योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०३०

← सर्गः २९ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)
सर्गः ३०
अज्ञातलेखकः
सर्गः ३१ →
निर्वाणप्रकरणस्य पूर्वार्धम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०

सर्गः २१

सर्गः २२

सर्गः २३

सर्गः २४

सर्गः २५

सर्गः २६

सर्गः २७

सर्गः २८

सर्गः २९

सर्गः ३०

सर्गः ३१

सर्गः ३२

सर्गः ३३

सर्गः ३४

सर्गः ३५

सर्गः ३६

सर्गः ३७

सर्गः ३८

सर्गः ३९

सर्गः ४०

सर्गः ४१

सर्गः ४२

सर्गः ४३

सर्गः ४४

सर्गः ४५

सर्गः ४६

सर्गः ४७

सर्गः ४८

सर्गः ४९

सर्गः ५०

सर्गः ५१

सर्गः ५२

सर्गः ५३

सर्गः ५४

सर्गः ५५

सर्गः ५६

सर्गः ५७

सर्गः ५८

सर्गः ५९

सर्गः ६०

सर्गः ६१

सर्गः ६२

सर्गः ६३

सर्गः ६४

सर्गः ६५

सर्गः ६६

सर्गः ६७

सर्गः ६८

सर्गः ६९

सर्गः ७०

सर्गः ७१

सर्गः ७२

सर्गः ७३

सर्गः ७४

सर्गः ७५

सर्गः ७६

सर्गः ७७

सर्गः ७८

सर्गः ७९

सर्गः ८०

सर्गः ८१

सर्गः ८२

सर्गः ८३

सर्गः ८४

सर्गः ८५

सर्गः ८६

सर्गः ८७

सर्गः ८८

सर्गः ८९

सर्गः ९०

सर्गः ९१

सर्गः ९२

सर्गः ९३

सर्गः ९४

सर्गः ९५

सर्गः ९६

सर्गः ९७

सर्गः ९८

सर्गः ९९

सर्गः १००

सर्गः १०१

सर्गः १०२

सर्गः १०३

सर्गः १०४

सर्गः १०५

सर्गः १०६

सर्गः १०७

सर्गः १०८

सर्गः १०९

सर्गः ११०

सर्गः १११

सर्गः ११२

सर्गः ११३

सर्गः ११४

सर्गः ११५

सर्गः ११६

सर्गः ११७

सर्गः ११८

सर्गः ११९

सर्गः १२०

सर्गः १२१

सर्गः १२२

सर्गः १२३

सर्गः १२४

सर्गः १२५

सर्गः १२६

सर्गः १२७

सर्गः १२८


6.1.30
त्रिंशः सर्गः ३०
ईश्वर उवाच ।
एवं सर्वमिदं विश्वं परमात्मैव केवलम् ।
ब्रह्मैव परमाकाशमेष देवः परः स्मृतः ।। १
तदेतत्पूजनं श्रेयस्तस्मात्सर्वमवाप्यते ।
तदेव सर्गभूः सर्वमिदं तस्मिन्व्यवस्थितम् ।। २
अकृत्रिममनाद्यन्तमद्वितीयमखण्डितम् ।
अवहिःसाधनासाध्यं सुखं तस्मादवाप्यते ।। ३
प्रबुद्धस्त्वं मुनिश्रेष्ठ तेनेदं तव कथ्यते ।
नातिदेवार्चने योग्यः पुष्पधूपचयो महान् ।। ४
अव्युत्पन्नधियो ये हि बालपेलवचेतसः ।
कृत्रिमार्चामयं तेषां देवार्चनमुदाहृतम् ।। ५
शमबोधाद्यभावे हि पुष्पाद्यैर्वार्चयन्ति हि ।
मिथ्यैव कल्पितैरेवमाकारे कल्पितात्मके ।। ६
स्वसंकल्पकृतैः कृत्वा क्रमैरर्चनमादृताः ।
बालाः संतोषमायान्ति पुष्पधूपलवार्चनैः ।। ७
स्वसंकल्पकृतैरर्थैः कृत्वा देवार्चनं मुधा ।
यतः कुतश्चिन्मिथ्यात्म फलमात्रं नयन्ति ते ।। ८
पुष्पधूपार्चनं ब्रह्मन्कल्पितं बालबुद्धिषु ।
यत्स्याद्भवादृशां योग्यमर्चनं तद्वदाम्यहम् ।। ९
