विश्व॑म् । प्र॒ती॒ची । स॒ऽप्रथाः॑ । उत् । अ॒स्था॒त् । रुश॑त् । वासः॑ । बिभ्र॑ती । शु॒क्रम् । अ॒श्वै॒त् ।

हिर॑ण्यऽवर्णा । सु॒दृशी॑कऽसन्दृक् । गवा॑म् । मा॒ता । ने॒त्री । अह्ना॑म् । अ॒रो॒चि॒ ॥२

विश्वम् । प्रतीची । सऽप्रथाः । उत् । अस्थात् । रुशत् । वासः । बिभ्रती । शुक्रम् । अश्वैत् ।

हिरण्यऽवर्णा । सुदृशीकऽसन्दृक् । गवाम् । माता । नेत्री । अह्नाम् । अरोचि ॥२

"विश्वं कृत्स्नं जगत् प्रति “प्रतीची अभिमुखी “सप्रथाः सर्वतः पृथुतरा “उदस्थात् उदगच्छत् । उदिता च “रुशत् दीप्तं “शुक्रं तेजोमयं “वासः वसनीयं तेजःसमूहं “बिभ्रती धारयन्ती “अश्वैत् वर्धते । “हिरण्यवर्णा हितरमणीयवर्णोपेता “सुदृशीकसंदृक् । संदर्शयतीति संदृक् तेजः । सुष्ठु दर्शनीयं संदृक् तेजो यस्याः सा तादृशी । “गवां वाचां गवामेव वा “माता निर्मात्री । उषःकाले हि पक्षिमनुष्यादीनां वाचो निर्गच्छन्ति । गवामपि तस्मिन् काले संचारात्तन्निर्मातृत्वम् । अथवा रश्मीनां निर्मात्री । “अरोचि रोचते "अह्नां “नेत्री दिवसानां प्रापयित्री ॥


दे॒वानां॒ चक्षु॑ः सु॒भगा॒ वह॑न्ती श्वे॒तं नय॑न्ती सु॒दृशी॑क॒मश्व॑म् ।

उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू॑ता ॥३

दे॒वाना॑म् । चक्षुः॑ । सु॒ऽभगा॑ । वह॑न्ती । श्वे॒तम् । नय॑न्ती । सु॒ऽदृशी॑कम् । अश्व॑म् ।

उ॒षाः । अ॒द॒र्शि॒ । र॒श्मिऽभिः॑ । विऽअ॑क्ता । चि॒त्रऽम॑घा । विश्व॑म् । अनु॑ । प्रऽभू॑ता ॥३

देवानाम् । चक्षुः । सुऽभगा । वहन्ती । श्वेतम् । नयन्ती । सुऽदृशीकम् । अश्वम् ।

उषाः । अदर्शि । रश्मिऽभिः । विऽअक्ता । चित्रऽमघा । विश्वम् । अनु । प्रऽभूता ॥३

"देवानां “चक्षुः चक्षुःस्थानीयं तेजः "वहन्ती धारयन्ती “सुभगा शोभनधना “सुदृशीकं सुदर्शनम् "अश्वं सर्वदा गन्तारमादित्यं "नयन्ती प्रापयन्ती। किम् । “श्वेतं श्वेतवर्णोपेतं सूर्यम् । प्रकाशयुक्तं कुर्वतीत्यर्थः। कीदृश्युषाः। “रश्मिभिः स्वकीयैः “व्यक्ता “अदर्शि दृश्यते च । “चित्रामघा विचित्रधना "विश्वमनु सर्वं जगदनुलक्ष्य “प्रभूता प्रवृद्धा । सर्वजगद्व्यवहारायेत्यर्थः ।।


अन्ति॑वामा दू॒रे अ॒मित्र॑मुच्छो॒र्वीं गव्यू॑ति॒मभ॑यं कृधी नः ।

या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू॑नि चो॒दय॒ राधो॑ गृण॒ते म॑घोनि ॥४

अन्ति॑ऽवामा । दू॒रे । अ॒मित्र॑म् । उ॒च्छ॒ । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । कृ॒धि॒ । नः॒ ।

