ऋग्वेदः सूक्तं १०.५९

(ऋग्वेद: सूक्तं १०.५९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.५८ ऋग्वेदः - मण्डल १०
सूक्तं १०.५९
बन्धुः श्रुतबन्धुर्विप्रबन्धुर्गोपायनाः
सूक्तं १०.६० →
दे. १-३ निर्ऋतिः, ४ निर्ऋतिः सोमश्च, ५-६ असुनीतिः, ७ पृथिवी-द्व्यन्तरिक्ष-सोम-पूष-पथ्या-स्वस्तयः, ८-१० द्यावापृथिवी, १० (पूर्वार्धस्य) इन्द्र-द्यावापृथिव्यः। त्रिष्टुप्, ८ पङ्क्तिः, ९ महापङ्क्तिः, १० पङ्क्त्युत्तरा


प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य ।
अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम् ॥१॥
सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि ।
ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर्जिहीताम् ॥२॥
अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् ।
ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्जिहीताम् ॥३॥
मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम् ।
द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम् ॥४॥
असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः ।
रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥५॥
असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥६॥
पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् ।
पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥७॥
शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा ।
भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥८॥
अव द्वके अव त्रिका दिवश्चरन्ति भेषजा ।
क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥९॥
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः ।
भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥१०॥


सायणभाष्यम्

'प्र तारि' इति दशर्चं सप्तदशं सूक्तं बन्ध्वादीनां त्रयाणां गौपायनानामार्षम् । आदितः सप्त त्रिष्टुभः। अष्टमी पञ्चाष्टका पङ्क्तिः । नवमी षडष्टका महापङ्क्तिः । दशमी पङ्क्त्युत्तरा । ‘ आद्यौ दशकावष्टकास्त्रयः' (अनु. ९. ११ ) इत्युक्तलक्षणसद्भावात् । एकाक्षराधिक्याद्भूरिग्विशेषणेयं वेदितव्या । सूक्तस्यादितश्चतस्रो देहात्प्राणान्निर्गमयित्र्या निर्ऋतेर्निवृत्यर्थं बन्ध्वादयोऽजपन् । ‘ मो षु णः सोम ' इति चतुर्थ्यामेव मृत्युनिवृत्यर्थं सोममस्तुवन् । अतश्चतसृणां निर्ऋतिर्देवता चतुर्थ्याः सोमश्च । ‘ असुनीते मनः' इति द्वाभ्यामसुनीतिनाम्नीं देवीमस्तुवन् अतस्तयोः सा देवता । ‘ पुनर्नो असुम्' इत्यस्याः पृथिव्याद्या लिङ्गोक्ता देवताः। ततस्तिसृभिः शिष्टाभिः पङ्क्तिमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावापृथिव्याविति द्यावापृथिव्यौ देवते । ‘ समिन्द्र ' इत्यर्धर्चस्येन्द्रो देवता । तथा चानुक्रान्तं -- प्र तारीति दशर्चे चतस्रो निर्ऋत्यपनोदनार्थं जेपुश्चतुर्थ्यां सोमं चास्तुवन्मृत्योरपगमायोत्तराभ्यां दैवीमसुनीतिं सप्तम्यां लिङ्गोक्तदेवताः शिष्टाभिः पङ्क्तिमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावापृथिव्यौ समिन्द्रेतीन्द्रं चार्धर्चेन' इति । गतो विनियोगः ॥


प्र ता॒र्यायु॑ः प्रत॒रं नवी॑य॒ः स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य ।

अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निरृ॑तिर्जिहीताम् ॥१

प्र । ता॒रि॒ । आयुः॑ । प्र॒ऽत॒रम् । नवी॑यः । स्थाता॑राऽइव । क्रतु॑ऽमता । रथ॑स्य ।

अध॑ । च्यवा॑नः । उत् । त॒वी॒ति॒ । अर्थ॑म् । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥१