अस्मदादिस्त्वसौ कश्चिद्देवो मतिमतां वर ।
देवस्त्रिभुवनाधारः परमात्मैव नेतरत् ।। १०
शिवः सर्वपदातीतः सर्वसंकल्पनातिगः ।
सर्वसंकल्पवलितो न सर्वो न च सर्वकः ।। ११
दिक्कालाद्यनवच्छिन्नः सर्वारम्भप्रकाशकृत् ।
चिन्मात्रमूर्तिरमलो देव इत्युच्यते मुने ।। १२
संवित्सर्वकलातीता सर्वभावान्तरस्थिता ।
सर्वसत्ताप्रदा देवी सर्वसत्तापहारिणी ।। १३
ब्रह्म ब्रह्मन्सदसतोर्मध्यं तद्देव उच्यते ।
परमात्मपराभिख्यं तत्सदोमित्युदाहृतम् ।। १४
महासत्तास्वभावेन सर्वत्र समतां गतम् ।
महाचिदिति संप्रोक्तं परमार्थ इति श्रुतम् ।। १५
स्थितं सर्वत्र सर्वं तु लतास्वन्तर्यथा रसः ।
सत्तासामान्यरूपेण महासत्तात्मनापि च ।। १६
यच्चित्तत्त्वमरुन्धत्या यच्चित्तत्त्वं तवानघ ।
यच्चित्तत्त्वं च पार्वत्या यच्चित्तत्त्वं गणेषु च ।। १७
चित्तत्त्वं यन्ममेदं च चित्तत्त्वं यज्जगत्रये ।
तद्देव इति तत्त्वज्ञा विदुरुत्तमबुद्धयः ।। १८
पादपाण्यादिमानन्यो यो वा देवः प्रकल्प्यते ।
संविन्मात्रादृते ब्रह्मन्किंसारः किल कथ्यताम् ।। १९
चिन्मात्रमेव संसारसारः सकलसारताम् ।
गतः स देवः सर्वोऽहं तस्मात्सर्वमवाप्यते ।। २०
न स दूरे स्थितो ब्रह्मन्न दुष्प्रापः स कस्यचित् ।
संस्थितः स सदा देहे सर्वत्रैव च खे तथा ।। २१
स करोति स चाश्नाति स बिभर्ति प्रयाति च ।
सनिःश्वसिति संवेत्तासोऽङ्गान्यङ्गानि वेत्ति च ।।२२
सोऽस्यां विचित्रचेष्टायां प्रकाशिन्यां च तद्वशात् ।
तत्स्वरूपनिबद्धायां पुर्यामास्ते मुनीश्वर ।। २३
शरीरावसथायां च चलायां तत्प्रसादतः ।
सोऽस्यां गहनकोशायां ह्रद्गुहायां गुहेश्वरः ।। २४
मनःषष्ठेन्द्रियाचारसत्तातीतामलात्मनः ।
तस्य संव्यवहारार्थं संज्ञा चिदिति कल्पिता ।। २५
स एष चिन्मयः सूक्ष्मः सर्वव्यापी निरञ्जनः ।
इमं भास्वरमाभासं करोति न करोति च ।। २६
सा चिदत्यन्तविमला जगदर्थं जगत्क्रियाम् ।
इमां रञ्जयति प्राज्ञ रसेनेव मधुर्लताम् ।। २७
चारवो ये चमत्काराश्चितश्चिति यथास्थितम् ।
चमत्कुर्वन्ति किल ते तेन केचिन्नभोभिधाः ।। २८
केचिज्जीवाभिधानाश्च केचिच्चित्ताभिधानकाः ।
केचित्कलाभिधानाश्च केचिद्देशाभिधानकाः ।। २९
केचित्क्रियाभिधानाश्च केचिद्रव्याभिधानकाः ।
केचिद्भावविकारादिजात्यौचित्याभिधानकाः ।। ३०
प्रकाशाभिधानाः केचित्केचिच्छैलतमोभिधाः ।
अर्केन्द्राद्यभिधाः केचित्केचिद्यक्षाभिधानकाः ।। ३१
निरिच्छस्वस्वभावेन वसन्तेन यथाङ्कुरः ।
तन्यते तद्वदेवेयं जगल्लक्ष्मीश्चिदात्मना ।। ३२
चिदेवासु समग्रासु सर्वदैवैकिकैव हि ।
त्रैलोक्याम्भोधिसंस्थासु शरीरजलजालिका ।। ३३
शरीरपङ्कजभ्रान्तमनोभ्रमरसंभृताम् ।
आस्वादयति संकल्पमधुसत्तां चिदीश्वरी ।। ३४
