ऋग्वेदः सूक्तं ७.७९
← सूक्तं ७.७८ | ऋग्वेदः - मण्डल ७ सूक्तं ७.७९ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.८० → |
दे. उषसः। त्रिष्टुप्। |
व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती ।
सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥१॥
व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते ।
सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥२॥
अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय श्रवांसि ।
वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि ॥३॥
तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना ।
यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥४॥
देवंदेवं राधसे चोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती ।
व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘व्युषा आवः' इति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षमुषस्यं त्रैष्टुभम् । “व्युषाः' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय॑न्ती ।
सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ॥१
वि । उ॒षाः । आ॒वः॒ । प॒थ्या॑ । जना॑नाम् । पञ्च॑ । क्षि॒तीः । मानु॑षीः । बो॒धय॑न्ती ।
सु॒स॒न्दृक्ऽभिः॑ । उ॒क्षऽभिः॑ । भा॒नुम् । अ॒श्रे॒त् । वि । सूर्यः॑ । रोद॑सी॒ इति॑ । चक्ष॑सा । आ॒व॒रित्या॑वः ॥१
वि । उषाः । आवः । पथ्या । जनानाम् । पञ्च । क्षितीः । मानुषीः । बोधयन्ती ।
सुसन्दृक्ऽभिः । उक्षऽभिः । भानुम् । अश्रेत् । वि । सूर्यः । रोदसी इति । चक्षसा । आवरित्यावः ॥१
“जनानां सर्वप्राणिनां “पथ्या पथि हिता “उषाः “वि “आवः व्यौच्छत् । यद्वा। जनानां हिताय व्यौच्छदिति योज्यम्। किं कुर्वती । “मानुषीः मनुष्यरूपाः “पञ्च “क्षितीः निषादपञ्चमांश्चतुरो वर्णान् “बोधयन्ती । ईदृश्युषाः सुसंदृग्भिः। संदृश्यते संदर्शयतीति वा संदृक् तेजः ।
व्य॑ञ्जते दि॒वो अन्ते॑ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो॑ यतन्ते ।
सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति॑र्यच्छन्ति सवि॒तेव॑ बा॒हू ॥२
वि । अ॒ञ्ज॒ते॒ । दि॒वः । अन्ते॑षु । अ॒क्तून् । विशः॑ । न । यु॒क्ताः । उ॒षसः॑ । य॒त॒न्ते॒ ।
सम् । ते॒ । गावः॑ । तमः॑ । आ । व॒र्त॒य॒न्ति॒ । ज्योतिः॑ । य॒च्छ॒न्ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ ॥२
वि । अञ्जते । दिवः । अन्तेषु । अक्तून् । विशः । न । युक्ताः । उषसः । यतन्ते ।
सम् । ते । गावः । तमः । आ । वर्तयन्ति । ज्योतिः । यच्छन्ति । सविताऽइव । बाहू इति ॥२
सुतेजोभिः “उक्षभिः गोभिः “भानुमश्रेत् । ‘अरुणैरुषा आजिमधावत् ' ( ऐ. ब्रा. ४. ९) इति हि श्रुतिः। 'अरुण्यो गाव उषसाम्' (नि. १. १५, ७) इति निरुक्तम् । “सूर्यः च “रोदसी द्यावापृथिव्यौ तमोयुक्ते “चक्षसा प्रकाशकेन तेजसा “वि “आवः विवृणोति ॥ “उषसः "अक्तून् तेजांसि "दिवः अन्तरिक्षस्य “अन्तेषु पर्यन्तप्रदेशेषु “व्यञ्जते व्यक्तीकुर्वन्तीत्यर्थः। "युक्ताः परस्परं संयुक्ताः “विशो “न प्रजा इव सेना इव “यतन्ते प्रयतन्ते तमोनाशनाय अत्र गमनाय वा । अथ प्रत्यक्षवादः । हे उषः “ते तव “गावः रश्मयः “तमः अन्धकारं “सम् “आ “वर्तयन्ति नाशयन्ति “ज्योतिः तेजो “यच्छन्ति प्रयच्छन्ति । “सविता सूर्यः “बाहू “इव ॥
