ऋग्वेदः सूक्तं ७.५९

(ऋग्वेद: सूक्तं ७.५९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.५८ ऋग्वेदः - मण्डल ७
सूक्तं ७.५९
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६० →
दे. १-११ मरुतः, १२ रुद्रः (मृत्युविमोचनी ऋक्)। प्रगाथः - विषमा बृहती, समा सतोबृहती, ७-८ त्रिष्टुप्, ९-११ गायत्री, १२ अनुष्टुप्।
त्र्यम्बकमन्दिरः


यं त्रायध्व इदमिदं देवासो यं च नयथ ।
तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत ॥१॥
युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः ।
प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ॥२॥
नहि वश्चरमं चन वसिष्ठः परिमंसते ।
अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥३॥
नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः ।
अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ॥४॥
ओ षु घृष्विराधसो यातनान्धांसि पीतये ।
इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन ॥५॥
आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु ।
अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥६॥
सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् ।
विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥७॥
यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥८॥
सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
युष्माकोती रिशादसः ॥९॥
गृहमेधास आ गत मरुतो माप भूतन ।
युष्माकोती सुदानवः ॥१०॥
इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
यज्ञं मरुत आ वृणे ॥११॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥१२॥


सायणभाष्यम्

‘यं त्रायध्वे' इति द्वादशर्चं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका - ‘यं त्रायध्वे द्वादश त्रिप्रगाथादि नवम्याद्यास्तिस्रो गायत्र्योऽन्त्यानुष्टुब्रौद्री मृत्युविमोचनी ' इति । आद्यातृतीयापञ्चम्यो बृहत्यो द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यावनुक्तत्वात् त्रिष्टुभौ नवमीदशम्येकादश्यो गायत्र्यः । द्वादश्यनुष्टुप् सा च रुद्रदेवताका । शिष्टा मारुत्यः । सूक्तविनियोगो लैङ्गिकः ॥


यं त्राय॑ध्व इ॒दमि॑दं॒ देवा॑सो॒ यं च॒ नय॑थ ।

तस्मा॑ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑त॒ः शर्म॑ यच्छत ॥१

यम् । त्राय॑ध्वे । इ॒दम्ऽइ॑दम् । देवा॑सः । यम् । च॒ । नय॑थ ।

तस्मै॑ । अ॒ग्ने॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । मरु॑तः । शर्म॑ । य॒च्छ॒त॒ ॥१

यम् । त्रायध्वे । इदम्ऽइदम् । देवासः । यम् । च । नयथ ।

तस्मै । अग्ने । वरुण । मित्र । अर्यमन् । मरुतः । शर्म । यच्छत ॥१

हे “देवासः देवाः “इदमिदम् इतो भयहेतोः “यं स्तोतारं “त्रायध्वे पालयध्वे । “यं “च स्तोतारं "नयथ सन्मार्गं प्रापयथ। हे “अग्ने “वरुण “मित्र “अर्यमन् हे “मरुतः एवंभूता हे देवाः “तस्मै स्तोत्रे “शर्म सुखं “यच्छत दत्त ॥


यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒य ई॑जा॒नस्त॑रति॒ द्विष॑ः ।

प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ॥२

यु॒ष्माक॑म् । दे॒वाः॒ । अव॑सा । अह॑नि । प्रि॒ये । ई॒जा॒नः । त॒र॒ति॒ । द्विषः॑ ।

प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति ॥२

युष्माकम् । देवाः । अवसा । अहनि । प्रिये । ईजानः । तरति । द्विषः ।

प्र । सः । क्षयम् । तिरते । वि । महीः । इषः । यः । वः । वराय । दाशति ॥२

हे "देवाः “युष्माकं युष्मदीयेन “अवसा रक्षणेन “प्रिये "अहनि सर्वेषां देवानां प्रियभूते सुत्याभिधाने दिवसे “ईजानः इष्टवान् जनः “द्विषः शत्रून् “तरति आक्रामति । “सः यजमानः “क्षयं स्वकीयं निवासं “प्र “तिरते प्रवर्धयति । “यः यजमानः “वः युष्मभ्यं “महीः महान्ति “इषः हविर्लक्षणान्यन्नानि "वराय निवारणाय यूयं नान्यत्र गच्छत अस्मदीयान्येव हवींषि स्वीकुरुतेति निरोधनं कर्तुं “वि “दाशति विशेषेण ददाति । अत एव स स्वकीयं निवासं वर्धयतीत्यर्थः ॥


