योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२८

← सर्गः २७ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)
सर्गः २८
अज्ञातलेखकः
सर्गः २९ →
निर्वाणप्रकरणस्य पूर्वार्धम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०

सर्गः २१

सर्गः २२

सर्गः २३

सर्गः २४

सर्गः २५

सर्गः २६

सर्गः २७

सर्गः २८

सर्गः २९

सर्गः ३०

सर्गः ३१

सर्गः ३२

सर्गः ३३

सर्गः ३४

सर्गः ३५

सर्गः ३६

सर्गः ३७

सर्गः ३८

सर्गः ३९

सर्गः ४०

सर्गः ४१

सर्गः ४२

सर्गः ४३

सर्गः ४४

सर्गः ४५

सर्गः ४६

सर्गः ४७

सर्गः ४८

सर्गः ४९

सर्गः ५०

सर्गः ५१

सर्गः ५२

सर्गः ५३

सर्गः ५४

सर्गः ५५

सर्गः ५६

सर्गः ५७

सर्गः ५८

सर्गः ५९

सर्गः ६०

सर्गः ६१

सर्गः ६२

सर्गः ६३

सर्गः ६४

सर्गः ६५

सर्गः ६६

सर्गः ६७

सर्गः ६८

सर्गः ६९

सर्गः ७०

सर्गः ७१

सर्गः ७२

सर्गः ७३

सर्गः ७४

सर्गः ७५

सर्गः ७६

सर्गः ७७

सर्गः ७८

सर्गः ७९

सर्गः ८०

सर्गः ८१

सर्गः ८२

सर्गः ८३

सर्गः ८४

सर्गः ८५

सर्गः ८६

सर्गः ८७

सर्गः ८८

सर्गः ८९

सर्गः ९०

सर्गः ९१

सर्गः ९२

सर्गः ९३

सर्गः ९४

सर्गः ९५

सर्गः ९६

सर्गः ९७

सर्गः ९८

सर्गः ९९

सर्गः १००

सर्गः १०१

सर्गः १०२

सर्गः १०३

सर्गः १०४

सर्गः १०५

सर्गः १०६

सर्गः १०७

सर्गः १०८

सर्गः १०९

सर्गः ११०

सर्गः १११

सर्गः ११२

सर्गः ११३

सर्गः ११४

सर्गः ११५

सर्गः ११६

सर्गः ११७

सर्गः ११८

सर्गः ११९

सर्गः १२०

सर्गः १२१

सर्गः १२२

सर्गः १२३

सर्गः १२४

सर्गः १२५

सर्गः १२६

सर्गः १२७

सर्गः १२८


अष्टाविंशः सर्गः २८
श्रीवसिष्ठ उवाच ।
एवं भुशुण्डवृत्तान्तः कथितस्ते मयानघ ।
अनया प्रज्ञया तीर्णो भुशुण्डो मोहसंकटात् ।। १
एतां दृष्टिमवष्टभ्य स्वप्राणाभ्यासपूर्विकाम् ।
भुशुण्डवन्महाबाहो भव तीर्णमहार्णवः ।। २
यथा ज्ञानेन योगेन संतताभ्यासजन्मना ।
भुशुण्डः प्राप्तवान्प्राप्यं तथासादय तत्पदम् ।। ३
असक्तबुद्धयः सर्वे भुशुण्डवदवस्थितिम् ।
प्राप्नुवन्ति परे तत्त्वे प्राणापानावलोकिनः ।। ४
एता विचित्रा भवता श्रुता विज्ञानदृष्टयः ।
इदानीं धियमालम्ब्य यथेच्छसि तथा कुरु ।। ५
श्रीराम उवाच ।
भगवन्भवता भूमिभास्वता ज्ञानरश्मिभिः ।
हार्दमुद्दामदौरात्म्यं प्रमृष्टमखिलं तमः ।। ६
