ऋग्वेदः सूक्तं ७.६

(ऋग्वेद: सूक्तं ७.६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.५ ऋग्वेदः - मण्डल ७
सूक्तं ७.६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७ →
दे. वैश्वानरोऽग्निः। त्रिष्टुप्।


प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य ।
इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥१॥
कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः ।
पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥२॥
न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान् ।
प्रप्र तान्दस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून् ॥३॥
यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः ।
तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून् ॥४॥
यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार ।
स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥५॥
यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः ।
वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम् ॥६॥
आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य ।
आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥७॥


सायणभाष्यम्

‘प्र सम्राजः' इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षम् । अनुक्रम्यते च-’ प्र सम्राजः सप्त' । ‘वैश्वानरीयं तु ' इत्युक्तत्वादस्यापि वैश्वानरोऽग्निर्देवता । विनियोगो लैङ्गिकः ॥


प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य ।

इंद्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वंदे॑ दा॒रुं वंद॑मानो विवक्मि ॥१

प्र । स॒म्ऽराजः॑ । असु॑रस्य । प्रऽश॑स्तिम् । पुं॒सः । कृ॒ष्टी॒नाम् । अ॒नु॒ऽमाद्य॑स्य ।

इन्द्र॑स्यऽइव । प्र । त॒वसः॑ । कृ॒तानि॑ । वन्दे॑ । दा॒रुम् । वन्द॑मानः । वि॒व॒क्मि॒ ॥१

प्र । सम्ऽराजः । असुरस्य । प्रऽशस्तिम् । पुंसः । कृष्टीनाम् । अनुऽमाद्यस्य ।

इन्द्रस्यऽइव । प्र । तवसः । कृतानि । वन्दे । दारुम् । वन्दमानः । विवक्मि ॥१

“दारुं पुरां भेत्तारं “वन्दे । “वन्दमानः सन् “सम्राजः सर्वस्य भुवनस्येश्वरस्य “असुरस्य बलवतः “पुंसः वीरस्य । पौंस्यमिति वीर्यमुच्यते । तथा च यास्कः-’ पुमान् पुरुमना भवति पुंसतेर्वा ' ( निरु. ९.१५) इति । “कृष्टीनां जनानाम् अनुमाद्यस्य स्तुत्यस्य “तवसः बलवतः “इन्द्रस्येव तस्य वैश्वानरस्य प्रशस्तिं स्तुतिं “कृतानि कर्माणि च “प्र “विवक्मि प्रब्रवीमि ।।


क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वंति॒ शं रा॒ज्यं रोद॑स्योः ।

पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥२

क॒विम् । के॒तुम् । धा॒सिम् । भा॒नुम् । अद्रेः॑ । हि॒न्वन्ति॑ । शम् । रा॒ज्यम् । रोद॑स्योः ।

पु॒र॒म्ऽद॒रस्य॑ । गीः॒ऽभिः । आ । वि॒वा॒से॒ । अ॒ग्नेः । व्र॒तानि॑ । पू॒र्व्या । म॒हानि॑ ॥२

कविम् । केतुम् । धासिम् । भानुम् । अद्रेः । हिन्वन्ति । शम् । राज्यम् । रोदस्योः ।

पुरम्ऽदरस्य । गीःऽभिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि ॥२

“कविं प्राज्ञं “केतुं विश्वस्य प्रज्ञापकं “धासिम् “अद्रेः धर्तारमादर्तुः स्तोतुर्वा “भानुं भासकं “शं सुखकरं “रोदस्योः द्यावापृथिव्योः “राज्यं राजानं वैश्वानरमग्निं “हिन्वन्ति । मदीयाः प्रीणयन्ति प्रेरयन्ति वा देवाः । अहं च “पुरंदरस्य पुरां दारयितुः “अग्नेः पूर्व्या पूर्व्याणि पुरातनानि “महानि महान्ति “व्रतानि कर्माणि “गीर्भिः “आ “विवासे परिचरामि ।।


न्य॑क्र॒तून्ग्र॒थिनो॑ मृ॒ध्रवा॑चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् ।

प्रप्र॒ तांदस्यूँ॑र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒ अय॑ज्यून् ॥३

