ऋग्वेदः सूक्तं १०.६

(ऋग्वेद: सूक्तं १०.६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.५ ऋग्वेदः - मण्डल १०
सूक्तं १०.६
त्रित आप्त्यः
सूक्तं १०.७ →
दे. अग्निः। त्रिष्टुप्

अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ।
ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥१॥
यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृतावाजस्रः ।
आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥२॥
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ ।
आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥३॥
शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति ।
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥४॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् ।
आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥५॥
सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥६॥
अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः ॥७॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

सप्तमस्याष्टकस्येत्थं व्याकार्षीत् पञ्चमं सुधीः ।।

सायणाह्णस्ततः षष्ठमध्यायं व्याचिकीर्षति ॥

दशमे मण्डले प्रथमेऽनुवाके षोडश सूक्तानि । तत्र ‘ अयं स यस्य' इति सप्तर्चं षष्ठं सूक्तमाप्त्यस्य त्रितस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ अयम्' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।


अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ ।

ज्येष्ठे॑भि॒र्यो भा॒नुभि॑रृषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥१

अ॒यम् । सः । यस्य॑ । शर्म॑न् । अवः॑ऽभिः । अ॒ग्नेः । एध॑ते । ज॒रि॒ता । अ॒भिष्टौ॑ ।

ज्येष्ठे॑भिः । यः । भा॒नुऽभिः॑ । ऋ॒षू॒णाम् । प॒रि॒ऽएति॑ । परि॑ऽवीतः । वि॒भाऽवा॑ ॥१

अयम् । सः । यस्य । शर्मन् । अवःऽभिः । अग्नेः । एधते । जरिता । अभिष्टौ ।

ज्येष्ठेभिः । यः । भानुऽभिः । ऋषूणाम् । परिऽएति । परिऽवीतः । विभाऽवा ॥१

“जरिता स्तोता “अभिष्टौ यागे कृते “यस्य “अग्नेः “अवोभिः पालनैः “शर्मन् शर्मणि स्वगृहे “एधते वर्धते “सः “अयम् अग्निर्यागार्थमस्माभिराहूत इति शेषः । “विभावा दीप्तिमान् “यः अग्निः “ऋषूणां सूर्यरश्मीनां “ज्येष्ठेभिः प्रशस्तैः “भानुभिः तेजोभिः “परिवीतः परिवृतः “पर्येति सर्वतो गच्छति । यत्र यत्र गन्तव्यं तत्र तत्राप्रतिहतगतिर्गच्छतीत्यर्थः ।।


यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑रृ॒तावाज॑स्रः ।

आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्तिः॑ ॥२

यः । भा॒नुऽभिः॑ । वि॒भाऽवा॑ । वि॒ऽभाति॑ । अ॒ग्निः । दे॒वेभिः॑ । ऋ॒तऽवा॑ । अज॑स्रः ।

आ । यः । वि॒वाय॑ । स॒ख्या । सखि॑ऽभ्यः । अप॑रिऽह्वृतः । अत्यः॑ । न । सप्तिः॑ ॥२

यः । भानुऽभिः । विभाऽवा । विऽभाति । अग्निः । देवेभिः । ऋतऽवा । अजस्रः ।

आ । यः । विवाय । सख्या । सखिऽभ्यः । अपरिऽह्वृतः । अत्यः । न । सप्तिः ॥२

“ऋतवा सत्यवानुदकवान् यज्ञवान् वा “अजस्रः अनुपक्षीणोऽहिंसितो वा । केनचिदनभिभूत इत्यर्थः । “विभावा दीप्तिमान् “यः अग्निर्देवेभिः देवैर्द्योतमानैः “भानुभिः तेजोभिः “विभाति विविधं दीप्यते किंच “यः अग्निः “सख्या सख्यानि सखिभिः कर्तव्यानि कर्माणि हविरादीनि । कर्तुमिति शेषः । “सखिभ्यः सखिभूतानां यजमानानामर्थाय “अपरिह्वृतः अपरिहिंसितः । अपरिरश्रान्त इत्यर्थः । “आ “विवाय आभिमुख्येन गच्छति । तत्र दृष्टान्तः । “सप्तिः । सदासर्पण इत्यर्थः । “अत्यो “न यथा सततगमनसमर्थोऽश्वोऽपरिश्रान्तो गच्छति तद्वत् । सोऽयमग्निरस्माभिर्यागार्थमाहूत इति पूर्ववद्योज्यम् ॥


ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ ।

आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥३

ईशे॑ । यः । विश्व॑स्याः । दे॒वऽवी॑तेः । ईशे॑ । वि॒श्वऽआ॑युः । उ॒षसः॑ । विऽउ॑ष्टौ ।

आ । यस्मि॑न् । म॒ना । ह॒वींषि॑ । अ॒ग्नौ । अरि॑ष्टऽरथः । स्क॒भ्नाति॑ । शू॒षैः ॥३

ईशे । यः । विश्वस्याः । देवऽवीतेः । ईशे । विश्वऽआयुः । उषसः । विऽउष्टौ ।

आ । यस्मिन् । मना । हवींषि । अग्नौ । अरिष्टऽरथः । स्कभ्नाति । शूषैः ॥३

"यः अग्निः “विश्वस्याः "देववीतेः सर्वस्य यज्ञस्य “ईशे ईष्टे । अपि च “विश्वायुः सर्वत्राप्रतिहतगमनः “उषसो “व्युष्टौ विवासन उदयकाले होमार्थं यजमानानाम् “ईशे ईष्टे । “शूषैः शत्रुबलैः “अरिष्टरथः अहिंसितयज्ञरथः सर्व एव यजमानः “यस्मिन् “अग्नौ “मना मननीयानि “हवींषि “आ “स्कभ्नाति आदरेण प्रतिबध्नाति प्रक्षिपति । सोऽयमग्निरस्माभिर्यागार्थमाहूत इत्यर्थः ॥


शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति ।

म॒न्द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठ॒ः सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥४

शू॒षेभिः॑ । वृ॒धः । जु॒षा॒णः । अ॒र्कैः । दे॒वान् । अच्छ॑ । र॒घु॒ऽपत्वा॑ । जि॒गा॒ति॒ ।

म॒न्द्रः । होता॑ । सः । जु॒ह्वा॑ । यजि॑ष्ठः । सम्ऽमि॑श्लः । अ॒ग्निः । आ । जि॒घ॒र्ति॒ । दे॒वान् ॥४

शूषेभिः । वृधः । जुषाणः । अर्कैः । देवान् । अच्छ । रघुऽपत्वा । जिगाति ।

मन्द्रः । होता । सः । जुह्वा । यजिष्ठः । सम्ऽमिश्लः । अग्निः । आ । जिघर्ति । देवान् ॥४

“वृधः वर्धितोऽग्निः “शूषेभिः हविर्लक्षणैर्बलै:। बलनिमित्तैर्हविर्भिरित्यर्थः । अर्केः स्तोत्रैश्च “जुषाणः सेव्यमानः सन् “देवान् इन्द्रादीन् “अच्छ आप्तुं “रघुपत्वा लघुपतनः शीघ्रगामी “जिगाति गच्छति। गत्वा च “मन्द्रः स्तुत्यः “होता देवानामाह्वाता होमनिष्पादको वा “यजिष्ठः यष्टृतमः “संमिश्लः स्वगुणैर्देवैर्वा संप्रयुक्तः “सः “अग्निः “देवान् प्रति हविः “आ “जिघर्ति आहारयति । देवेभ्यो हविर्ददातीत्यर्थः ॥


तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् ।

आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥५

तम् । उ॒स्राम् । इन्द्र॑म् । न । रेज॑मानम् । अ॒ग्निम् । गीः॒ऽभिः । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।

आ । यम् । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्ति॑ । जा॒तऽवे॑दसम् । जु॒ह्व॑म् । स॒हाना॑म् ॥५

तम् । उस्राम् । इन्द्रम् । न । रेजमानम् । अग्निम् । गीःऽभिः । नमःऽभिः । आ । कृणुध्वम् ।