प्र । तारि । आयुः । प्रऽतरम् । नवीयः । स्थाताराऽइव । क्रतुऽमता । रथस्य ।

अध । च्यवानः । उत् । तवीति । अर्थम् । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥१

सुबन्धोः “आयुः आयुष्यं “प्र “तारि प्रवर्धतां । प्रपूर्वस्तिरतिर्वर्धनार्थः । कथं प्रवर्धतामिति उच्यते। “प्रतरं प्रवृद्धतरं "नवीयः नवतरम् । योवनोपेतमित्यर्थः । निर्ऋत्यनुग्रहादेवमायुर्वर्धताम् । तत्र दृष्टान्तः। “क्रतुमता कर्मवता सारथिना “रथस्य “स्थातारेव रथे स्थिताविव वर्धेते तद्वत् । “अध अथ “च्यवानः जीवितात्प्रच्यवमानः “अर्थं स्वाभिलषितमायुर्लक्षणम् “उत्तवीति वर्धयति । सुबन्धुप्राणापहर्त्री “निर्ऋतिः पापदेवता "परातरम् अत्यन्तं दूरतरं “जिहीतां परित्यजतु गच्छतु ॥


साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि ।

ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीताम् ॥२

साम॑न् । नु । रा॒ये । नि॒धि॒ऽमत् । नु । अन्न॑म् । करा॑महे । सु । पु॒रु॒ध । श्रवां॑सि ।

ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । म॒म॒त्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥२

सामन् । नु । राये । निधिऽमत् । नु । अन्नम् । करामहे । सु । पुरुध । श्रवांसि ।

ता । नः । विश्वानि । जरिता । ममत्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥२

“सामन्नु साम्नि गीयमाने सति । नु चार्थे। “राये जीवायूरूपधनार्थं “निधिमत् निधानवत् “अन्नं हविश्च “करामहे कुर्मः। अत्रापि “नु इति चार्थे। निर्ऋत्यै स्तुतिं हविश्चोभयं कुर्म इत्यर्थः । तदेवाह । “सु सुष्ठु “पुरुध पुरुधा बहुप्रकारं “श्रवांसि अन्नानि हवींषि करामहे । “ता तानि हवींषि “नः अस्माकं संबन्धीनि “विश्वानि सर्वाणि “जरिता जीर्णा स्तुता वा । जरा स्तुतिः' (निरु. १०, ८) । “ममत्तु स्वदताम् । आस्वाद्य च “निर्ऋतिः “परातरम् अत्यन्तं दूरदेशं “जिहीतां गच्छतु ॥


अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् ।

ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीताम् ॥३

अ॒भि । सु । अ॒र्यः । पौंस्यैः॑ । भ॒वे॒म॒ । द्यौः । न । भूमि॑म् । गि॒रयः॑ । न । अज्रा॑न् ।

ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । चि॒के॒त॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥३

अभि । सु । अर्यः । पौंस्यैः । भवेम । द्यौः । न । भूमिम् । गिरयः । न । अज्रान् ।

ता । नः । विश्वानि । जरिता । चिकेत । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥३

वयम् “अर्यः अरीन् शत्रून् “पौंस्यैः पुंस्त्वैः बलैः “सु सुष्ठु “अभि “भवेम। द्यौर्न “भूमिं सूर्यो यथा स्वरश्मिभिर्भूमिमभिभवति तद्वत् । “गिरयो “नाज्रान् । गिरिर्वज्रः । ते यथा अज्रान् अजनशीलान् मेघानभिभवन्ति तद्वत् । “ता तानि यानि “नः अस्माभिः कृतानि स्तोत्राणि तानि “विश्वानि सर्वाणि “जरिता स्तुता सती “निर्ऋतिः “चिकेत जानाति । शिष्टमुक्तम् ॥


मो षु ण॑ः सोम मृ॒त्यवे॒ परा॑ दा॒ः पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।

द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निरृ॑तिर्जिहीताम् ॥४

मो इति॑ । सु । नः॒ । सो॒म॒ । मृ॒त्यवे॑ । परा॑ । दाः॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।