नि । अ॒क्र॒तून् । ग्र॒थिनः॑ । मृ॒ध्रऽवा॑चः । प॒णीन् । अ॒श्र॒द्धान् । अ॒वृ॒धान् । अ॒य॒ज्ञान् ।

प्रऽप्र॑ । तान् । दस्यू॑न् । अ॒ग्निः । वि॒वा॒य॒ । पूर्वः॑ । च॒का॒र॒ । अप॑रान् । अय॑ज्यून् ॥३

नि । अक्रतून् । ग्रथिनः । मृध्रऽवाचः । पणीन् । अश्रद्धान् । अवृधान् । अयज्ञान् ।

प्रऽप्र । तान् । दस्यून् । अग्निः । विवाय । पूर्वः । चकार । अपरान् । अयज्यून् ॥३

"अक्रतून् अयज्ञान् “ग्रथिनः जल्पकान् “मृधवाचः हिंसितवचस्कान् "पणीन् पणिनामकान् वार्धुषिकान् “अश्रद्धान् यज्ञादिषु श्रद्धारहितान् “अवृधान् स्तुतिभिरग्निमवर्धयतः “अयज्ञान यज्ञहीनान् “तान् “दस्यून् वृथा कालस्य नेतॄन् “अग्निः “प्रप्र अत्यन्तं “नि “विवाय नितरां गमयेत् । तदेवाह । अग्निः “पूर्वः मुख्यः सन् "अयज्यून् अयजमानान् "अपरान् जघन्यान् “चकार ॥


यो अ॑पा॒चीने॒ तम॑सि॒ मदं॑तीः॒ प्राची॑श्च॒कार॒ नृत॑मः॒ शची॑भिः ।

तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मयं॑तं पृत॒न्यून् ॥४

यः । अ॒पा॒चीने॑ । तम॑सि । मद॑न्तीः । प्राचीः॑ । च॒कार॑ । नृऽत॑मः । शची॑भिः ।

तम् । ईशा॑नम् । वस्वः॑ । अ॒ग्निम् । गृ॒णी॒षे॒ । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ॥४

यः । अपाचीने । तमसि । मदन्तीः । प्राचीः । चकार । नृऽतमः । शचीभिः ।

तम् । ईशानम् । वस्वः । अग्निम् । गृणीषे । अनानतम् । दमयन्तम् । पृतन्यून् ॥४

“नृतमः नेतृतमः “यः अग्निः “अपाचीने अप्रकाशमाने “तमसि निमग्नाः प्रजाः “मदन्तीः स्तुवन्तीः “शचीभिः ताभ्यो दत्ताभिः प्रज्ञाभिः “प्राचीः ऋजुगामिनीः “चकार । यद्वा । नेतृतमो योऽग्निः अपाचीने तमसि निशायां मदन्तीर्माद्यन्तीरुषसः शचीभिः प्रज्ञाभिः प्राचीश्चकारेत्यर्थः । “तं "वस्वः धनस्य “ईशानम् अनानतम् अप्रह्वं “पृतन्यून् युद्धकामांश्च “दमयन्तम् अग्निं “गृणीषे स्तौमि ॥


यो दे॒ह्यो॒३॒॑ अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ ।

स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥५

यः । दे॒ह्यः॑ । अन॑मयत् । व॒ध॒ऽस्नैः । यः । अ॒र्यऽप॑त्नीः । उ॒षसः॑ । च॒कार॑ ।

सः । नि॒ऽरुध्य॑ । नहु॑षः । य॒ह्वः । अ॒ग्निः । विशः॑ । च॒क्रे॒ । ब॒लि॒ऽहृतः॑ । सहः॑ऽभिः ॥५

यः । देह्यः । अनमयत् । वधऽस्नैः । यः । अर्यऽपत्नीः । उषसः । चकार ।

सः । निऽरुध्य । नहुषः । यह्वः । अग्निः । विशः । चक्रे । बलिऽहृतः । सहःऽभिः ॥५

“यः अग्निः “देह्यः देहीरुपचिताः आसुरीर्विद्याः “वधस्नैः वधैरायुधैर्वा "अनमयत् हीना अकरोत् । “यः च “अर्यपत्नीः । अर्यः सूर्यः पतिर्यासां ता अर्यपत्न्यः । ताः “उषसश्चकार अकरोत् “सः "यह्वः महान् “अग्निः “विशः प्रजाः “सहोभिः बलैः “निरुध्य “नहुषः राज्ञः “बलिहृतः करप्रदाः “चक्रे ॥


यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः ।

वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थं॑ ॥६

यस्य॑ । शर्म॑न् । उप॑ । विश्वे॑ । जना॑सः । एवैः॑ । त॒स्थुः । सु॒ऽम॒तिम् । भिक्ष॑माणाः ।

वै॒श्वा॒न॒रः । वर॑म् । आ । रोद॑स्योः । आ । अ॒ग्निः । स॒सा॒द॒ । पि॒त्रोः । उ॒पऽस्थ॑म् ॥६

यस्य । शर्मन् । उप । विश्वे । जनासः । एवैः । तस्थुः । सुऽमतिम् । भिक्षमाणाः ।

वैश्वानरः । वरम् । आ । रोदस्योः । आ । अग्निः । ससाद । पित्रोः । उपऽस्थम् ॥६

“विश्वे सर्वे “जनासः जनाः “शर्मन् शर्मणि सुखनिमित्तं “यस्य वैश्वानरस्य “सुमतिं “भिक्षमाणाः प्रार्थयमानाः “एवैः कर्मभिः हविर्भिर्वा “उप “तस्थुः यमेवोपतिष्ठन्ते सः “वैश्वानरः विश्वनरहितः “अग्निः सूर्यः सन् “पित्रोः मातापित्रोः “रोदस्योः द्यावापृथिव्योः “वरम् उत्कृष्टम् “उपस्थं मध्यमन्तरिक्षम् “आ “ससाद आगच्छत् ।।


आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य ।

आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥७

आ । दे॒वः । द॒दे॒ । बु॒ध्न्या॑ । वसू॑नि । वै॒श्वा॒न॒रः । उत्ऽइ॑ता । सूर्य॑स्य ।

आ । स॒मु॒द्रात् । अव॑रात् । आ । पर॑स्मात् । आ । अ॒ग्निः । द॒दे॒ । दि॒वः । आ । पृ॒थि॒व्याः ॥७

आ । देवः । ददे । बुध्न्या । वसूनि । वैश्वानरः । उत्ऽइता । सूर्यस्य ।

आ । समुद्रात् । अवरात् । आ । परस्मात् । आ । अग्निः । ददे । दिवः । आ । पृथिव्याः ॥७

"वैश्वानरः विश्वनरहितोऽग्निः “देवः द्योतमानः “बुध्न्या बुध्न्यानि आन्तरिक्षाणि । बुध्नमन्तरिक्षम् । तथा च यास्कः-’ बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति वा ' (निरु. १०. ४४ ) इति । “वसूनि आच्छादकानि तमांसि ॥ ‘वस आच्छादने' इति धातुः ॥ “सूर्यस्य “उदिता उदितावुदये' सति “आ “ददे। “समुद्रात् अन्तरिक्षात् । ‘सगरः समुद्रः' इत्यन्तरिक्षनामसु पाठात् । “अवरात् पृथिव्याः तमांसि “आ “ददे । समुद्रात् “परस्मात् दिवोऽपि तमांसि “आ ददे। तदेव दर्शयति । “अग्निः “दिवः तमांसि “आ “ददे “पृथिव्याः च तमांसि “आ ददे ॥ ॥ ९ ॥

टिप्पणी

 
डा. फतहसिंहः

वैश्वानरोपरि डा. फतहसिंहेन कृता टिप्पणी एवं वैदिकसंदर्भाः

७.६.१ प्र सम्राजो इति

द्र. घृताचेराङ्गिरसस्य साम

पृष्ठ्यषडहे चतुर्थे अहनिअग्निमारुतशस्त्रं - प्र सम्रााजो असुरस्य प्रशस्तिम् इति वैश्वानरीयम् । सम्राज इति सम्राड्वत् । सम्राड्वद् इति वा अस्य रूपम् । - कौब्रा २२.९

(चतुर्थस्याह्नः संज्ञा वैराजं अस्ति)



मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६&oldid=314728" इत्यस्माद् प्रतिप्राप्तम्