ऋग्वेदः सूक्तं ७.५८
← सूक्तं ७.५७ | ऋग्वेदः - मण्डल ७ सूक्तं ७.५८ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.५९ → |
दे. मरुतः। त्रिष्टुप्। |
प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् ।
उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात् ॥१॥
जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः ।
प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक् ॥२॥
बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः ।
गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत ॥३॥
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।
युष्मोतः सम्राळुत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम् ॥४॥
ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः ।
यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् ॥५॥
प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त ।
आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥६॥
सायणभाष्यम्
‘ प्र साकमुक्षे ' इति षडृचं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकम् । अनुक्रान्तं च - ‘ प्र साकमुक्षे षट् ' इति । गतो विनियोगः ॥
प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् ।
उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निरृ॑तेरवं॒शात् ॥१
प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् ।
उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥१
प्र । साकम्ऽउक्षे । अर्चत । गणाय । यः । दैव्यस्य । धाम्नः । तुविष्मान् ।
उत । क्षोदन्ति । रोदसी इति । महिऽत्वा । नक्षन्ते । नाकम् । निःऽऋतेः । अवंशात् ॥१
हे स्तोतारो यूयं “साकमुक्षे संततं वर्षित्रे “गणाय मरुत्समूहाय “प्र “अर्चत स्तोत्रं प्रोच्चारयत । “यः मरुद्गणः “दैव्यस्य देवसंबन्धिनः “धाम्नः स्वर्गाख्यस्य स्थानस्य “तुविष्मान् वृद्धिमान् भवति । सर्वेभ्यो देवेभ्यः प्रवृद्ध इत्यर्थः । तस्मै गणायेति पूर्वेण संबन्धः । “उत अपि च मरुतः “महित्वा स्वकीयेन महत्त्वेन सहिताः “रोदसी द्यावापृथिव्यौ “क्षोदन्ति भञ्जन्ति । तथा “निर्ऋतेः भूमेः “अवंशात् अन्तरिक्षाच्च “नाकं स्वर्गं “नक्षन्ते व्याप्नुवन्ति ॥
ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः ।
प्र ये महो॑भि॒रोज॑सो॒त सन्ति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥२
ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये॑ण । भीमा॑सः । तुवि॑ऽमन्यवः । अया॑सः ।
प्र । ये । महः॑ऽभिः । ओज॑सा । उ॒त । सन्ति॑ । विश्वः॑ । वः॒ । याम॑न् । भ॒य॒ते॒ । स्वः॒ऽदृक् ॥२
जनूः । चित् । वः । मरुतः । त्वेष्येण । भीमासः । तुविऽमन्यवः । अयासः ।
प्र । ये । महःऽभिः । ओजसा । उत । सन्ति । विश्वः । वः । यामन् । भयते । स्वःऽदृक् ॥२
हे “भीमासः भीमाः "तुविमन्यवः प्रवृद्धमतयः "अयासः गन्तार इति त्रीणि संबोधनानि । एवंभूता हे “मरुतः “वः युष्माकं “जनूः जन्म “त्वेष्येण दीप्तेन रुद्रेण बभूवेति शेषः । “उत अपि च "ये मरुतः “महोभिः तेजोभिः “ओजसा बलेन च “प्र “सन्ति प्रभवन्ति तेषां “वः युष्माकं “यामन् यामनि गमने "विश्वः स्वर्दृक् सूर्यस्य द्रष्टा सर्वो जीवसमूहः। यद्वा । स्वरन्तरिक्षम् । तत् पश्यतीति वृक्षः स्वर्दृक् । सर्वदोत्तिष्ठन्नित्यर्थः । “भयते बिभेति ॥
बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुत॑ः सुष्टु॒तिं न॑ः ।
ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र ण॑ः स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥३
बृ॒हत् । वयः॑ । म॒घव॑त्ऽभ्यः । द॒धा॒त॒ । जुजो॑षन् । इत् । म॒रुतः॑ । सु॒ऽस्तु॒तिम् । नः॒ ।
ग॒तः । न । अध्वा॑ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒ ॥३
बृहत् । वयः । मघवत्ऽभ्यः । दधात । जुजोषन् । इत् । मरुतः । सुऽस्तुतिम् । नः ।
गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेत ॥३
हे "मरुतः यूयं “मघवद्भ्यः हविर्लक्षणान्नवद्भ्योऽस्मभ्यं "बृहत् महत् “वयः अन्नं “दधात प्रयच्छत । “नः अस्मदीयां “सुष्टुतिं शोभनं स्तोत्रं "जुजोषन्नित् सेवन्तामेव । “गतः मरुद्भिः प्राप्तः “अध्वा मार्गः "जन्तुं प्राणिनं “न “वि “तिराति नाहन्ति । उदकेनाप्याययत्येव । यद्वा । वितिरतिर्वर्धनार्थः। नेति चार्थे । मरुद्भिर्गतो मार्गश्च जन्तुं वर्धयति । तथा “नः अस्मान् “स्पार्हाभिः स्पृहणीयाभिः “ऊतिभिः रक्षाभिः “प्र “तिरेत प्रवर्धयते ॥
यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री ।
यु॒ष्मोत॑ः स॒म्राळु॒त ह॑न्ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णम् ॥४
यु॒ष्माऽऊ॑तः । विप्रः॑ । म॒रु॒तः॒ । श॒त॒स्वी । यु॒ष्माऽऊ॑तः । अर्वा॑ । सहु॑रिः । स॒ह॒स्री ।
यु॒ष्माऽऊ॑तः । स॒म्ऽराट् । उ॒त । ह॒न्ति॒ । वृ॒त्रम् । प्र । तत् । वः॒ । अ॒स्तु॒ । धू॒त॒यः॒ । दे॒ष्णम् ॥४
युष्माऽऊतः । विप्रः । मरुतः । शतस्वी । युष्माऽऊतः । अर्वा । सहुरिः । सहस्री ।
युष्माऽऊतः । सम्ऽराट् । उत । हन्ति । वृत्रम् । प्र । तत् । वः । अस्तु । धूतयः । देष्णम् ॥४
हे "मरुतः “युष्मोतः युष्माभी रक्षितः “विप्रः स्तोता “शतस्वी शतसंख्योपेतधनवान् भवति । "युष्मोतः युष्माभी रक्षितः “अर्वा अभिगन्ता “सहुरिः शत्रूणामभिभविता स्तोता “सहस्री सहस्रधनवान् भवति । “युष्मोतः युष्माभी रक्षितः “सम्राट् साम्राज्ययुक्तो भवति । “उत अपि च “वृत्रं शत्रुं “हन्ति । युष्मद्रक्षको हिनस्ति । हे “धूतयः कम्पयितारो मरुतः “वः युष्माभिर्दत्तं तत् प्रसिद्धं “देष्णं धनं “प्र “अस्तु प्रभूतं भवतु ॥
ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंस॑न्ते म॒रुत॒ः पुन॑र्नः ।
यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा॑म् ॥५
तान् । आ । रु॒द्रस्य॑ । मी॒ळ्हुषः॑ । वि॒वा॒से॒ । कु॒वित् । नंस॑न्ते । म॒रुतः॑ । पुनः॑ । नः॒ ।
यत् । स॒स्वर्ता॑ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव॑ । तत् । एनः॑ । ई॒म॒हे॒ । तु॒राणा॑म् ॥५
तान् । आ । रुद्रस्य । मीळ्हुषः । विवासे । कुवित् । नंसन्ते । मरुतः । पुनः । नः ।
यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् । एनः । ईमहे । तुराणाम् ॥५
"मीळ्हुषः कामानां वर्षितुः “रुद्रस्य ईश्वरस्य पुत्रान् “तान् मरुतः “आ “विवासे अहं होता परिचरामि । ते “मरुतः “नः अस्मभ्यं “कुवित् बहुकृत्वः “पुनः भूयः “नंसन्ते नमन्ताम् । अभिमुखीभवन्तु । कुविच्छब्देनैव पुनःशब्दार्थस्य लब्धत्वात् पुनःशब्दग्रहणं किमर्थम् । आदरार्थम् । “सस्वर्ता अन्तर्हितेनाप्रकाशेन “यत् येन एनसा “जिहीळिरे मरुतः क्रुध्येयुः “आविः प्रकाशेन “यत् येनैनसा च जिहीळिरे “तुराणां क्षिप्राणां मरुतां संबन्धि “तत् उभयम् “एनः अपराधम् “अव “ईमहे स्तोत्रेण वयमपनयामः ॥
प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषन्त ।
आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६
प्र । सा । वा॒चि॒ । सु॒ऽस्तु॒तिः । म॒घोना॑म् । इ॒दम् । सु॒ऽउ॒क्तम् । म॒रुतः॑ । जु॒ष॒न्त॒ ।
आ॒रात् । चि॒त् । द्वेषः॑ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६
प्र । सा । वाचि । सुऽस्तुतिः । मघोनाम् । इदम् । सुऽउक्तम् । मरुतः । जुषन्त ।
आरात् । चित् । द्वेषः । वृषणः । युयोत । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६
“मघोनां धनवतां मरुतां संबन्धिनी “सुष्टुतिः या शोभना स्तुतिरस्मिन् सूक्ते कृता “सा स्तुतिरस्माभिः “प्र “वाचि प्रोक्तासीत्। "मरुतः “इदम् ईदृग्भूतं “सूक्तं “जुषन्त सेवन्ताम् । हे “वृषणः कामानां वर्षितारः यूयं “द्वेषः द्वेषांसि शत्रून् “आराच्चित् दूरादेव “युयोत अस्मत्तः पृथक्कुस्त । "यूयं “नः अस्मान् “स्वस्तिभिः सर्वदा रक्षत ॥ ॥ २८॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|