महाभारतम्-08-कर्णपर्व-037
← कर्णपर्व-036 | महाभारतम् अष्टमपर्व महाभारतम्-08-कर्णपर्व-037 वेदव्यासः |
कर्णपर्व-038 → |
कर्णेन सोपहासं शल्यगर्हणम्।। 1 ।।
|
सञ्जय उवाच।
ततः पुनर्महाराज मद्रराजमरिन्दमः।
अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः।। 8-37-1
निर्भर्त्सनार्थं शल्य त्वं यत्तु जल्पितवानसि।
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे।। 8-37-2
यदि मां देवताः सर्वा योधयेयुः सवासवाः।
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात्।। 8-37-3
नाहं भीषयितुं शक्यः शुद्धकर्णा महाहवे।
अभिजानीहि शक्तस्त्वमन्यं भीषयितुं रणे।। 8-37-4
नीचस्य बलमेतावत्पारुष्यं यतत्त्वमात्थ माम्।
अशक्तो हि गुणान्वक्तुं वल्गसे बहु दुर्मते।। 8-37-5
न हि कर्णः समुद्भूतो भयार्थमिह मद्रक।
विक्रमार्थमहं जातो यशोर्थं च तथाऽऽत्मनः।। 8-37-6
सखिभावेन सौहार्दान्मितत्रभावेन चैव हि।
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम्।। 8-37-7
राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम्।
मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम्।। 8-37-8
कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव।
`समयः परिपाल्यो मे तेन जीवसि साम्प्रतम्'।। 8-37-9
ऋते शल्यसहस्रेण विजयेयमहं परान्।
मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम्।। 8-37-10
शल्य उवाच।
आर्तप्रलापांस्त्वं कर्ण यान्ब्रवीषि परान्प्रति।
न ते कर्णसहस्रेण शक्या जेतुं परे युधि।। 8-37-11
सञ्जय उवाच।
तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा।
परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम्।। 8-37-12
इदं त्वमेकाग्रमनाः शृणु मद्रजनाधिप।
सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्।। 8-37-13
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्।
ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रनिवेशने।। 8-37-14
तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः।
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत्।। 8-37-15
बहिष्कृता हिमवतता गङ्गया च तिरस्कृताः।
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये।। 8-37-16
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः।
तान्धर्मबाह्यानशुचीन्बाह्लीकानपि वर्जयेत्।। 8-37-17
गोवर्धनो नाम वटः सुभाण्डं नाम पत्तनम्।
एतद्राजन्कलिद्वारमाकुमारात्स्मराम्यहम्।। 8-37-18
कार्येणात्यर्थगूढेन बाह्लीकेषूषितं मया।
तत एषां समाचारः संवासाद्विदितो मया।। 8-37-19
शाकलं नाम नगरमापगानामनिम्नगा।
चण्डाला नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम्।। 8-37-20
पानं गुडासवं पीत्वा गोमांसं लशुनैः सह।
अपूपसक्तुमद्यानामाशिताः शीलवर्जिताः।। 8-37-21
गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः।
नगरापणवेशेषु बहिर्माल्यानुलेपनाः।। 8-37-22
मत्ताः प्रगीतविरुतैः खरोष्ट्रनिनदोपमैः।
अनावृता मैथुने ताः कामचाराश्च सर्वशः।। 8-37-23
आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कxxxः।
हेहतेहेहतेत्येवं स्वामिभर्तृहतेति च।। 8-37-24
आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयताः।
तासां किलावलिप्तानां निवसन्कुरुजाङ्गले।। 8-37-25
कश्चिद्बाह्लीकदुष्टानां नातिहृष्टमना जगौ।
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी।। 8-37-26
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम्।
शतद्रुं नु कदा तीर्त्वा तां च रम्यामिरावतीम्।
गत्वा स्वदेशं द्रक्ष्यामि स्थूलजङ्घाः शुभाः स्त्रियः।। 8-37-27
मनःशिलोज्ज्वलापाङ्ग्यो गौर्यस्ताः काकुकूजिताः।
कम्बलाजिनसंवीता रुदन्त्यः प्रियदर्शनाः।। 8-37-28
मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः।
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्।। 8-37-29
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु।
अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मथितान्वितान्।। 8-37-30
पथिषु प्रबलो भूत्वा तथा सम्पततोऽध्वगान्।
चेलापहारं कुर्वाणास्ताडयिष्याम भूयसः।। 8-37-31
एवंशीलेषु व्रात्येषु बाह्लीकेषु दुरात्मसु।
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः।। 8-37-32
कर्ण उवाच।
