ऋग्वेदः सूक्तं ७.२५
← सूक्तं ७.२४ | ऋग्वेदः - मण्डल ७ सूक्तं ७.२५ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.२६ → |
दे. इन्द्रः। त्रिष्टुप्। |
आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः ।
पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत् ॥१॥
नि दुर्ग इन्द्र श्नथिह्यमित्राँ अभि ये नो मर्तासो अमन्ति ।
आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम् ॥२॥
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु ।
जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥३॥
त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ ।
विश्वेदहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः ॥४॥
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः ।
सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥५॥
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥६॥
सायणभाष्यम्
‘आ ते मह इन्द्र' इति षडृचमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ ते' इत्यनुक्रान्तम् । महाव्रते निष्केवल्य इदमादीनि पञ्च सूक्तानि । सूत्रितं च-’ आ ते मह इन्द्रोत्युग्रेति पञ्च सूक्तानि (ऐ. आ. ५. २. २) इति ॥
आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मर॑न्त॒ सेना॑ः ।
पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥१
आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । सऽम॑न्यवः । यत् । स॒म्ऽअर॑न्त । सेनाः॑ ।
पता॑ति । दि॒द्युत् । नर्य॑स्य । बा॒ह्वोः । मा । ते॒ । मनः॑ । वि॒ष्व॒द्र्य॑क् । वि । चा॒री॒त् ॥१
आ । ते । महः । इन्द्र । ऊती । उग्र । सऽमन्यवः । यत् । सम्ऽअरन्त । सेनाः ।
पताति । दिद्युत् । नर्यस्य । बाह्वोः । मा । ते । मनः । विष्वद्र्यक् । वि । चारीत् ॥१
हे "उग्र उद्गूर्ण ओजस्विन् “इन्द्र “यत् यदा “समन्यवः । समो मन्युरभिमानो वासां ताः समन्यवः । “सेनाः “समरन्त युध्यन्ते संगच्छन्ते' वा तदा “नर्यस्य नरहितस्य “महः महतः । “ते तव “बाह्वोः स्थिता “दिद्युत् आयुधम् । “दिद्युत् हेतिः' इति वज्रनामसु पाठात् । “ऊती ऊत्यै अस्मद्रक्षायै “आ “पताति आपततु । तव “विष्वद्र्यक् विष्वग्गन्तृ “मनः च “मा “वि चारीत् अस्मास्वेव स्थिरं भवतु ॥
नि दु॒र्ग इ॑न्द्र श्नथिह्य॒मित्राँ॑ अ॒भि ये नो॒ मर्ता॑सो अ॒मन्ति॑ ।
आ॒रे तं शंसं॑ कृणुहि निनि॒त्सोरा नो॑ भर स॒म्भर॑णं॒ वसू॑नाम् ॥२
नि । दुः॒ऽगे । इ॒न्द्र॒ । श्न॒थि॒हि॒ । अ॒मित्रा॑न् । अ॒भि । ये । नः॒ । मर्ता॑सः । अ॒मन्ति॑ ।
आ॒रे । तम् । शंस॑म् । कृ॒णु॒हि॒ । नि॒नि॒त्सोः । आ । नः॒ । भ॒र॒ । स॒म्ऽभर॑णम् । वसू॑नाम् ॥२
नि । दुःऽगे । इन्द्र । श्नथिहि । अमित्रान् । अभि । ये । नः । मर्तासः । अमन्ति ।
आरे । तम् । शंसम् । कृणुहि । निनित्सोः । आ । नः । भर । सम्ऽभरणम् । वसूनाम् ॥२
हे “इन्द्र “दुर्गे युद्धे “ये “मर्तासः मर्ताः “अभि अभिमुखाः सन्तः “नः अस्मान् “अमन्ति अभिभवन्ति तान् "अमित्रान् शत्रून् “नि “श्नथिहि निजहि । अपि च “निनित्सोः अस्मान्निन्दितुमिच्छतो नरस्य “तं "शंसम् आशंसनम् "आरे दूरे “कृणुहि कुरु । अपि च “नः अस्मभ्यं “वसूनां धनानां “संभरणं समूहम् “आ “भर आहर ॥
श॒तं ते॑ शिप्रिन्नू॒तय॑ः सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु ।
ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥३
श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः॑ । सु॒ऽदासे॑ । स॒हस्र॑म् । शंसाः॑ । उ॒त । रा॒तिः । अ॒स्तु॒ ।
ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य । अ॒स्मे इति॑ । द्यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ ॥३
शतम् । ते । शिप्रिन् । ऊतयः । सुऽदासे । सहस्रम् । शंसाः । उत । रातिः । अस्तु ।
जहि । वधः । वनुषः । मर्त्यस्य । अस्मे इति । द्युम्नम् । अधि । रत्नम् । च । धेहि ॥३
हे शिप्रिन् उष्णीषिन्निन्द्र “ते त्वदीयाः “शतं बह्यः ी “ऊतयः रक्षाः “सुदासे शोभनदानाय मह्यं सन्तु । "सहस्रं “शंसाः शंसनीयाः कामाश्च सन्तु। "उत अपि च “रातिः धनम् “अस्तु । "वनुषः हिंसकस्य “मर्त्यस्य “वधः हिंसासाधनमायुधं च "जहि । अपि च "अस्मे “अधि अस्मासु “द्युम्नं दीप्तिमदन्नं यशो वा “रत्नं “च “धेहि। तथा च यास्कः- द्युम्नं द्योततेर्यशो वान्नं वा । अस्मे द्युम्नमधि रत्नं च धेहि । अस्मासु द्युम्नं च रत्नं च धेहि' (निरु. ५. ५) इति ।।
त्वाव॑तो॒ ही॑न्द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू॑र रा॒तौ ।
विश्वेदहा॑नि तविषीव उग्रँ॒ ओक॑ः कृणुष्व हरिवो॒ न म॑र्धीः ॥४
त्वाऽव॑तः । हि । इ॒न्द्र॒ । क्रत्वे॑ । अस्मि॑ । त्वाऽव॑तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ ।
विश्वा॑ । इत् । अहा॑नि । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । ओकः॑ । कृ॒णु॒ष्व॒ । ह॒रि॒ऽवः॒ । न । म॒र्धीः॒ ॥४
त्वाऽवतः । हि । इन्द्र । क्रत्वे । अस्मि । त्वाऽवतः । अवितुः । शूर । रातौ ।
विश्वा । इत् । अहानि । तविषीऽवः । उग्र । ओकः । कृणुष्व । हरिऽवः । न । मर्धीः ॥४
हे "इन्द्र “त्वावतः त्वत्सदृशस्य “क्रत्वे कर्मणे "अस्मि भवामि “हि । हे "शूर “अवितुः विश्वस्य रक्षितुः “त्वावतः त्वत्सदृशस्य "रातौ दाने चास्मीति शेषः। हे “तविषीवः बलवन् “उग्र ओजस्विन्निन्द्र “विश्वेत् विश्वान्येव "अहानि "ओकः अस्माकं स्थानं “कृणुष्व कुरु। हे “हरिवः हरिवन् “न मर्धीः अस्मान्न हिंस्याः ॥
कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः ।
स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज॑म् ॥५
कुत्साः॑ । ए॒ते । हरि॑ऽअश्वाय । शू॒षम् । इन्द्रे॑ । सहः॑ । दे॒वऽजू॑तम् । इ॒या॒नाः ।
स॒त्रा । कृ॒धि॒ । सु॒ऽहना॑ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु॑त्राः । स॒नु॒या॒म॒ । वाज॑म् ॥५
कुत्साः । एते । हरिऽअश्वाय । शूषम् । इन्द्रे । सहः । देवऽजूतम् । इयानाः ।
सत्रा । कृधि । सुऽहना । शूर । वृत्रा । वयम् । तरुत्राः । सनुयाम । वाजम् ॥५
"एते “वयं वसिष्ठाः “हर्यश्वाय हरिनामकाश्वायेन्द्राय "शूषं सुखकरं स्तोत्रं "कुत्साः कुर्वाणाः । करोतेः कुत्सशब्दनिष्पत्तिः । “इन्द्रे "देवजूतं देवैः प्रेरितं “सहः बलम् इयानाः याचमानाः “तरुत्राः दुर्गाणि तीर्णाः सन्तः “वाजं बलं “सनुयाम लभेमहि । अपि च हे “शूर “वृत्रा वृत्राणि शत्रून् “सुहना हन्तुं सुशकानि "सत्रा सर्वदा “कृधि कुरु ॥
ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।
इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६
ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ ।
इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६
एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सुऽमतिम् । वेविदाम ।
इषम् । पिन्व । मघवत्ऽभ्यः । सुऽवीराम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६
इयं व्याख्यातचरा ॥ ॥ ९ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|