ससुरासुरगन्धर्वं सशैलार्णवकं जगत् ।
चिति स्थितं प्रवहति जलावर्ते जलं यथा ।। ३५
बन्धचित्तमयाचारचारुचञ्चुरचक्रिकम् ।
संसारचक्रं चिच्चक्रे भ्राम्यति भ्रमभाजनम् ।। ३६
चिच्चतुर्भुजरूपेण जघानासुरमण्डलम् ।
कालो जलदखण्डेन सायुधेन यथाऽऽतपम् ।। ३७
चित्र्त्रिनेत्रतया ब्रह्मन्वृषशीतांशुचिह्नया ।
गौरीकमलिनीवक्रपद्मषट्पदतां गता ।। ३८
विष्णोः पद्मालितामेत्य चिद्ध्यानाधीनमानसा ।
त्रयी नलिन्याः सरसीं धत्ते पैतामहीं स्थितिम् ।।३९
चितो ब्रह्मन्विचित्राणि शरीराणीह भूरिशः ।
पत्राणीव तरोर्हेम्नि केयूरादिक्रियेव च ।। ४०
चित्समस्तसुरानीकपरिवन्दितपादया ।
त्रैलोक्यचूडामणितां धत्ते वासवलीलया ।। ४१
चित्सुभास्वरतामेत्य त्रैलोक्योदरडम्बरे ।
पतत्युदेति संयाति स्वात्मन्येवाब्धिवारिवत् ।। ४२
चिच्चन्द्रिका चतुर्दिक्षु अवभासं वितन्वती ।
विकासयति निःशेषभूतसत्ताकुमुद्वतीम् ।। ४३
चिद्दर्पणमहालक्ष्मीस्त्रिजगत्प्रतिबिम्बितम् ।
गृह्णात्यनुग्रहेणान्तः स्वगर्भमिव गर्भिणी ।। ४४
चिच्चतुर्दशभूतानां मण्डलानि महान्ति च ।
भूतीकरोति वारिश्रीः समुद्रस्वमिवाम्बुधिः ।। ४५
विचित्रालोककुसुमा घनसंकल्पपल्लवा ।
व्योमकेदारिकारूढा सत्तौघफलशालिनी ।। ४६
जीवजालरजःपुञ्जवासनारसरञ्जिता ।
संवेदनत्वग्वलिता चित्तेहाकलिकाकुला ।। ४७
अतीतासंख्यत्रिजगत्केसरोज्ज्वलरूपिणी ।
अनारतस्पन्दमहाविलासोल्लासहासिनी ।। ४८
सर्वर्तुपर्वपरुषा जडशैलादिगुल्मका ।
विग्रहग्रन्थिवलिता मूलाग्रपरिवर्तिता ।। ४९
चिल्लतेयं विकसिता पेलवं सदसद्वपुः ।
विचित्रं दृश्यकुसुमं परामर्शासहं बहु ।। ५०
अनयेह हि सर्वत्र च्छायाच्छमिव जन्यते ।
मन्यते तन्यते वस्तु गीयते क्रियतेऽपि च ।। ५१
महाचितानया नित्यं भासन्ते भास्करादयः ।
देहाः स्वदन्ते च मिथस्तत्सच्चिज्जडविभ्रमैः ।। ५२
चिता चावर्तवर्तिन्या सिद्धान्येव प्रनृत्यति ।
जगज्जालरजोलेखा तत्सत्ता दृश्यदेहिनी ।। ५३
चित्सर्वं जगदारम्भमिमं प्रकटयत्यलम् ।
त्रैलोक्यदीपकशिखादीपो वर्णाश्रयं यथा ।। ५४
चिच्चन्द्रबिम्बे विमले शशवत्प्राप्य संगमम् ।
सर्वत्र लक्ष्यतामेति पदार्थश्रीर्जगद्गता ।। ५५
चिद्रसायनसेकेन पदार्थपटलावली ।
रूपमेति फलं चैव प्रावृट्सिक्तेव सल्लता ।। ५६
चिच्छाययैव सर्वस्य जाड्यं सम्यगुदेति च ।
सर्वस्यास्य शरीरस्य गृहस्येव तमस्त्विह ।। ५७
चिच्चमत्कृतयो देहे न भवेयुरिमा यदि ।
त्रैलोक्यदेहास्त्यक्त्वैते न स्पृशेयुः किलाकृतिम् ।।५८
चिदाकाशप्रकाशेऽस्मिन्संकल्पशिशुधारिणी ।
क्रियाकुलवधूर्देहगृहे स्फुरति चञ्चला ।। ५९
चिदालोकं विना कस्य रसनाग्रे स्फुरन्नपि ।
कथं कदा प्रकटतामेति दृष्टः क्व वा रसः ।। ६०