न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते ।

अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे॑ पिबत का॒मिन॑ः ॥३

न॒हि । वः॒ । च॒र॒मम् । च॒न । वसि॑ष्ठः । प॒रि॒ऽमंस॑ते ।

अ॒स्माक॑म् । अ॒द्य । म॒रु॒तः॒ । सु॒ते । सचा॑ । विश्वे॑ । पि॒ब॒त॒ । का॒मिनः॑ ॥३

नहि । वः । चरमम् । चन । वसिष्ठः । परिऽमंसते ।

अस्माकम् । अद्य । मरुतः । सुते । सचा । विश्वे । पिबत । कामिनः ॥३

“वसिष्ठः ऋषिः “वः युप्माकं मध्ये “चरमं “चन अवरमपि “नहि “परिमंसते वर्जयित्वा न स्तौति । किंतु सर्वानेव युष्मान् स्तौतीत्यर्थः । “अद्य अस्मिन् दिने “अस्माकम् अस्मदीये “सुते सोमेऽभिषुते सति हे “मरुतः “कामिनः सोमं कामयमानाः “विश्वे यूयं “सचा संगत्य “पिबत पानं कुरुत ॥


न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा॑ध्वं नरः ।

अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी॑यसी॒ तूयं॑ यात पिपीषवः ॥४

न॒हि । वः॒ । ऊ॒तिः । पृत॑नासु । मर्ध॑ति । यस्मै॑ । अरा॑ध्वम् । न॒रः॒ ।

अ॒भि । वः॒ । आ । अ॒व॒र्त् । सु॒ऽम॒तिः । नवी॑यसी । तूय॑म् । या॒त॒ । पि॒पी॒ष॒वः॒ ॥४

नहि । वः । ऊतिः । पृतनासु । मर्धति । यस्मै । अराध्वम् । नरः ।

अभि । वः । आ । अवर्त् । सुऽमतिः । नवीयसी । तूयम् । यात । पिपीषवः ॥४

हे मरुतः “वः युष्मदीया “ऊतिः रक्षा “पृतनासु युद्धेषु “नहि “मर्धति न खलु हिनस्ति । शत्रुभिः कृतां हिंसां न सहत इत्यर्थः । हे “नरः नेतारः यूयं “यस्मै जनाय “अराध्वं कामानदध्वं तं जनं न हिनस्तीति संबन्धः । “नवीयसी नवतरा “वः युष्मदीया “सुमतिः अनुग्रहबुद्धिः “अभि “आवर्त् अस्मानभ्यावर्तताम् । तथा हे “पिपीषवः सोमपानकामाः यूयमपि "तूयं क्षिप्रं “यात आगच्छत ॥


ओ षु घृ॑ष्विराधसो या॒तनान्धां॑सि पी॒तये॑ ।

इ॒मा वो॑ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॒॑न्यत्र॑ गन्तन ॥५

ओ इति॑ । सु । घृ॒ष्वि॒ऽरा॒ध॒सः॒ । या॒तन॑ । अन्धां॑सि । पी॒तये॑ ।

इ॒मा । वः॒ । ह॒व्या । म॒रु॒तः॒ । र॒रे । हि । क॒म् । मो इति॑ । सु । अ॒न्यत्र॑ । ग॒न्त॒न॒ ॥५

ओ इति । सु । घृष्विऽराधसः । यातन । अन्धांसि । पीतये ।

इमा । वः । हव्या । मरुतः । ररे । हि । कम् । मो इति । सु । अन्यत्र । गन्तन ॥५

हे “घृष्विराधसः परस्परघृष्टानि सुसंहतानि राधांसि येषां ते हे मरुतः यूयम् “अन्धांसि सोमलक्षणानि हवींषि “पीतये भक्षणार्थं “सु सुष्ठु "ओ “यातन आयात । “हि यस्मात् कारणात् हे “मरुतः “वः युष्मभ्यम् “इमा इमानि “हव्या हव्यानि हवींषि “ररे अहं ददामि अतः कारणात् यूयम् “अन्यत्र “मो “षु “गन्तन मा गच्छत ॥'


आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ ।

अस्रे॑धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा॑दयाध्वै ॥६

आ । च॒ । नः॒ । ब॒र्हिः । सद॑त । अ॒वि॒त । च॒ । नः॒ । स्पा॒र्हाणि॑ । दात॑वे । वसु॑ ।