प्रबुद्धाः स्मः प्रहृष्टाः स्मः प्रविष्टाः स्मः स्वमास्पदम् ।
स्थिताः स्मो ज्ञातविज्ञेया भवन्तो ह्यपरा इव ।। ७
अहो भुशुण्डचरितं परं विस्मयकारकम् ।
भगवन्भवता प्रोक्तमुत्तमार्थावबोधनम् ।। ८
भुशुण्डचरिते ब्रह्मन्नेतस्मिन्कथिते त्वया ।
यच्छरीरगृहं प्रोक्तं मांसचर्मास्थिनिर्मितम् ।। ९
तत्केन नाम रचितं कुतो वा तत्समुत्थितम् ।
कथं वा स्थितिमायातं को वा तत्रावतिष्ठते ।। १०
श्रीवसिष्ठ उवाच ।
परमार्थावबोधाय दोषापाकरणाय च ।
श्रृणु राघव तत्त्वेन वक्ष्यमाणमिदं मया ।। ११
अस्थिस्थूणं नवद्वारं रक्तमांसावलेपनम् ।
शरीरसदनं राम न केनचिदिदं कृतम् ।। १२
आभासमात्रमेवेदमित्थमेवावभासते ।
द्विचन्द्रविभ्रमाकारं सदसच्च व्यवस्थितम् ।। १३
द्विचन्द्रदर्शनविधौ चन्द्रद्वित्वं सदैव हि ।
वस्तुतश्चैक एवेन्दुः स्थितो देहस्तथैव हि ।। १४
देहप्रत्ययकाले हि देहोऽयं समवस्थितः ।
असन्नेव च सत्तस्मात्प्रोक्तः सदसदात्मकः ।। १५
स्वप्ने स्वप्नावबोधः संस्त्वन्यदा स मुधैव हि ।
बुद्बुदो बुद्बुदविधौ सत्यो मिथ्यैव चान्यदा ।। १६
देहो देहविधौ सत्यो ह्यसत्य इतरद्विधौ ।
प्रतिभासविधौ तावज्जलं सदसदन्यदा ।। १७
प्रतिभासविधौ देहः सन्नसंश्चान्यदा स्मृतः ।
आभासमात्रमेवेदमित्थं संप्रति भासते ।। १८
अयं नामाहमित्यन्तर्गृहीतमननं स्थितम् ।
मांसास्थिमयनिर्माणदेहोऽहमिति विभ्रमम् ।। १९
त्यज संकल्पनिर्माणदेहाः सन्ति सहस्रशः ।
सुखतल्पगतो येन स्वप्नदेहेन दिक्तटान् ।। २०
परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।
जागरायां मनोराज्ये येन स्वर्गपुरान्तरम् ।। २१
परिभ्रमसि मेरुं वा स देहस्ते क्व संस्थितः ।
स्वप्नेष्वपि च यः स्वप्नस्तत्र येन महीतटान् ।। २२
परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।
मनोराज्यं मनोराज्ये महद्विभवभूमिषु ।। २३
परिभ्रमसि येनेह स देहस्ते क्व संस्थितः ।
गतैर्देहैर्मनोराज्ये या विचित्रा जगत्क्रियाः ।। २४
प्रकरोषि महाबाहो ते देहास्ते क्व संस्थिताः ।
विलासिन्यानुरागिण्या येन संकल्पकान्तया ।। २५
निर्वृतिं यासि देहेन स देहस्ते क्व संस्थितः ।
एते राम यथा देहा मनसः सदसन्मयाः ।। २६
तथैव तादृशाचारो देहोऽयं मनसः स्मृतः ।
इदं धनमयं देहो देशोऽयमिति विभ्रमः ।। २७
तत्सर्वं चित्तवीर्यस्य संकल्पस्य विजृम्भितम् ।
दीर्घस्वप्नमिमं विद्धि दीर्घं वा चित्तविभ्रमम् ।। २८
