ऋग्वेदः सूक्तं ७.४२

(ऋग्वेद: सूक्तं ७.४२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.४१ ऋग्वेदः - मण्डल ७
सूक्तं ७.४२
मैत्रावरुणिर्वसिष्ठः
सूक्तं ७.४३ →
दे. विश्वे देवाः। त्रिष्टुप्।


प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु ।
प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥१॥
सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च ।
ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥२॥
समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके ।
यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः ॥३॥
यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् ।
सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥४॥
इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः ।
आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥५॥
एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् ।
इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

‘प्र ब्रह्माणः' इति षड़ृचं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम् । अत्रानुक्रान्तं - ‘ प्र ब्रह्माणः षड्वैश्वदेवं तु ' इति । सूक्तविनियोगो लैङ्गिकः । तृतीये छन्दोमे प्रउगशस्त्रे ‘प्र ब्रह्माणः इति वैश्वदेवस्तृचः । सूत्रितं च --- प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्ते ' (आश्व. श्रौ. ८. ११ ) इति ॥


प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु ।

प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेश॑ः ॥१

प्र । ब्र॒ह्माणः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य॑स्य । वे॒तु॒ ।

प्र । धे॒नवः॑ । उ॒द॒ऽप्रुतः॑ । न॒व॒न्त॒ । यु॒ज्याता॑म् । अद्री॒ इति॑ । अ॒ध्व॒रस्य॑ । पेशः॑ ॥१

प्र । ब्रह्माणः । अङ्गिरसः । नक्षन्त । प्र । क्रन्दनुः । नभन्यस्य । वेतु ।

प्र । धेनवः । उदऽप्रुतः । नवन्त । युज्याताम् । अद्री इति । अध्वरस्य । पेशः ॥१

“ब्रह्माणः “अङ्गिरसः एतन्नामका ऋषयः “प्र “नक्षन्त सर्वत्र व्याप्नुवन्तु । “क्रन्दनुः पर्जन्यः “नभन्यस्य स्तोत्रस्यास्मदीयं स्तोत्रं “प्र “वेतु प्रकर्षेणेच्छतु । “धेनवः प्रीणयित्र्यो नद्यः “उदप्रुतः उदकानि सिञ्चन्त्यः “प्र “नवन्त सर्पन्तु। “अद्री आद्रियन्तौ पत्नीयजमानौ “अध्वरस्य यज्ञस्य “पेशः रूपं “युज्यातां योजयेताम् ॥


सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च ।

ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥२

सु॒ऽगः । ते॒ । अ॒ग्ने॒ । सन॑ऽवित्तः । अध्वा॑ । यु॒ङ्क्ष्व । सु॒ते । ह॒रितः॑ । रो॒हितः॑ । च॒ ।

ये । वा॒ । सद्म॑न् । अ॒रु॒षाः । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि । स॒त्तः ॥२

सुऽगः । ते । अग्ने । सनऽवित्तः । अध्वा । युङ्क्ष्व । सुते । हरितः । रोहितः । च ।

ये । वा । सद्मन् । अरुषाः । वीरऽवाहः । हुवे । देवानाम् । जनिमानि । सत्तः ॥२

हे “अग्ने “सनवित्तः सनाच्चिरकालादारभ्य लब्धः “ते त्वदीयः “अध्वा मार्गः “सुगः सुष्ठु गन्तव्यो भवतु । किंच “हरितः श्यामवर्णाः “रोहितश्च लोहितवर्णाश्चेत्युभयविधाः “ये “वा ये च ते त्वदीया अश्वाः “सद्मन् सद्मनि यज्ञगृहे “वीरवाहः वीरं शूरं त्वां वहन्तः “अरुषाः आरोचमाना भवन्ति तांश्च त्वं सु “युक्ष्व त्वदीये रथे सुष्ठु संयोजय । निसत्तो यज्ञगृहे निषण्णोऽहं होता सन् “देवानाम् इन्द्रादीनां जनिमा जनान् संघान् “हुवे आह्वयामि ॥


समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भि॒ः प्र होता॑ म॒न्द्रो रि॑रिच उपा॒के ।

यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥३

सम् । ऊं॒ इति॑ । वः॒ । य॒ज्ञम् । म॒ह॒य॒न् । नमः॑ऽभिः । प्र । होता॑ । म॒न्द्रः । रि॒रि॒चे॒ । उ॒पा॒के ।

यज॑स्व । सु । पु॒रु॒ऽअ॒नी॒क॒ । दे॒वान् । आ । य॒ज्ञिया॑म् । अ॒रम॑तिम् । व॒वृ॒त्याः॒ ॥३

सम् । ऊं इति । वः । यज्ञम् । महयन् । नमःऽभिः । प्र । होता । मन्द्रः । रिरिचे । उपाके ।