अस्रे॑धन्तः । म॒रु॒तः॒ । सो॒म्ये । मधौ॑ । स्वाहा॑ । इ॒ह । मा॒द॒या॒ध्वे॒ ॥६

आ । च । नः । बर्हिः । सदत । अवित । च । नः । स्पार्हाणि । दातवे । वसु ।

अस्रेधन्तः । मरुतः । सोम्ये । मधौ । स्वाहा । इह । मादयाध्वे ॥६

हे मरुतः यूयं “नः अस्मदीये "बर्हिः कुशमये बर्हिषि “आ “सदत “च उपविशत । "स्पार्हाणि स्पृहणीयानि “वसु वसूनि धनानि “दातवे अस्मभ्यं दातुं “नः अस्मान् “अवित “च आगच्छत च । हे “मरुतः “अस्रेधन्तः अहिंसन्तो यूयम् “इह अस्मिन् यज्ञे “मधौ मदकरे “सोम्ये सोमात्मके हविषि “स्वाहा स्वाहाकारेण “मादयाध्वै मादयध्वं माद्यत ॥ ॥ २९ ॥


स॒स्वश्चि॒द्धि त॒न्व१॒॑ः शुम्भ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् ।

विश्वं॒ शर्धो॑ अ॒भितो॑ मा॒ नि षे॑द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद॑न्तः ॥७

स॒स्वरिति॑ । चि॒त् । हि । त॒न्वः॑ । शुम्भ॑मानाः । आ । हं॒सासः॑ । नील॑ऽपृष्ठाः । अ॒प॒प्त॒न् ।

विश्व॑म् । शर्धः॑ । अ॒भितः॑ । मा॒ । नि । से॒द॒ । नरः॑ । न । र॒ण्वाः । सव॑ने । मद॑न्तः ॥७

सस्वरिति । चित् । हि । तन्वः । शुम्भमानाः । आ । हंसासः । नीलऽपृष्ठाः । अपप्तन् ।

विश्वम् । शर्धः । अभितः । मा । नि । सेद । नरः । न । रण्वाः । सवने । मदन्तः ॥७

“सस्वः अन्तर्हिता मरुतः “तन्वः स्वकीयान्यङ्गानि “शुम्भमानाः अलंकरणैः शोभयन्तो मरुतः “नीलपृष्ठाः असितवर्णाः "हंसासः हंसा इव “अपप्तन् आपतन्तु आगच्छन्तु । “विश्वं “शर्धः व्याप्तो मरुद्गणः “मा माम् “अभितः समन्तात् "नि “षेद निषीदतु । तत्र दृष्टान्तः। “सवने अस्मदीये यज्ञे “मदन्तः हृष्यन्तः “रण्वाः रमणीयाः “नरो “न मनुष्या इव तद्वत् ॥


साकमेधेषु ‘मरुद्भ्यः सांतपनेभ्यः ' इत्यस्य ‘यो नो मरुतः' इति पूर्वानुवाक्या ‘सांतपना इदम्' इति याज्या। तथा च सूत्रितं - सांतपना इदं हविर्यो नो मरुतो अभि दुर्हृणायुः । (आश्व. श्रौ. २. १८) इति ॥

यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति ।

द्रु॒हः पाशा॒न्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ॥८

यः । नः॒ । म॒रु॒तः॒ । अ॒भि । दुः॒ऽहृ॒णा॒युः । ति॒रः । चि॒त्तानि॑ । व॒स॒वः॒ । जिघां॑सति ।

द्रु॒हः । पाशा॑न् । प्रति॑ । सः । मु॒ची॒ष्ट॒ । तपि॑ष्ठेन । हन्म॑ना । ह॒न्त॒न॒ । तम् ॥८

यः । नः । मरुतः । अभि । दुःऽहृणायुः । तिरः । चित्तानि । वसवः । जिघांसति ।

द्रुहः । पाशान् । प्रति । सः । मुचीष्ट । तपिष्ठेन । हन्मना । हन्तन । तम् ॥८

हे “वसवः प्रशस्या हे "मरुतः “नः अस्मदीयानि “चित्तानि “दुर्हृणायुः अशोभनं क्रुध्यन् “तिरः सर्वैस्तिरस्कृतः “यः जनः “अभि “जिघांसति आभिमुख्येन हन्तुमिच्छति “सः जनः “द्रुहः पापानां द्रोग्धुर्वरुणस्य "पाशान् अस्मासु “प्रति “स "मुचीष्ट बध्नीयात् । यूयं “तं जनं “तपिष्ठेन तप्तृतमेन "हन्मना हननसाधनेनायुधेन “हन्तन हत हिंस्त ॥


सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन ।

यु॒ष्माको॒ती रि॑शादसः ॥९

साम्ऽत॑पनाः । इ॒दम् । ह॒विः । मरु॑तः । तत् । जु॒जु॒ष्ट॒न॒ ।

यु॒ष्माक॑ । ऊ॒ती । रि॒शा॒द॒सः॒ ॥९

साम्ऽतपनाः । इदम् । हविः । मरुतः । तत् । जुजुष्टन ।

युष्माक । ऊती । रिशादसः ॥९

“सांतपनाः शत्रूणां संतापका हे “मरुतः “इदं प्रत्यक्षेणोपलभ्यमानं “हविः युष्मभ्यं कल्पितमिति शेषः । हे “रिशादसः रिशतां हिंसतामसितारो रिशानामत्तारो वा यूयं “युष्माक युष्माकम् “ऊती ऊत्या रक्षया “तत् तादृशं हविः "जुजुष्टन सेवध्वम् ॥

‘गृहमेधासः' इति गृहमेधीयस्य हविषोऽनुवाक्या । सूत्रितं च -- ‘गृहमेधास आगत प्र बुध्न्या व ईरते महांसि' (आश्व. श्रौ. २. १८) इति ॥

गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन ।

यु॒ष्माको॒ती सु॑दानवः ॥१०

गृह॑ऽमेधासः । आ । ग॒त॒ । मरु॑तः । मा । अप॑ । भू॒त॒न॒ ।

यु॒ष्माक॑ । ऊ॒ती । सु॒ऽदा॒न॒वः॒ ॥१०

गृहऽमेधासः । आ । गत । मरुतः । मा । अप । भूतन ।

युष्माक । ऊती । सुऽदानवः ॥१०

“गृहमेधासः गृहे क्रियमाणो यज्ञो येषां ते “सुदानवः शोभनदाना हे “मरुतः यूयं “युष्माक युष्माकम् “ऊती ऊत्या रक्षया युक्ताः "आ “गत अस्मदीयं यज्ञं प्रत्यागच्छत । हे मरुतः “माप “भूतन अपगता मा भवत । ‘भू प्राप्तौ ' इति धातुः ।।


वैश्वदेवे पर्वणि मारुतस्यानुवाक्या ‘ इहेह वः' इत्येषा। सूत्रितं च – इहेह वः स्वतवसः प्र चित्रमर्कं गृणते तुराय ' (आश्व. श्रौ. २. १६) इति ॥

इ॒हेह॑ वः स्वतवस॒ः कव॑य॒ः सूर्य॑त्वचः ।

य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥११

इ॒हऽइ॑ह । वः॒ । स्व॒ऽत॒व॒सः॒ । कव॑यः । सूर्य॑ऽत्वचः ।

य॒ज्ञम् । म॒रु॒तः॒ । आ । वृ॒णे॒ ॥११

इहऽइह । वः । स्वऽतवसः । कवयः । सूर्यऽत्वचः ।

यज्ञम् । मरुतः । आ । वृणे ॥११

हे “स्वतवसः स्वायत्तबलाः स्वयं प्रवृद्धा वा हे “कवयः क्रान्तदर्शिनः “सूर्यत्वचः सूर्यवर्णा एवंभूता हे "मरुतः यूयम् “इहेह इहैवास्मदीयं “यज्ञम् “आ "वृणे आभजामि कल्पयामि ॥