दीर्घं वापि मनोराज्यं संसारं रघुनन्दन ।
प्रबोधमेष्यसि यदा परमात्मेच्छया स्वया ।। २९
द्रक्ष्यसि त्वं तदा सम्यगिदमर्कोदये यथा ।
स्वप्नसंकल्पजालेन यथान्यैव जगत्स्थितिः ।। ३०
तथैवेयं हि संकल्पकलना काचिदेव हि ।
यथा पूर्वं मयोत्पत्तिः प्रोक्ता कमलजन्मनः ।। ३१
मनसः स्वयमेवान्तःसंकल्पकलनोद्भवा ।
विचित्ररचनोपेतं मनस्तत्रात्तविभ्रमम् ।। ३२
संकल्पकलनामात्रं तथेदमवभासनम् ।
यथा कल्पित आभासो मनसोऽब्जजतां गतः ।। ३३
देहाद्विचिन्तितो देहः स्थितोऽन्यस्तद्वदेव हि ।
प्राक्प्रवाहचिराभ्यस्तो वासनातिशयेन यः ।। ३४
तथैव दृश्यते देहस्तथाऽऽकृत्युदयेन सः ।
पौरुषेण प्रयत्नेन संकल्पो ह्ययमेव चित् ।। ३५
अन्यथा भाव्यते राम भूयते तदिहान्यथा ।
अयं सोऽयं ममायं च संसार इति भाविते ।। ३६
सत्यो यो भाव्यते राम भावनादार्ढ्यसंभवः ।
भावितं तीव्रवेगेन यदेवाशु तदेव हि ।। ३७
सर्वत्र दृश्यते राम कान्तेवात्यन्तवल्लभा ।
अहर्व्यावृत्तिरभ्यस्ता यथा स्वप्नेषु दृश्यते ।। ३८
तथायं भावनाभ्यस्तः संसारोऽप्यवलोक्यते ।
यथा स्वप्नावनौ क्षिप्रमहर्यदवभासते ।। ३९
तथेदमल्पकालस्थमपि संलक्ष्यते स्थिरम् ।
व्योमन्येव यथा तापतप्ते संदृश्यते सरित् ।। ४०
धराप्यविद्यमानापि संकल्पाद्दृश्यते तथा ।
दृश्यते दृष्टिवैरूप्याद्यथा व्योमनि पिच्छिका ।। ४१
तथैवेयं जगल्लक्ष्मीर्दुर्ज्ञानादवभासते ।
दृश्यते समया दृष्ट्या न यथा व्योम्नि पिच्छिका ।।४२
सम्यग्दृष्ट्या जगल्लक्ष्मीस्तथेयं नावभासते ।
भीरुरभ्येति न यथा स्वसंकल्पेषु संभ्रमम् ।। ४३
स्वसंकल्पे हि संसारे न तथैति भयं सुधीः ।
स्व एव हि स्वभावोऽयमित्थं संप्रति भासते ।। ४४
संसारसरणिस्थित्यां कस्मात्कोऽत्र विभेति किम् ।
स एव किंचित्संशोध्यः शुद्ध्या विमलतां गते ।। ४५
तस्मिन्न दृश्यते राम मोहोऽयं जगतः स्थितः ।
सम्यगालोकमात्रेण स्वभावः शुद्धिमृच्छति ।। ४६
न गृह्णाति मलं भूयस्ताम्रतामिव काञ्चनम् ।
आभासमात्रमेवेदं न सन्नासज्जगत्त्रयम् ।। ४७
इत्यन्यकलनात्यागः सम्यगालोकनं विदुः ।
मरणं जीवितं स्वर्गो ज्ञानमज्ञानमेव च ।। ४८
चिदाभासादृते नास्तीत्येकता सम्यगीक्षणम् ।
त्वमहंतादिसंसार इति मे न दिशो दश ।। ४९
सर्वं स्वाभासमेवेति सम्यगालोकनं विदुः ।
सदसन्मयसंसारे यथा भूतार्थदर्शनात् ।। ५०
नास्तमेति न चोदेति सम्यगालोकनान्मनः ।
निर्णीय सर्वभावानामसत्त्वं सत्त्वमेव च ।। ५१