आ । यम् । विप्रासः । मतिऽभिः । गृणन्ति । जातऽवेदसम् । जुह्वम् । सहानाम् ॥५

हे ऋत्विजो यूयम् “उस्रां भोगानामुत्स्राविणं दातारं “रेजमानं ज्वालात्मना कम्पमानं “तम् “अग्निम् “इन्द्रं “न इन्द्रमिव “गीर्भिः स्तुतिभिः “नमोभिः हविर्भिश्च “आ “कृणुध्वम् । अस्मदभिमुखं कुरुतः। “विप्रासः मेधाविनः स्तोतारः “सहानां शत्रुबलाद्यभिभवितॄणां देवानां जुह्वम् आह्वातारं “जातवेदसं जातधनं जातप्रज्ञं वा “यम् अग्निम् “आ “गृणन्ति आदरेण स्तुवन्ति । तमा कृणुध्वमिति पूर्वेण संबन्धः ॥


सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वा॒ः सप्ती॑वन्त॒ एवैः॑ ।

अ॒स्मे ऊ॒तीरिन्द्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥६

सम् । यस्मि॑न् । विश्वा॑ । वसू॑नि । ज॒ग्मुः । वाजे॑ । न । अश्वाः॑ । सप्ति॑ऽवन्तः । एवैः॑ ।

अ॒स्मे इति॑ । ऊ॒तीः । इन्द्र॑वातऽतमाः । अ॒र्वा॒ची॒नाः । अ॒ग्ने॒ । आ । कृ॒णु॒ष्व॒ ॥६

सम् । यस्मिन् । विश्वा । वसूनि । जग्मुः । वाजे । न । अश्वाः । सप्तिऽवन्तः । एवैः ।

अस्मे इति । ऊतीः । इन्द्रवातऽतमाः । अर्वाचीनाः । अग्ने । आ । कृणुष्व ॥६

हे अग्ने “यस्मिन् स्वयि विश्वानि “वसूनि धनानि “सं “जग्मुः स्वत्वेन संगतानि भवन्ति । तत्र दृष्टान्तः । “एवैः गमनैः “सप्तीवन्तः सर्पणवन्तः शीघ्रगमनसमर्थाः “अश्वाः “वाजे "न यथा संग्रामे संगतास्तद्वत् । हे “अग्ने स त्वम् “इन्द्रवाततमाः इन्द्रेणाभिगताः “ऊतीः रक्षाः “अस्मे अस्मासु “अर्वाचीनाः अभिमुखीः “आ “कृणुष्व आदरेण कुरु ।


अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ ।

तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धन्त प्रथ॒मास॒ ऊमाः॑ ॥७

अध॑ । हि । अ॒ग्ने॒ । म॒ह्ना । नि॒ऽसद्य॑ । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भूथ॑ ।

तम् । ते॒ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् । अध॑ । अ॒व॒र्ध॒न्त॒ । प्र॒थ॒मासः॑ । ऊमाः॑ ॥७

अध । हि । अग्ने । मह्ना । निऽसद्य । सद्यः । जज्ञानः । हव्यः । बभूथ ।

तम् । ते । देवासः । अनु । केतम् । आयन् । अध । अवर्धन्त । प्रथमासः । ऊमाः ॥७

“अध अनन्तरं “हि यस्माद्धे “अग्ने त्वं “मह्ना महत्त्वेन “जज्ञानः जायमानो ज्वलन् “निषद्य उपविश्य “सद्यः तस्मिन् प्रजननकाल एव “हव्यः हवनार्ह आहुतिप्रक्षेपार्हः “बभूथ भवसि तस्मात् कारणात् "देवासः हविषां दातारः ऋत्विग्यजमानाः “ते तव स्वभूतं तं तादृशं “केतं प्रज्ञानलक्षणम् “अनु "आयन् अनुगच्छन्ति । दीप्ते त्वयि हवींषि जुह्वतीत्यर्थः । “अध अनन्तरमृत्विगादयः “प्रथमासः क्रियाभिजनविद्यागुणैरुत्कृष्टाः “ऊमाः त्वया रक्षिताः सन्तः “अवर्धन्त वर्धन्ते ॥ ॥ १ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६&oldid=207986" इत्यस्माद् प्रतिप्राप्तम्