अभू॑दु॒षा इन्द्र॑तमा म॒घोन्यजी॑जनत्सुवि॒ताय॒ श्रवां॑सि ।
वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यङ्गि॑रस्तमा सु॒कृते॒ वसू॑नि ॥३
अभू॑त् । उ॒षाः । इन्द्र॑ऽतमा । म॒घोनी॑ । अजी॑जनत् । सु॒वि॒ताय॑ । श्रवां॑सि ।
वि । दि॒वः । दे॒वी । दु॒हि॒ता । द॒धा॒ति॒ । अङ्गि॑रःऽतमा । सु॒ऽकृते॑ । वसू॑नि ॥३
अभूत् । उषाः । इन्द्रऽतमा । मघोनी । अजीजनत् । सुविताय । श्रवांसि ।
वि । दिवः । देवी । दुहिता । दधाति । अङ्गिरःऽतमा । सुऽकृते । वसूनि ॥३
“इन्द्रतमा सर्वस्येश्वरतमा “मघोनी धनवती “उषाः “अभूत् प्रादुरभूत् । “सुविताय कल्याणाय “श्रवांसि अन्नानि "अजीजनत् उदपादयत् । प्रकाशितवतीत्यर्थः । “दिवः "दुहिता “अङ्गिरस्तमा गन्तृतमा। यद्वा । अङ्गिरोगोत्रैर्भारद्वाजैः सह रात्रेरप्युत्पत्ते रात्र्यवसानस्योषारूपत्वादङ्गिरस्तमेत्युच्यते । भारद्वाजै रात्रेः सहोत्पत्तिरनुक्रमण्यामुक्ता - रात्री कुशिकः सौभरो रात्रिर्वा भारद्वाजी ' (अनु. १०. १२७) इति । तादृश्युषाः “सुकृते यजमानाय “वसूनि धनानि “वि “दधाति करोति ।।
ताव॑दुषो॒ राधो॑ अ॒स्मभ्यं॑ रास्व॒ याव॑त्स्तो॒तृभ्यो॒ अर॑दो गृणा॒ना ।
यां त्वा॑ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे॑ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे॑रौर्णोः ॥४
ताव॑त् । उ॒षः॒ । राधः॑ । अ॒स्मभ्य॑म् । रा॒स्व॒ । याव॑त् । स्तो॒तृऽभ्यः॑ । अर॑दः । गृ॒णा॒ना ।
याम् । त्वा॒ । ज॒ज्ञुः । वृ॒ष॒भस्य॑ । रवे॑ण । वि । दृ॒ळ्हस्य॑ । दुरः॑ । अद्रेः॑ । औ॒र्णोः॒ ॥४
तावत् । उषः । राधः । अस्मभ्यम् । रास्व । यावत् । स्तोतृऽभ्यः । अरदः । गृणाना ।
याम् । त्वा । जज्ञुः । वृषभस्य । रवेण । वि । दृळ्हस्य । दुरः । अद्रेः । और्णोः ॥४
हे “उषः “यावत् "राधः धनं “स्तोतृभ्यः पूर्वम् “अरदः दत्तवत्यसि “तावत् राधो धनं “गृणाना स्तूयमाना “अस्मभ्यम् अपि “रास्व देहि । “यां त्वा “त्वां “वृषभस्य “रवेण । लुप्तोपमैषा। वृषभस्येति कर्मणि षष्ठी । वृषभं रवेणेव त्वां प्रकाशेन "जज्ञुः जानन्ति प्राणिनः । अथवा वृषभस्य प्रवृद्धस्य स्तोत्रस्य रवेण शब्देन जज्ञुः ज्ञापयन्ति । “दृळहस्य दृढस्य “अद्रेः “दुरः द्वाराणि पणिभिर्गाः प्रवेश्य पिहितानि “वि “और्णौः विवृतान्यकरोः ।।
दे॒वंदे॑वं॒ राध॑से चो॒दय॑न्त्यस्म॒द्र्य॑क्सू॒नृता॑ ई॒रय॑न्ती ।
व्यु॒च्छन्ती॑ नः स॒नये॒ धियो॑ धा यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
दे॒वम्ऽदे॑वम् । राध॑से । चो॒दय॑न्ती । अ॒स्म॒द्र्य॑क् । सू॒नृताः॑ । ई॒रय॑न्ती ।
वि॒ऽउ॒च्छन्ती॑ । नः॒ । स॒नये॑ । धियः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
देवम्ऽदेवम् । राधसे । चोदयन्ती । अस्मद्र्यक् । सूनृताः । ईरयन्ती ।
विऽउच्छन्ती । नः । सनये । धियः । धाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
"देवदेवं सर्वमपि स्तोतारं “राधसे धनाय “चोदयन्ती प्रेरयन्ती “अस्मद्र्यक् अस्मदभिमुखं “सूनृताः वचांसि “ईरयन्ती प्रेरयन्ती “व्युच्छन्ती व्युच्छनं कुर्वती “नः अस्माकं “सनये दानाय धनलाभाय “धियः बुद्धीः “धाः धेहि । शिष्टं स्पष्टम् ॥ ॥२६॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|