त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥१२

त्रिऽअ॑म्बकम् । य॒जा॒म॒हे॒ । सु॒ऽगन्धि॑म् । पु॒ष्टि॒ऽवर्ध॑नम् ।

उ॒र्वा॒रु॒कम्ऽइव । बन्ध॑नात् । मृ॒त्योः । मु॒क्षी॒य॒ । मा । अ॒मृता॑त् ॥१२

त्रिऽअम्बकम् । यजामहे । सुऽगन्धिम् । पुष्टिऽवर्धनम् ।

उर्वारुकम्ऽइव । बन्धनात् । मृत्योः । मुक्षीय । मा । अमृतात् ॥१२

अत्र शौनकः – त्रिरात्रं नियतोपोष्य श्रपयेत्पायसं चरुम् । तेनाहुतिशतं पूर्णं जुहुयाच्छंसितव्रतः ॥ समुद्दिश्य महादेवं त्र्यम्बकं त्र्यम्बकेत्यृचा । एतत्पर्वशतं कृत्वा जीवेद्वर्षशतं सुखी' (ऋग्वि. २. ३१४-१५)॥ [ त्रयाणां ब्रह्मविष्णुरुद्राणामम्बकं पितरं “यजामहे इति शिष्यसमाहितो वसिष्ठो ब्रवीति । किंविशिष्टमित्यत आह। "सुगन्धिं प्रसारितपुण्यकीर्तिम् । पुनः किंविशिष्टम्। "पुष्टिवर्धनं जगद्बीजम् । उरुशक्तिमित्यर्थः। उपासकस्य वर्धनम् । अणिमादिशक्तिवर्धनम् । अतस्त्वत्प्रसादादेव “मृत्योः मरणात् संसाराद्वा “मुक्षीय मोचय । यथा बन्धनादुर्वारुकं कर्कटीफलं मुच्यते तद्वन्मरणात् संसाराद्वा मोचय । किं मर्यादीकृत्य । “आमृतात् । सायुज्यतामोक्षपर्यन्तमित्यर्थः । अथ तैत्तिरीयभाष्ये( तै. सं. १ .८. ६. २) – “शोभनः शरीरगन्धः पुण्पगन्धो वा यस्यासौ सुगन्धिः। यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति' (तै. आ. १०. ९) इति श्रुतेः । पुष्टिं शरीरधनादिविषयां वर्धयतीति पुष्टिवर्धनः । तादृशं त्र्यम्बकं यजामहे पूजयामः । लोके यथोर्वारुकफलानि बन्धनाद्वृन्तात् स्वयमेव मुच्यन्ते तद्वदहं त्र्यम्बकप्रसादेन मृत्योर्मुक्षीय मोचनयुक्तो भूयासम् । अमृताच्चिरजीवितात् स्वर्गादेवर्वा मा मुक्षीय । चतुर्थपादार्थे मन्त्रस्य तात्पर्यातिशयं दर्शयति - त्र्यम्बकं यजामह इत्याह मृत्योर्मुक्षीय मामृतादिति वावैतदाह ' (तै.ब्रा. १.६.१०.५) इति ॥] ॥३०॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके चतुर्थोऽध्यायः समाप्तः ॥



टिप्पणी

मरुतामुपरि पौराणिकसंदर्भाः


मरुतामुपरि वैदिकसंदर्भाः


७.५९.७ सास्वी गणः--धर्ता दुर्गध्व निर्भीमो ह्यभियुक्तिः कृपा सहः ।। षष्ठे तु पवनस्कन्धे सास्वी नाम गणः स्मृतः ।।२९ ।। - विष्णुधर्मोत्तरपुराणम् १.१२७.२९


७.५९.९ द्र. माश. २.५.३.३

सांतपन गणः -- ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ।। अतिमित्रो नामित्रश्च पृरुमित्रोऽपराजितः ।। २५ ।।तृतीये पवनस्कन्धे गणः सन्तापनः स्मृतः ।। - विष्णुधर्मोत्तरपुराणम् १.१२७.२५

७.५९.५ इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन

अररु उपरि टिप्पणी


७.५९.१० गृहमेधा गणः -- ऋतेश्च ऋतवान्धाता विधाता धरणो ध्रुवः ।। २६ ।। विधारणः चतुर्थस्तु गृहमेधो गणः स्मृतः ।। - विष्णुधर्मोत्तरपुराणम् १.१२७.२६


७.५९.१२ द्र. मा.श. २.६.२ त्र्यम्बकेष्टिः।

त्र्यम्बकोपरि पौराणिकसंदर्भाः

त्र्यम्बकोपरि वैदिकसंदर्भाः एवं संक्षिप्त टिप्पणी

अम्बोपरि टिप्पणी

यज्ञायज्ञीयम् साम

उर्वारुकमिव इति --

मैत्रावरुणसामविधानं --- आ त्वेता निषीदतेति साम १६४, (साम ७४०) दैवातिथम्। देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै- तां.ब्रा. ९.२.१९ । जैमिनीयं ब्राह्मणं १.२२६ अपि द्रष्टव्यम् अस्ति।


VS.3.60 (bis); TS. 1.8.6.2; MS.1.10.4: 144.12; 1.10.20; 160.11; KS. 9.7; 36.14;

राजसूय त्र्यम्बकहविः - TB.1.6.10.5; TAA.10. 56; Vait.9.19; LC.5.3.7; ApÇ.8.18.2,3,4; BrhPDh. 9.114; KälägU.1; N.14.35. P: tryambakam KC.5. 10.15; MC.9.2.4; VHDh.8.70; BrhPDh.9.58; Rvidh. 2.27.4. See aryamaņam yajamahe.



मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५९&oldid=403390" इत्यस्माद् प्रतिप्राप्तम्