ऋग्वेदः सूक्तं ७.२७
← सूक्तं ७.२६ | ऋग्वेदः - मण्डल ७ सूक्तं ७.२७ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.२८ → |
दे. इन्द्रः। त्रिष्टुप्। |
इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः ।
शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥१॥
य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।
त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥२॥
इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥३॥
नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती ।
अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥४॥
नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय ।
गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘इन्द्रं नरः' इति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । ‘इन्द्रं नरः' इत्यनुक्रान्तम् । महाव्रते निष्केवल्य एतत्सूक्तमुक्तं तृतीयत्वेन । ऐन्द्रे पशौ वपापुरोडाशहविषामाद्यास्तिस्रः क्रमेणानुवाक्याः । सूत्रितं च– इन्द्रं नरो नेमधिता हवन्त इत्युरुं नो लोकमनु नेषि विद्वान्' ( आश्व. श्रौ. ३. ७) इति ॥
इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं न॑ः ॥१
इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः ।
शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोऽम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥१
इन्द्रम् । नरः । नेमऽधिता । हवन्ते । यत् । पार्याः । युनजते । धियः । ताः ।
शूरः । नृऽसाता । शवसः । चकानः । आ । गोऽमति । व्रजे । भज । त्वम् । नः ॥१
“यत् यदा “पार्याः युद्धभरणनिमित्ताः “ताः प्रसिद्धाः धियः कर्माणि युनजते प्रयुज्यन्ते तदा नरः नेतारः यम् इन्द्र नेमधितो नेमधितौ संग्रामे हवन्ते ह्वयन्ति सः त्वं “शूरः “नृषाता नृणां संभक्ता च “शवसः बलस्य बलं चकानः कामयमानश्च सन् 'गोमति “व्रजे गोठे गोसमूहे "नः अस्मान् “आ "भज प्रापय ॥
य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्य॑ः ।
त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राध॑ः ॥२
यः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ ।
त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥२
यः । इन्द्र । शुष्मः । मघऽवन् । ते । अस्ति । शिक्ष । सखिऽभ्यः । पुरुऽहूत । नृऽभ्यः ।
त्वम् । हि । दृळ्हा । मघऽवन् । विऽचेताः । अप । वृधि । परिऽवृतम् । न । राधः ॥२
हे "पुरुहूत बहुभिराहूत "इन्द्र "ते तव "यः “शुष्मः बलम् "अस्ति तं शुष्मं "सखिभ्यः स्तोतृभ्यः "नृभ्यः “शिक्ष देहि । अपि च हे "मघवन् "हि यस्मात् "दृळ्हा दृढानि । पुरां द्वाराणि बिभेदिथेति शेषः । तस्मात् सः "त्वं "विचेताः विविक्तप्रज्ञः सन् "परिवृतं तिरोहितं "राधः धनम् “अप “वृधि अस्मभ्यमपवृणु । "न इति संप्रत्यर्थे ।
इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ ।
ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥३
इन्द्रः॑ । राजा॑ । जग॑तः । च॒र्ष॒णी॒नाम् । अधि॑ । क्षमि॑ । विषु॑ऽरूपम् । यत् । अस्ति॑ ।
ततः॑ । द॒दा॒ति॒ । दा॒शुषे॑ । वसू॑नि । चोद॑त् । राधः॑ । उप॑ऽस्तुतः । चि॒त् । अ॒र्वाक् ॥३
इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमि । विषुऽरूपम् । यत् । अस्ति ।
ततः । ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपऽस्तुतः । चित् । अर्वाक् ॥३
सः "इन्द्रः "जगतः जङ्गमस्य पश्वादेर्यतः "राजा ईश्वरो भवति "चर्षणीनां मनुष्याणां च राजा भवति “अधि “क्षमि क्षमायां "विषुरूपं नानारूपं "यत् धनम् "अस्ति तस्यापि राजा भवति “ततः "दाशुषे यजमानाय “वसूनि धनानि "ददाति । स इन्द्रोऽस्माभिः "उपस्तुतः एव सन् "राधः धनम् "अर्वाक् अस्मदभिमुखं "चोदत् प्रेरयतु ॥
नू चि॑न्न॒ इन्द्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती ।
अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥४
नु । चि॒त् । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । सऽहू॑ती । दा॒नः । वाज॑म् । नि । य॒म॒ते॒ । नः॒ । ऊ॒ती ।
अनू॑ना । यस्य॑ । दक्षि॑णा । पी॒पाय॑ । वा॒मम् । नृऽभ्यः॑ । अ॒भिऽवी॑ता । सखि॑ऽभ्यः ॥४
नु । चित् । नः । इन्द्रः । मघऽवा । सऽहूती । दानः । वाजम् । नि । यमते । नः । ऊती ।
अनूना । यस्य । दक्षिणा । पीपाय । वामम् । नृऽभ्यः । अभिऽवीता । सखिऽभ्यः ॥४
"मघवा धनवान् "दानः ददानः सः "इन्द्रः "नः अस्माकं "सहूती सहूत्या मरुद्भिः सहाह्वानेन “वाजम् अन्नं “नः अस्मभ्यं “ऊती ऊत्यै रक्षायै "नू “चित् क्षिप्रमेव "नि "यमते प्रयच्छतु । "यस्य इन्द्रस्य "अनूना संपूर्णा "अभिवीता अभिप्राप्ता "दक्षिणा दानं "सखिभ्यः स्तोतृभ्यः "नृभ्यः “वामं वननीयं धनं "पीपाय दोग्धि ॥
नू इ॑न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ ।
गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
नु । इ॒न्द्र॒ । रा॒ये । वरि॑वः । कृ॒धि॒ । नः॒ । आ । ते॒ । मनः॑ । व॒वृ॒त्या॒म॒ । म॒घाय॑ ।
गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । व्यन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
नु । इन्द्र । राये । वरिवः । कृधि । नः । आ । ते । मनः । ववृत्याम । मघाय ।
गोऽमत् । अश्वऽवत् । रथऽवत् । व्यन्तः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
हे “इन्द्र "नः अस्मभ्यं "राये धनप्राप्तये "नु क्षिप्रं "वरिवः धनम् । वेदो वरिवः' इति धननामसु पाठात् । त्वं "कृधि देहि । वयं "ते तव "मनः “मघाय मंहनीयाय स्तुत्या "आ “ववृत्याम आवर्तयाम । स्पष्टमन्यत् ॥ ॥ ११ ॥
टिप्पणी
७.२७.१ इन्द्रं नरो इति
मण्डल ७ | ||||||
---|---|---|---|---|---|---|