निष्कामं शान्तिमभ्येति सम्यगालोकनान्मनः ।
न निन्दति न च स्तौति न हृष्यति न शोचति ।।५२
शीतलां सत्यतामेति सम्यगालोकनान्मनः ।
अवश्यमेव मर्तव्यं सर्वैरेव हि बन्धुभिः ।। ५३
इति बन्धुवियोगेषु किं वृथा परितप्यसे ।
अवश्यमेव च मया मर्तव्यमिति निश्चयः ।। ५४
इत्यात्ममरणप्राप्तौ किं मुधा परितप्यसे ।
अवश्यमेव जातेन किंचित्सुविभवादिकम् ।। ५५
प्राप्तव्यं पुरुषेणेति हर्षस्यावसरो हि कः ।
सर्वस्यैव हि संसारे नरस्य व्यवहारिणः ।। ५६
अर्थायाता भवत्यापच्छोकस्यावसरो हि कः ।
बृंहत्युदेति स्फुरति बुद्बुदौघ इवार्णवे ।। ५७
इदं हि जगतां जालं किमत्र परिदेवना ।
सत्सदेव सदैवैतदसदेवासदेव हि ।। ५८
क्रियावैचित्र्यमात्रे तु किमन्यत्परिदेव्यते ।
नाहमस्मि न चाभूवं भविष्यामि न सोऽधुना ।। ५९
देहोऽयं चित्रदोषोत्थः किमन्यत्परिदेव्यते ।
देहाच्चेदन्य एवाहं चिदाभासस्तदङ्ग हे ।। ६०
कौ तौ मे सदसद्भावौ यन्निष्ठं परितप्यते ।
इति निश्चयवत्स्वान्तं सम्यग्ज्ञानात्मनो मुनेः ।। ६१
नास्तमेति न चोदेति न शान्तं परितप्यते ।
परतामेव नाशान्तामनुत्तमपदे स्थितः ।। ६२
आदत्ते तित्तिरी मृद्वीं तृणकोटिमिवामलाम् ।
एतदर्थमसत्येऽस्मिन्नास्था कार्या मनागपि ।। ६३
सुरज्ज्वेव बलीवर्दो बध्यते जन्तुरास्थया ।
अतस्त्वया दृढमिदमिति निर्णीय बुद्धितः ।। ६४
आस्थारहितया बुद्ध्या विहर्तव्यमिहानघ ।
कर्तव्यमेव कर्तव्यमकर्तव्यमुपेक्ष्यते ।। ६५
आस्थानास्थे परित्यज्य लीलयैव महाधिया ।
आभासमात्रमेवेदं यस्य च प्रतिभासते ।। ६६
सोऽन्तः शीतलतामेति दिनान्ते भुवनं यथा ।
प्रतिभासं परित्यज्य पदार्थपटलव्रजे ।। ६७
आभासमात्रसामान्यमिदमालोकयानघ ।
आभासमात्रकं राम चित्तामर्शकलङ्कितम् ।। ६८
ततस्तदपि संत्यज्य निराभासो भवोत्तम ।
चिदाकाशमयो नित्यं सर्वगः सर्ववर्जितः ।। ६९
आभासस्य परित्यागे भवस्येकान्तनिर्मलः ।
नाहमस्मि न मे भोगाः सत्या इत्यभिभाविते ।। ७०
नेदमाडम्बरं व्यर्थमनर्थायावभासते ।
अहमेव हि वा सर्वं चिदित्येवं विभाविते ।। ७१
नेदमाडम्बरं व्यर्थमनर्थायावभासते ।
दर्शनद्वयमप्येतत्सत्यमत्यन्तसिद्धिदम् ।। ७२
यदेकमेतयोवेत्सि रम्यं तद्राम संश्रय ।
द्वाभ्यामेवाथ वै ताभ्यां दर्शनाभ्यामिहानघ ।। ७३
विहरन्कुरु कल्याण रागद्वेषपरिक्षयम् ।
यत्किंचिदुदितं लोके यन्नभस्यथ वा दिवि ।। ७४