श्रृण्वङ्ग स्वाङ्गशाखोऽपि कुन्तलालिलतोऽप्यलम् ।
चिन्मज्जनं विना देहवृक्षः क इव राजते ।। ६१
वर्धते विलुठत्यत्ति चिच्चराचरकारिणी ।
चिदेवास्तीतरन्नास्ति चिन्मात्रमिदमुत्थितम् ।। ६२
श्रीवसिष्ठ उवाच ।
इत्युक्तवांस्तदा त्र्यक्षः सुधांशुस्वच्छया गिरा ।
पुनः पृष्टो मया राम सुधांशुस्वच्छया गिरा ।। ६३
यदि सर्वगता देव चिदस्त्येका तदात्मकः ।
तदयं चावनिस्फारमयान्धेव न चेतति ।। ६४
अयं चित्वान्पुरा भूत्वा चिद्धीनः संप्रति स्थितः ।
इतीयं कल्पना लोके प्रत्यक्षानुभवा कथम् ।। ६५
ईश्वर उवाच ।
श्रृण्वेतदखिलं ब्रह्मन्यदा पृष्टं वदामि ते ।
महानयं त्वया प्रश्नः कृतो ब्रह्मविदां वर ।। ६६
चिदस्ति हि शरीरेह सर्वभूतमयात्मिका ।
चलोन्मुखात्मिकैका तु निर्विकल्पा परा स्मृता ।।६७
संकल्पबुद्धा सैवान्तः स्वयमन्येव संस्थिता ।
संकल्पितेतरवरा दौःशील्यं स्त्री यथा गता ।। ६८
स एव हि पुमान्कोपाद्यथेहान्य इव क्षणात् ।
भवत्येवं विकल्पाङ्का चित्स्वरूपान्यतां गता ।। ६९
विकल्पकल्पिता ब्रह्मंश्चित्स्वरूपपरिच्युता ।
जाड्यं क्रमाद्भावयन्ती प्रयाति कलनापदम् ।। ७०
चित्स्वयं चेत्यतामेति साकाशपरमाणुताम् ।
शब्दबीजात्मिकां पश्चाद्वाततन्मात्रगामिनी ।। ७१
देशकालविभागान्ता तन्मात्रवलिता क्रमात् ।
जीवो भूत्वा भवत्याशु बुद्धिः पश्चादहं मनः ।। ७२
मनस्त्वं समुपायाता संसारमवलम्बते ।
चण्डालोऽस्मीति मननाच्चण्डालत्वमिव द्विजः ।।७३
संकल्पिताऽप्रबोधेन जाड्याऽविश्वप्रबोधिनी ।
शबलं रूपमासाद्य संकल्पाद्यात्यनारतम् ।। ७४
अनन्तसंकल्पमयी जाड्यसंकल्पपीवरा ।
चिज्जाड्यान्मोदमायाति पयः पाषाणतामिव ।। ७५
ततश्चित्तं मनोमोहो मायेति विहिताभिधा ।
जाड्यं निपुणमाश्रित्य संसारे जायते मुने ।। ७६
मोहमान्द्यमुपायाता तृष्णानिगडपीडिता ।
कामक्रोधभयोपेता भावाभावातिपातिनी ।। ७७
त्यक्तानन्तनिजाभोगा व्यवच्छेदविकारिणी ।
दुःखदावानलातप्ता शोकाशिवकृशाशया ।। ७८
इयमस्मीति भावेन शून्येन विकलीकृता ।
देहमात्रगृहीतास्था परं दैन्यमुपागता ।। ७९
मग्ना मोहमहापङ्के जीर्णेव वनदन्तिनी ।
भावाभावलतादोला परिलोलशरीरका ।। ८०
असारापारसंसारविकारव्यवहारिणी ।
तापोपतप्तहृदया रागतेजोनुरञ्जिता ।। ८१
निजयूथपरिभ्रष्टा मृगीवावशतां गता ।
आविर्भावोदिताकारा तिरोभावेऽस्तमागता ।। ८२
स्वसंकल्पोपयातासु भीता संभ्रमदृष्टिषु ।
पलायते वाष्वन्यासु वेतालेष्विव बालिका ।। ८३
उष्ट्रीव मधुरं विन्दुं वाञ्छते भावितं सुखम् ।
अवान्तरपरिभ्रष्टा दोषाद्दोषं पतत्यधः ।। ८४
परं वैषम्यमायाति संकटात्संकटं गता ।
दुःखाद्दुःखं निपतिता विपदो विपदि स्थिता ।। ८५
नानानर्थगणोपेता चेष्टापरवशाशया ।