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः।
येषां षड्भागहर्ता त्वमुभयोः पुण्यपापयोः।। 8-37-33
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्।
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोध तत्।। 8-37-34
ततत्र स्म राक्षसी गाति कृष्णचतुर्दशीम्।
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम्।। 8-37-35
कथं वस्तादृशो गाथाः पुनर्गास्यामि शाकले।
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम्।। 8-37-36
गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृता।
पलाण्डुगण्डूषयुताः खादन्तश्चेशिकान्बहून्।। 8-37-37
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्।
धानाश्च ये न खादन्ति तेषां जन्म निरर्थकम्।। 8-37-38
एवं गायन्ति ये मत्ताः शीधुना पीलुकावने।
सबालवृद्धाः क्रन्दन्ति तेषां धर्मः कथं भवेत्।। 8-37-39
यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः।
विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत्।। 8-37-40
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदन्योप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि।। 8-37-41
पञ्चनद्यो वहन्त्येता यत्र पीलुवनान्युत।
शतद्रुश्च विपाशा च तृतीयैरावती तथा।। 8-37-42
चन्द्रभागा वितस्ता च सिन्धुषष्ठा महानदी।
आरट्टा नाम बह्लीका एतेष्वार्यो हि नो वसेत्।। 8-37-43
व्रात्यानां दासमीयानां विदेहानामयज्वनाम्।
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा।। 8-37-44
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः।
ब्राह्मणेन यथा प्रोक्तं विदुषा साधुसंसदि।। 8-37-45
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते।
सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः।। 8-37-46
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च।
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च।। 8-37-47
पात्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः।
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता।। 8-37-48
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदन्योऽप्युक्तवान्मह्यं ब्राह्मणः कुरुसंसदि।। 8-37-49
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले।
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति।। 8-37-50
पञ्चनद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्।
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत्।। 8-37-51
बाह्लीका नाम हीकश्च विपाशायां पिशाचकौ।
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः।। 8-37-52
ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः।। 8-37-53
कारस्करान्माहिषकान्करम्भान्कटकालिकान्।
कर्करान्वीरकान्वीरा उन्मत्तांश्च विवर्जयेत्।। 8-37-54
इति तीर्थानुसञ्चारी राक्षसी काचिदब्रवीत्।
एकरात्रमुषित्वेह महोलूखलमेखला।। 8-37-55
आरट्टा नाम ते देशा बाह्लीकं नाम तद्वनम्।
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः।। 8-37-56
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तत्रिंशोऽध्यायः।। 37 ।।
8-37-8 एतदेव त्रयं व्याचष्टे राज्ञश्चेत्यादिना।।
8-37-17 पञ्चानां वक्ष्यमाणानाम्। सिन्धुः षष्ठी यासाम्। अन्तरमवकाशमाश्रिताः।।
8-37-18 गोवर्धनः गवां छेदनस्थानम्।।
8-37-20 वृत्तं चरित्रम्।।
8-37-23 अनावृताः स्वपरपुरुषविवेकहीनाः।।
8-37-24 सूक्तानि विनोदवचनानि। हेहते भोलिङ्गताडिते xxxक्रोशे द्वित्वम्। संधिश्छान्दसः। स्वामिहते भर्तृहते इति च तद्वत्।।
8-37-25 पर्वसु उत्सवदिनेषु आक्रोशन्त्यः गालयन्त्यः। तासां पतिरिति शेषः।।
8-37-29 खरादियानैः।।
8-37-30 मथितं तक्रम्।।
8-37-31 भूयसः बहून्।।
8-37-38 वाराहं विड्वाहजम।।
8-37-37 सप्तत्रिंशोऽध्यायः।।
कर्णपर्व-036 | पुटाग्रे अल्लिखितम्। | कर्णपर्व-038 |
टिप्पणी
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत्।। - डा. कल्याणरमणः कथयति यत् अरट्टशब्दस्य संस्कृतरूपं अराष्ट्रमस्ति। यदि नामरटणस्य प्रभावं राष्ट्रीउपरि, मेरुदण्डोपरि न भवति, तर्हि अयं नामरटणं अराष्ट्रं अस्ति। यदि नामरटणस्य प्रभावं राष्ट्रीरुपरि भवति, नामरटणेन राष्ट्री झंकृतं भवति, शल्याः सूचयन्ति, तदा अयं आराष्ट्रं भवति।