यजस्व । सु । पुरुऽअनीक । देवान् । आ । यज्ञियाम् । अरमतिम् । ववृत्याः ॥३

हे देवाः “वः युष्माकं “यज्ञं नमोभिः नमस्कारैर्युक्ता इमे स्तोतारो वा यजमाना वा “सं “महयन् सम्यक् पूजयन्ति । “उ इति पूरकः । “मन्द्रः स्तुतिशीलः “उपाके अस्माकं समीपे स्थितोऽस्मदीयः “होता “प्र “रिरिचे अन्येभ्यो होतृभ्योऽतिरिच्यते । हे यजमान त्वं “देवान् “सु सुष्ठु “यजस्व । हे “पुर्वणीक बहुतेजस्विन्नग्ने त्वं “यज्ञियां यज्ञार्हाम् “अरमतिं भूमिम् “आ “ववृत्याः आवर्तय । तथा च निगमान्तरे - आ नो महीमरमतिं सजोषाः' ( ऋ. सं. ५. ४३. ६) इति ॥


य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् ।

सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥४

य॒दा । वी॒रस्य॑ । रे॒वतः॑ । दु॒रो॒णे । स्यो॒न॒ऽशीः । अति॑थिः । आ॒ऽचिके॑तत् ।

सुऽप्री॑तः । अ॒ग्निः । सुऽधि॑तः । दमे॑ । आ । सः । वि॒शे । दा॒ति॒ । वार्य॑म् । इय॑त्यै ॥४

यदा । वीरस्य । रेवतः । दुरोणे । स्योनऽशीः । अतिथिः । आऽचिकेतत् ।

सुऽप्रीतः । अग्निः । सुऽधितः । दमे । आ । सः । विशे । दाति । वार्यम् । इयत्यै ॥४

“अतिथिः सर्वेषामतिथिभूतोऽग्निः “यदा “वीरस्य वीरकस्य स्तोत्राणां प्रेरयितुः “रेवतः हविष्मतो यजमानस्य “दुरोणे गृहे "स्योनशीः सुखेन शयनीयः “आचिकेतत् प्रज्ञायते "अग्निः “दमे यज्ञगृहे “सुधितः । आकाराश्चार्थे । सुनिहितश्च सुष्ठु निहितः सन् यदा “सुप्रीतः भवति तदा “सः अग्निः “इयत्यै उपगच्छन्त्यै “विशे प्रजायै “वार्यं वरणीयं धनं “दाति ददाति प्रयच्छति ॥


इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे॑ य॒शसं॑ कृधी नः ।

आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शन्ता॑ मि॒त्रावरु॑णा यजे॒ह ॥५

इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्ऽसु॑ । इन्द्रे॑ । य॒शस॑म् । कृ॒धि॒ । नः॒ ।

आ । नक्ता॑ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा॑ । उ॒शन्ता॑ । मि॒त्रावरु॑णा । य॒ज॒ । इ॒ह ॥५

इमम् । नः । अग्ने । अध्वरम् । जुषस्व । मरुत्ऽसु । इन्द्रे । यशसम् । कृधि । नः ।

आ । नक्ता । बर्हिः । सदताम् । उषसा । उशन्ता । मित्रावरुणा । यज । इह ॥५

हे “अग्ने त्वं “नः अस्मदीयम् “इमम् “अध्वरं यज्ञं “जुषस्व सेवस्व। किंच "मरुत्सु इन्द्रस्य सखिभूतेषु देवेषु “इन्द्रे च “यशसं यशोयुक्तं हविर्लक्षणान्नवन्तं “नः अस्मदीयं यज्ञं हे अग्ने त्वं “कृधि कुरु। स्थापयेत्यर्थः। तथा “नक्ता रात्रिश्च “उषसा दिवसश्च । अहर्निशे इत्यर्थः। “बर्हिः बर्हिषि कुशमये “आ “सदताम् उपविशताम् । अपि च हे अग्ने "उशन्ता उशन्तौ यज्ञमिच्छन्तौ “मित्रावरुणा मित्रावरुणौ देवौ “इह अस्मिन् यज्ञे “यज पूजय ॥


ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् ।

इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

ए॒व । अ॒ग्निम् । स॒ह॒स्य॑म् । वसि॑ष्ठः । रा॒यःऽका॑मः । वि॒श्वऽप्स्न्य॑स्य । स्तौ॒त् ।

इष॑म् । र॒यिम् । प॒प्र॒थ॒त् । वाज॑म् । अ॒स्मे इति॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

एव । अग्निम् । सहस्यम् । वसिष्ठः । रायःऽकामः । विश्वऽप्स्न्यस्य । स्तौत् ।

इषम् । रयिम् । पप्रथत् । वाजम् । अस्मे इति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

“वसिष्ठः एतदाख्य ऋषिः “रायस्कामः पश्वादिधनानीच्छन् “एव एवमुक्तप्रकारेण सहस्यम् । सहो बलम् । तस्य पुत्रम् । तद्वन्तमिति वा। “अग्निं देवं विश्वप्न्यस्य पुरुरूपस्य धनस्य लाभाय “स्तौत् । एवंभूतोऽग्निः “अस्मे अस्मभ्यम् “इषम् अन्नं “रयिं धनं “वाजं बलं च “पप्रथत् प्रथयतु विस्तारयतु । ददात्वित्यर्थः । अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवाः यूयम् अस्मान् कल्याणैः सर्वदा पालयत ॥ ॥ ९ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४२&oldid=200867" इत्यस्माद् प्रतिप्राप्तम्