य॒वय॑ । द्वेषः॑ । आ । भ॒र॒ । वसू॑नि । चो॒दय॑ । राधः॑ । गृ॒ण॒ते । म॒घो॒नि॒ ॥४

अन्तिऽवामा । दूरे । अमित्रम् । उच्छ । उर्वीम् । गव्यूतिम् । अभयम् । कृधि । नः ।

यवय । द्वेषः । आ । भर । वसूनि । चोदय । राधः । गृणते । मघोनि ॥४

हे उषः “अन्तिवामा। अन्ति अस्मदन्तिके वामं वननीयं धनं यस्याः सा अन्तिवामा । त्वम् “अमित्रम् अस्मच्छत्रुं “दूरे अस्मत्तो विप्रकृष्टदेशे वर्तमानं कृत्वा व्युच्छ विभाहि। यथामित्रो दूरे भवति तथा व्युच्छेत्यर्थः। तथा “उर्वीं “गव्यूतिं भूमिम् “अभयं “नः अस्माकं “कृधि कुरु। किंच “द्वेषः अस्मद्द्वेष्टॄन् “यावय अस्मत्तः पृथक्कुरु । “वसूनि शत्रूणां धनानि “आ “भर आहर। “राधः धनं “चोदय प्रेरय “गृणते स्तुवते मह्यं हे "मघोनि धनवति ॥


अ॒स्मे श्रेष्ठे॑भिर्भा॒नुभि॒र्वि भा॒ह्युषो॑ देवि प्रति॒रन्ती॑ न॒ आयु॑ः ।

इषं॑ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा॑व॒द्रथ॑वच्च॒ राध॑ः ॥५

अ॒स्मे इति॑ । श्रेष्ठे॑भिः । भा॒नुऽभिः॑ । वि । भा॒हि॒ । उषः॑ । दे॒वि॒ । प्र॒ऽति॒रन्ती॑ । नः॒ । आयुः॑ ।

इष॑म् । च॒ । नः॒ । दध॑ती । वि॒श्व॒ऽवा॒रे॒ । गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । च॒ । राधः॑ ॥५

अस्मे इति । श्रेष्ठेभिः । भानुऽभिः । वि । भाहि । उषः । देवि । प्रऽतिरन्ती । नः । आयुः ।

इषम् । च । नः । दधती । विश्वऽवारे । गोऽमत् । अश्वऽवत् । रथऽवत् । च । राधः ॥५

हे “उषो “देवि “अस्मे अस्मभ्यं “श्रेष्ठेभिः प्रशस्यैः “भानुभिः रश्मिभिः प्रकाशैः “वि “भाहि प्रकाशय । किं कुर्वती । "नः अस्माकम् "आयुः आयुष्यं “प्रतिरन्ती वर्धयन्ती। हे “विश्ववारे विश्वैः संभजनीये देवि “नः अस्मभ्यम् “इषम् अन्नं “च "गोमत् गोभिर्बहुभिरुपेतम् “अश्वावत् अश्वैश्चोपेतं “रथवत् रथैरुपेतं “राधः धनं “च “दधती वि भाहीति ॥


यां त्वा॑ दिवो दुहितर्व॒र्धय॒न्त्युष॑ः सुजाते म॒तिभि॒र्वसि॑ष्ठाः ।

सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हन्तं॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

यान् । त्वा॒ । दि॒वः॒ । दु॒हि॒तः॒ । व॒र्धय॑न्ति । उषः॑ । सु॒ऽजा॒ते॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः ।

सा । अ॒स्मासु॑ । धाः॒ । र॒यिम् । ऋ॒ष्वम् । बृ॒हन्त॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

यान् । त्वा । दिवः । दुहितः । वर्धयन्ति । उषः । सुऽजाते । मतिऽभिः । वसिष्ठाः ।

सा । अस्मासु । धाः । रयिम् । ऋष्वम् । बृहन्तम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

हे “दिवो “दुहितः “उषः "सुजाते शोभनजनने "यां “त्वा त्वां “मतिभिः स्तोत्रैः “वसिष्ठाः "वर्धयन्ति “सा त्वम् “अस्मासु वसिष्ठेषु “ऋष्वं प्रदीप्तं "बृहन्तं महान्तं “रयिं धनं “धाः धेहि ॥ ॥ २४ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७७&oldid=201200" इत्यस्माद् प्रतिप्राप्तम्