ऋग्वेदः सूक्तं ७.७

(ऋग्वेद: सूक्तं ७.७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.६ ऋग्वेदः - मण्डल ७
सूक्तं ७.७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.८ →
दे. अग्निः। त्रिष्टुप्।


प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः ।
भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः ॥१॥
आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः ।
आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि ॥२॥
प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता ।
आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥३॥
सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् ।
विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥४॥
असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता ।
द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥५॥
एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् ।
प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य ॥६॥
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘प्र वो देवम्' इति सप्तर्चं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । ‘प्र वो देवम्' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्ते उक्तो विनियोगः ॥


प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः ।

भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वांत्मना॑ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ॥१

प्र । वः॒ । दे॒वम् । चि॒त् । स॒ह॒सा॒नम् । अ॒ग्निम् । अश्व॑म् । न । वा॒जिन॑म् । हि॒षे॒ । नमः॑ऽभिः ।

भव॑ । नः॒ । दू॒तः । अ॒ध्व॒रस्य॑ । वि॒द्वान् । त्मना॑ । दे॒वेषु॑ । वि॒वि॒दे॒ । मि॒तऽद्रुः॑ ॥१

प्र । वः । देवम् । चित् । सहसानम् । अग्निम् । अश्वम् । न । वाजिनम् । हिषे । नमःऽभिः ।

भव । नः । दूतः । अध्वरस्य । विद्वान् । त्मना । देवेषु । विविदे । मितऽद्रुः ॥१

हे अग्ने "वः त्वां "देवं द्योतमानादिगुणयुक्तं "सहसानं राक्षसानभिभवन्तं बलमाचरन्तं वा “अग्निम् अग्रस्य नेतारम् "अश्वं “न अश्वमिव “वाजिनं वेगवन्तं बलवन्तं वा नमोभिः स्तुतिभिर्हविर्भिर्वा “प्र “हिषे हे अग्ने त्वां “चित् प्रहिणोम्येव । किंच हे अग्ने त्वं "विद्वान् जानन् "नः अस्माकम् "अध्वरस्य यज्ञस्य "दूतः "भव । अथ परोक्षस्तुतिः। “त्मना आत्मना स्वयमेव “देवेषु “मितद्रुः दग्धद्रुमोऽग्निरिव "विविदे प्रज्ञायते ॥


आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा मं॒द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः ।

आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जंभे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥२

आ । या॒हि॒ । अ॒ग्ने॒ । प॒थ्याः॑ । अनु॑ । स्वाः । म॒न्द्रः । दे॒वाना॑म् । स॒ख्यम् । जु॒षा॒णः ।

आ । सानु॑ । शुष्मैः॑ । न॒दय॑न् । पृ॒थि॒व्याः । जम्भे॑भिः । विश्व॑म् । उ॒शध॑क् । वना॑नि ॥२

आ । याहि । अग्ने । पथ्याः । अनु । स्वाः । मन्द्रः । देवानाम् । सख्यम् । जुषाणः ।

आ । सानु । शुष्मैः । नदयन् । पृथिव्याः । जम्भेभिः । विश्वम् । उशधक् । वनानि ॥२

हे "अग्ने त्वं "मन्द्रः मदयिता स्तुत्यो वा “देवानां "सख्यम् । देवैः सह सख्यमित्यर्थः । “जुषाणः सेवमानः "पृथिव्याः "सानु समुच्छ्रितं तृणगुल्मादिकं “शुष्मैः शोषकैर्दाहकैस्तेजोभिः “नदयन् शब्दायमानः । दह्यमानं हि शब्दायते । "जम्भेभिः दंष्ट्राभिः । ज्वालाभिरित्यर्थः । "विश्वं विश्वानि “वनानि “उशधक् कामयमानः दहन "स्वाः "पथ्याः अनु । स्वैर्मार्गेरित्यर्थः । "आ "आ “याहि । आकारस्य पुनर्वचनमादरार्थम् ॥


प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ ।

आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ॥३

प्रा॒चीनः॑ । य॒ज्ञः । सुऽधि॑तम् । हि । ब॒र्हिः । प्री॒णी॒ते । अ॒ग्निः । ई॒ळि॒तः । न । होता॑ ।

आ । मा॒तरा॑ । वि॒श्ववा॑रे॒ इति॑ वि॒श्वऽवा॑रे । हु॒वा॒नः । यतः॑ । य॒वि॒ष्ठ॒ । ज॒ज्ञि॒षे । सु॒ऽशेवः॑ ॥३

प्राचीनः । यज्ञः । सुऽधितम् । हि । बर्हिः । प्रीणीते । अग्निः । ईळितः । न । होता ।

आ । मातरा । विश्ववारे इति विश्वऽवारे । हुवानः । यतः । यविष्ठ । जज्ञिषे । सुऽशेवः ॥३

अयं "यज्ञः "प्राचीनः । सम्यगनुष्ठीयत इत्यर्थः । यद्वा । यज्ञो यष्टा होता प्राचीनः । यद्वा । यज्ञो हविः प्राचीनः प्राचीनं प्राङमुखमासन्नम्। “बर्हिः “हि बर्हिश्च "सुधितं सुनिहितम् । “ईळितः स्तुतः “अग्निः “प्रीणीते तृप्तश्च भवति । “होता "न होता च । नेति चार्थे । “विश्ववारे विश्वैर्वरणीये “मातरा द्यावापृथिव्यौ इडायाम् "आ “हुवानः भवति । कदेत्यत आह । "यतः यदा "यविष्ठ हे युवतमाग्ने त्वं "सुशेवः सुसुखः "जज्ञिषे जायसे ।।


स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नंत॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षां ।

वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्मं॒द्रो मधु॑वचा ऋ॒तावा॑ ॥४

स॒द्यः । अ॒ध्व॒रे । र॒थि॒रम् । ज॒न॒न्त॒ । मानु॑षासः । विऽचे॑तसः । यः । ए॒षा॒म् ।

वि॒शाम् । अ॒धा॒यि॒ । वि॒श्पतिः॑ । दु॒रो॒णे । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ॥४

सद्यः । अध्वरे । रथिरम् । जनन्त । मानुषासः । विऽचेतसः । यः । एषाम् ।

विशाम् । अधायि । विश्पतिः । दुरोणे । अग्निः । मन्द्रः । मधुऽवचाः । ऋतऽवा ॥४

“विचेतसः विविक्तप्रज्ञाः “मानुषासः मनुष्याः “अध्वरे यज्ञे “रथिरं रथिनं नेतारमग्निं “सद्यः “जनन्त जनयन्ति । "यः “एषां हविर्वहति सोऽयम् "अग्निः “विश्पतिः विशां पतिर्विश्वस्य पतिर्वा “मन्द्रः मदयिता "मधुवचाः मादयितृवचस्कः “ऋतावा यज्ञवान् “विशां मनुष्याणां "दुरोणे गृहे “अधायि आहितः ॥


असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता ।

द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रं ॥५

असा॑दि । वृ॒तः । वह्निः॑ । आ॒ऽज॒ग॒न्वान् । अ॒ग्निः । ब्र॒ह्मा । नृ॒ऽसद॑ने । वि॒ऽध॒र्ता ।

द्यौः । च॒ । यम् । पृ॒थि॒वी । व॒वृ॒धाते॒ इति॑ । आ । यम् । होता॑ । यज॑ति । वि॒श्वऽवा॑रम् ॥५

असादि । वृतः । वह्निः । आऽजगन्वान् । अग्निः । ब्रह्मा । नृऽसदने । विऽधर्ता ।

द्यौः । च । यम् । पृथिवी । ववृधाते इति । आ । यम् । होता । यजति । विश्वऽवारम् ॥५

“वृतः होतृत्वेन “वह्निः हविषां वोढा “ब्रह्मा परिवृढः "विधर्ता विश्वस्य धारकः "अग्निः “आजगन्वान् द्युलोकादागत आगमनशीलो वा "नृषदने होतुः स्थाने "असादि उपविष्टः । "यम् अग्निं “द्यौश्च "पृथिवी चोभे “ववृधाते वर्धयतः । “यं च “विश्ववारं विश्वैर्वरणीयं “होता मानुषः “आ “यजति ।।


ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रंत॒ मंत्रं॒ ये वारं॒ नर्या॒ अत॑क्षन् ।

प्र ये विश॑स्ति॒रंत॒ श्रोष॑माणा॒ आ ये मे॑ अ॒स्य दीध॑यन्नृ॒तस्य॑ ॥६

ए॒ते । द्यु॒म्नेभिः॑ । विश्व॑म् । आ । अ॒ति॒र॒न्त॒ । मन्त्र॑म् । ये । वा॒ । अर॑म् । नर्याः॑ । अत॑क्षन् ।

प्र । ये । विशः॑ । ति॒रन्त॑ । श्रोष॑माणाः । आ । ये । मे॒ । अ॒स्य । दीध॑यन् । ऋ॒तस्य॑ ॥६

एते । द्युम्नेभिः । विश्वम् । आ । अतिरन्त । मन्त्रम् । ये । वा । अरम् । नर्याः । अतक्षन् ।

प्र । ये । विशः । तिरन्त । श्रोषमाणाः । आ । ये । मे । अस्य । दीधयन् । ऋतस्य ॥६

“एते मदीयाः पुरुषाः “द्युम्नेभिः अन्नैः “विश्वं पोष्यवर्गम् "आतिरन्त वर्धयन्ति । अथवा द्युम्नेभिर्यशोभिर्विश्वं जगदातिरन्त। अभ्यगच्छन्नित्यर्थः । क इत्यत आह । "ये “नर्याः मनुष्याः "मन्त्रं स्तोत्रं स्तुत्यं “वा “अरं पर्याप्तम् "अतक्षन् समस्कुर्वन् । वेति समुच्चये। "ये च "विशः जनाः “श्रोषमाणाः ॥ शृणोतेः ‘सन्यङोः ' इति द्वित्वम् “ इको झल्' इति सनः कित्त्वं च ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति न भवतः । ‘ ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् ॥ “प्र “तिरन्त वर्धयन्ति । "मे मदीयाः "ये वा “ऋतस्य "अस्य सत्यमिममग्निम्। कर्मणि षष्ठी । माषाणामश्नीयादितिवत् । “आ “दीधयन् आदीपयन् ॥


नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां ।

इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥७

नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।

इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् ।

इषम् । स्तोतृऽभ्यः । मघवत्ऽभ्यः । आनट् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

“सहसः "सूनो बलस्य पुत्र "अग्ने “वसिष्ठाः वयं “वसूनाम् "ईशानं “त्वाम् अस्मदीयेभ्यः “स्तोतृभ्यः "मघवद्भ्यः हविष्मद्भ्यश्च “इषम् अन्नं "नु क्षिप्रम् अद्य वा "आनट् प्रापयेः ॥ नशेर्व्याप्तिकर्मणोऽन्तर्णीतण्यर्थात् लुङि ‘छन्दस्यपि दृश्यते' इत्याडागमः । "यूयं त्वत्परिवाराश्च सर्वे यूयं “नः अस्मान् "सदा "स्वस्तिभिः “पात इत्येवम् "ईमहे याचामहे ॥ ॥ १० ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७&oldid=209131" इत्यस्माद् प्रतिप्राप्तम्