ऋग्वेदः सूक्तं १०.१३७
← सूक्तं १०.१३६ | ऋग्वेदः -मण्डल १० सूक्तं १०.१३७ ऋ. १ भरद्वाजः, २ कश्यपः, ३ गोतमः, ४ अत्रिः, ५ विश्वामित्रः, ६ जमदग्निः, ७ वसिष्ठः। |
सूक्तं १०.१३८ → |
दे. विश्वे देवाः। अनुष्टुप् |
उत देवा अवहितं देवा उन्नयथा पुनः ।
उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥
द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।
दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः ॥२॥
आ वात वाहि भेषजं वि वात वाहि यद्रपः ।
त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥३॥
आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।
दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥४॥
त्रायन्तामिह देवास्त्रायतां मरुतां गणः ।
त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥५॥
आप इद्वा उ भेषजीरापो अमीवचातनीः ।
आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥६॥
हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥७॥
सायणभाष्यम्
' उत देवाः ' इति सप्तर्चं नवमं सूक्तमानुष्टुभं वैश्वदेवं भरद्वाजकश्यपगोतमात्रिविश्वामित्रजमदग्निवसिष्ठा इति क्रमेण प्रत्यृचमृषयः । तथा चानुक्रान्तम् -' उत देवाः सप्तर्षय एकर्चा वैश्वदेवम् ' इति । गतो विनियोगः ।
उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ ।
उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥१
उ॒त । दे॒वाः॒ । अव॑ऽहितम् । देवाः॑ । उत् । न॒य॒थ॒ । पुन॒रिति॑ ।
उ॒त । आगः॑ । च॒क्रुष॑म् ।दे॒वाः॒ । देवाः॑ । जी॒वय॑थ । पुन॒रिति॑ ॥१
उत । देवाः । अवऽहितम् । देवाः । उत् । नयथ । पुनरिति ।
उत । आगः । चक्रुषम् । देवाः । देवाः । जीवयथ । पुनरिति ॥१
“उत अपि च हे “देवाः “अवहितम् “उन्नयथ । “उत अपि च हे “देवाः “आगः अपराधं “चक्रुषं कृतवन्तं मां तस्मादागसो रक्षत । हे “देवाः रक्षित्वा च “पुनः पश्चात् “जीवयथ चिरजीविनं कुरुत ॥
द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ ।
दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥२
द्वौ । इ॒मौ । वातौ॑ । वा॒तः॒ । आ । सिन्धोः॑ । आ । प॒रा॒ऽवतः॑ ।
दक्ष॑म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा॑ । अ॒न्यः । वा॒तु॒ । यत् । रपः॑ ॥२
द्वौ । इमौ । वातौ । वातः । आ । सिन्धोः । आ । पराऽवतः ।
दक्षम् । ते । अन्यः । आ । वातु । परा । अन्यः । वातु । यत् । रपः ॥२
“इमौ दृश्यमानौ “द्वौ “वातौ पुरोवातः पश्चाद्वातश्च “आ “सिन्धोः आ समुद्रात् । मर्यादायामाकारः । यद्वा “आ “परावतः समुद्रादपि यो दूरदेशः तं देशमवधीकृत्य “वातः गच्छतः । ‘वा गतिगन्धनयोः । आदादिकः । तयोर्वातयोः “अन्यः एको हे स्तोतः “ते तव “दक्षं बलम् “आ “वातु आगमयतु । “अन्यः च त्वदीयं “यद्रपः पापं तत् "परा “वातु परागमयतु ॥
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ ।
त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥३
आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ ।
त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥३
आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः ।
त्वम् । हि । विश्वऽभेषजः । देवानाम् । दूतः । ईयसे ॥३
हे “वात “भेषजं सुखं व्याध्युपशमनमौषधं वा “आ “वाहि आगमय । हे “वात “यद्रपः अस्मदीयं पापं तत् “वि “वाहि विगमय । अस्मत्तो विश्लेषय । “त्वं “हि खलु “देवानां “दूतः “विश्वभेषजः । विश्वानि भेषजानि यस्मिन् । 'बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । ईदृशश्च सन् “ईयसे सततं गच्छसि ।। ‘ ईङ् गतौ ' । दैवादिकः । श्यनो नित्त्वात् ञ्नित्यादिर्नित्यम् ' इत्याद्युदात्तत्वम् । ' हि च' इति निघातप्रतिषेधः ॥
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः ।
दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥४
आ । त्वा॒ । अ॒ग॒म॒म् । शन्ता॑तिऽभिः । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभिः ।
दक्ष॑म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥४
आ । त्वा । अगमम् । शन्तातिऽभिः । अथो इति । अरिष्टतातिऽभिः ।
दक्षम् । ते । भद्रम् । आ । अभार्षम् । परा । यक्ष्मम् । सुवामि । ते ॥४
हे स्तोतः “त्वा त्वां “शंतातिभिः सुखकरैः “अथो अपि च “अरिष्टतातिभिः अहिंसाकरैश्च रक्षणैः “आ “अगमम् आगतवानस्मि । ‘शिवशमरिष्टस्य करे' (पा. सू. ४. ४. १४३ ) इत्युभयत्र तातिल्प्रत्ययः । ‘ लिति ' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । अपि च "भद्रं कल्याणं “ते तव “दक्षं बलम् "आभार्षम् आहार्षं वायुसकाशादानैषम् । तथा “ते तव "यक्ष्मं रोगं च “परा “सुवामि विनाशयामि ॥
त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः ।
त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥५
त्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः ।
त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥५
त्रायन्ताम् । इह । देवाः । त्रायताम् । मरुताम् । गणः ।
त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपाः । असत् ॥५
“इह अस्मिन् देशे सर्वे “देवाः “त्रायन्ताम् अस्मान् पालयन्ताम् । तथा “मरुतां “गणः संघः स “त्रायताम् । “विश्वा विश्वानि सर्वाण्यन्यानि च “भूतानि भूतजातानि “त्रायन्ताम् अस्मान् रक्षन्तु । "यथायम् अस्मदीयः शरीरादिः “अरपाः “असत् पापरहितो भवति तथेत्यर्थः । रप इति पापनाम । नञा बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अस्तेर्लेट्यडागमः । ‘ याव द्यथाभ्याम् ' ( पा. सू. ८. १. ३६ ) इति निघाताभावः ॥
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।
आप॒ः सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥६
आपः॑ । इत् । वा॒ । ऊं॒ इति॑ । भे॒ष॒जीः । आपः॑ । अ॒मी॒व॒ऽचात॑नीः ।
आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥६
आपः । इत् । वा । ऊं इति । भेषजीः । आपः । अमीवऽचातनीः ।
आपः । सर्वस्य । भेषजीः । ताः । ते । कृण्वन्तु । भेषजम् ॥६
“आप “इद्वै आप एवं खलु “भेषजीः भेषजभूताः । स्नानपानादिना सुखहेतवः । यद्वा । ओषधिरूपेण परिणता रोगोपशमनहेतवो भवन्ति। ‘ केवलमामक° ' (पा. सू. ४. १. ३०) इत्यादिना भेषजशब्दात् ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। जसि वा छन्दसि इति पूर्वसवर्णदीर्घत्वम् । यत एवमतः कारणात् “आपः “अमीवचातनीः अमीवचातन्यः रोगाणां नाशयित्र्यो भवन्ति । चातयतिर्वधकर्मा। किंच “आपः “सर्वस्य प्राणिजातस्य “भेषजीः भेषजभूता भवन्ति न कतिपयस्य । “ताः तथाविधा आपः "ते तव “भेषजं “कृण्वन्तु कुर्वन्तु ॥
हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी ।
अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥७
हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी ।
अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥७
हस्ताभ्याम् । दशऽशाखाभ्याम् । जिह्वा । वाचः । पुरःऽगवी ।
अनामयित्नुऽभ्याम् । त्वा । ताभ्याम् । त्वा । उप । स्पृशामसि ॥७
"दशशाखाभ्यां दशाङ्गुलयः शाखाभूता ययोः तादृशाभ्यां प्रजापतेः “हस्ताभ्यां सृज्यमाना “जिह्वा रसना “वाचः शब्दस्य “पुरोगवी पुरतो गन्त्री जाता। यत्र यत्र शब्दस्तत्र सर्वत्र तस्य शब्दस्योच्चारणाय पुरतो व्याप्रियत इत्यर्थः । “अनामयित्नुभ्यां सम्यगारोग्यहेतुभ्यां “ताभ्यां हस्ताभ्यां हे स्तोतः “त्वा त्वाम “उप “स्पृशामसि उपस्पृशामः । इदन्तो मसिः। “त्वा इति पुनरुक्तिः पादपूरणार्था ॥ ॥ २५॥
टिप्पणी
मण्डल १० | ||||
---|---|---|---|---|