तत्सर्वं प्राप्यते राम रागद्वेषपरिक्षयात् ।
रागादिहतया बुद्ध्या यादृग्राम विचेष्टितम् ।। ७५
तत्तदेव प्रयात्याशु मूढानां विपरीतताम् ।
द्वेषदोषोर्मिरुद्धासु न गुणाश्चित्तवृत्तिषु ।। ७६
पदं कुर्वन्ति दग्धासु स्थलीषु हरिणा इव ।
रागो द्वेषश्च सर्पौ द्वौ न विलीनौ मनोविले ।। ७७
यस्य कल्पतरोस्तस्मात्किं नामाङ्ग न लभ्यते ।
ये हि प्राज्ञाः स्वनियता विदग्धाः शास्त्रशालिनः ।।७८
रागद्वेषमयास्ते वै जम्बुकास्ते धिगस्तु तान् ।
मद्धनं भुक्तमन्येन धनं त्यक्तं मयाऽन्यतः ।। ७९
इति संव्यवहारेहाः के रागद्वेषयोः क्रमाः ।
धनानि बन्धवो मित्रं पुनरायान्ति यान्ति च ।। ८०
किमेतेषु नरः प्राज्ञो रज्यते वा विरज्यते ।
भावाभावभवाभोगा मायेयं पारमेश्वरी ।। ८१
संसाररचना सर्वा संसक्तं पातयत्यलम् ।
न धनं न जनो नात्मा सत्यं राघव वस्तुतः ।। ८२
मिथ्यैव मिथ्यावसितमितीदं परिलक्ष्यते ।
आद्यन्तयोः सर्वमसन्मध्येऽप्यस्थिरमाधिमत् ।। ८३
क्व बघ्नाति रतिं प्राज्ञो ह्यन्यकल्पितखद्रुमे ।
एकेन कल्पिता खे स्त्री भुङ्क्ते तां दूरगोऽपरः ।। ८४
इतीयमङ्ग संसाररचना तेन मा भ्रम ।
भूताजवं जवीभावमिममाततमाकुलम् ।। ८५
गन्धर्वपुरनिर्माणविलासेन समं विदुः ।
स्वप्नसंकल्पपुरवदसदेवेदमुत्थितम् ।। ८६
सर्वत्र संस्थमेवेदं सुषुप्तमिव विच्युतम् ।
परिपश्यसि संसारदीर्घस्वप्नपुरद्रुमम् ।। ८७
अज्ञाननिद्रालुठनस्वभावात्मकमच्युतम् ।
संसारस्वप्नसंभ्रान्तो भवानयमिह स्थितः ।। ८८
तदेनां विततां निद्रां घनाज्ञानमयात्मिकाम् ।
त्यजालक्ष्मीमिवावाप्तनिधानः पुरुषोत्तमः ।। ८९
प्रबोधमेहि पश्य स्वमात्मानमुदितं सदा ।
निर्विकल्पं चिदाभासं प्रातःपद्मं रविं यथा ।। ९०
प्रबुध्यस्व प्रबुध्यस्व पुनःपुनरयं मया ।
प्रबोध्यसे महाबाहो पश्यात्मार्कमनामयम् ।। ९१
मयैतेनाभिवृष्टेन शीतेन ज्ञानवारिणा ।
सुशब्दशालिना राम ह्यनेनैवासि बोधितः ।। ९२
बोधमासादय परं प्रबोधोऽद्यैव राघव ।
सत्यमालोकयालीकं त्यक्त्वेमं जागतं भ्रमम् ।। ९३
न ते जन्म न ते दुःखं न दोषास्ते न ते भ्रमाः ।
सर्वं संकल्पमुत्सृज्य तिष्ठात्मनि सुसंस्थितः ।। ९४
परिगलितविकल्पदोषजाल-
स्त्वमसि सुसारसुषुप्तसौम्यदृष्टिः ।
अतिविततमिदं सुशुद्धये त्वं
समुपशमात्मनि तिष्ठ हे महात्मन् ।। ९५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमार्थयोगोपदेशो नामाष्टाविंशः सर्गः ।। २८ ।।