कष्टात्कष्टमनुप्राप्ता परितापानुतापिनी ।। ८६
क्रमादाबद्धवैदग्ध्याद्वैदग्ध्याङ्गमुपागता ।
विचित्रबन्धनिर्माणपराक्रमपदं गता ।। ८७
सर्वतः शङ्कते भीता प्राणात्ययमुपागता ।
क्षीणतोयेव शफरी विवर्तनपरायणा ।। ८८
बाल्ये विवशसर्वार्था यौवने चिन्तयाऽऽवृता ।
वार्धकेऽप्यतिदुःखार्ता मृता कर्मवशीकृता ।। ८९
जायते स्वर्गनगरे नागी पातालकोटरे ।
आसुरी दैत्यविवरे नरस्त्री वसुधातले ।। ९०
राक्षसी राक्षसाधारे वानरी वनकोटरे ।
सिंही गिरीन्द्रशिखरे किन्नरी कुलपर्वते ।। ९१
विद्याधरी देवगिरौ व्याली च वनगर्तके ।
लता तरौ खगी नीडे वीरुत्सानौ वने मृगी ।। ९२
शेते नारायणोऽम्भोधौ ध्यानी ब्रह्मपुरेऽब्जजः ।
कान्तागतो हरः शैले स्वर्गे सुरवरो हरिः ।। ९३
दिनं करोति तीक्ष्णांशुर्वर्षत्यम्बुधरो जलम् ।
करोति श्वसनं संवित्सपर्वतमहोदधिम् ।। ९४
ऋतुचक्रं प्रवहति सहसा कालमण्डलम् ।
दिनरात्रितयोपैति तेजस्तिमिरतां क्रमात् ।। ९५
क्वचिद्बीजरसोल्लासात्क्वचित्पाषाणमौनिनी ।
क्वचिन्नदी रसवती क्वचित्कुमुदविस्तृतिः ।। ९६
क्वचित्फलावलीपाकैः क्वचित्काष्ठानलादिभिः ।
क्वचिच्छैत्यहिमद्वारि क्वचित्खादि न किंचन ।। ९७
क्वचिदुज्ज्वलिताकारा क्वचित्कष्टा शिला क्वचित् ।
क्वचिन्नीलाथ हरिता क्वचिदग्निः क्वचिन्मही ।। ९८
सर्वात्मत्वात्सर्वगत्वात्सर्वशक्तित्वयोगतः ।
सर्वत्वादेवंरूपैव खादप्यच्छैव सा परा ।। ९९
चिच्चिनोति यथात्मानं येन यत्र यदा यदा ।
तत्तथानुभवत्यम्बु स्पन्दाद्वीच्यादितां यथा ।। १००
हंसी क्रौञ्ची बकी काकी सारसी तुरगी वृकी ।
बकी बलाका हरिणी वानरी किन्नरी शुनी ।। १०१
वटीका पिङ्गली शाली मक्षिका भ्रमरी शुकी ।
धीः श्रीर्ह्रीः प्रीती रतिश्च शंबरी शर्वरी शशी ।।१०२
एतास्वन्यासु चान्यासु परिभ्रमति योनिषु ।
विवर्तमानसंसारे जलावर्ते तृणं यथा ।। १०३
बिभेत्यथ स्वसंकल्पात्स्वशब्दादिव गर्दभी ।
नानया सदृगन्यास्ति मुग्धा बाला चलाऽबला ।।१०४
एषा सा कथिता तुभ्यं जीवशक्तिर्महामुने ।
प्राकृताचारविवशा वराकी पशुधर्मिणी ।। १०५
कर्मात्मेत्यभिधां प्राप्ता शोच्यास्य परमात्मनः ।
अनन्तं दुःखबहुलं स्वयं विभ्रममाश्रिता ।। १०६
असदेवानयाक्रान्तं विनाशि सहजं मलम् ।
तण्डुलेनेव कञ्चूकमनन्ययाऽव्यवस्थितम् ।। १०७
अनन्तविभवभ्रष्टा दौर्भाग्यपरितापिनी ।
शोचन्ती प्राप्य जीवत्वं भर्तृहीनेव नायिका ।। १०८
जडगतेरवलोकय शक्ततां
निजपदस्मरणेन विनेह चित् ।
व्रजति कष्टमधः पतनाय या
यदरघट्टघटीघनपीठवत् ।। १०९

इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे०मो० निर्वाणप्रकरणे पू० शिवपूजोपाख्याने चेत्योन्मुखचिद्विचारो नाम त्रिंशः सर्गः ।।३० ।।