द्युऽभिः॑ । हि॒तः । ज॒रि॒मा । सु । नः॒ । अ॒स्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥४

मो इति । सु । नः । सोम । मृत्यवे । परा । दाः । पश्येम । नु । सूर्यम् । उत्ऽचरन्तम् ।

द्युऽभिः । हितः । जरिमा । सु । नः । अस्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥४

हे “सोम “नः अस्मान् “सु सुष्ठु “मृत्यवे “मो “परा “दाः मैव परादानं कुरु । मृत्य्वधीनान् मा कार्षीः । किंतु “नु इदानीम् “उच्चरन्तम् ऊर्ध्वं गच्छन्तमुदयन्तं “सूर्यं “पश्येम । चिरकालं जीवेमेत्यर्थः । जीवाभावे सूर्यदर्शनासंभवादित्यभिप्रायः। किंच “द्युभिः। अहर्नामैतत् । अहोभिः दिवसैः “हितः प्रेरितः “जरिमा जराभावः “नः अस्माकं "सु सुखकरः “अस्तु । शिष्टमुक्तम् ॥


असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयु॑ः ।

रा॒र॒न्धि न॒ः सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥५

असु॑ऽनीते । मनः॑ । अ॒स्मासु॑ । धा॒र॒य॒ । जी॒वात॑वे । सु । प्र । ति॒र॒ । नः॒ । आयुः॑ ।

र॒र॒न्धि । नः॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । घृ॒तेन॑ । त्वम् । त॒न्व॑म् । व॒र्ध॒य॒स्व॒ ॥५

असुऽनीते । मनः । अस्मासु । धारय । जीवातवे । सु । प्र । तिर । नः । आयुः ।

ररन्धि । नः । सूर्यस्य । सम्ऽदृशि । घृतेन । त्वम् । तन्वम् । वर्धयस्व ॥५

हे "असुनीते मनुष्याणामसूनां नेत्रि देवि “अस्मासु “मनः पुनः “धारय । किंच “जीवातवे जीवितुं “सु “प्र “तिर सुष्ठु वर्धय “नः अस्माकम् “आयुः । किंच “ररन्धि स्थापय “नः अस्मान् “सूर्यस्य “संदृशि चिरसंदर्शने । “त्वं च “घृतेन अस्माभिर्दत्तेन “तन्वं शरीरं “वर्धयस्व वर्धय ॥॥२२॥


असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒ः पुन॑ः प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥६

असु॑ऽनीते । पुनः॑ । अ॒स्मासु॑ । चक्षुः॑ । पुन॒रिति॑ । प्रा॒णम् । इ॒ह । नः॒ । धे॒हि॒ । भोग॑म् ।

ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् । उ॒त्ऽचर॑न्तम् । अनु॑ऽमते । मृ॒ळय॑ । नः॒ । स्व॒स्ति ॥६

असुऽनीते । पुनः । अस्मासु । चक्षुः । पुनरिति । प्राणम् । इह । नः । धेहि । भोगम् ।

ज्योक् । पश्येम । सूर्यम् । उत्ऽचरन्तम् । अनुऽमते । मृळय । नः । स्वस्ति ॥६

हे “असुनीते प्राणदायिनि देवि “अस्मासु । अस्मदीये सुबन्धावित्यर्थः । “पुनः “चक्षुः प्रकाशकं नयनम् । ईक्षणसामर्थ्यमित्यर्थः। किंच “प्राणं “पुनः अस्मासु “धेहि स्थापय । वयं च "ज्योक् चिरम् “उच्चरन्तम् उद्गच्छन्तं “सूर्यं “पश्येम । हे “अनुमते देवि “स्वस्ति अविनाशं यथा स्यात्तथा “नः अस्मान् “मृळय सुखय ॥


पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् ।

पुन॑र्न॒ः सोम॑स्त॒न्वं॑ ददातु॒ पुन॑ः पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥७

पुनः॑ । नः॒ । असु॑म् । पृ॒थि॒वी । द॒दा॒तु॒ । पुनः॑ । द्यौः । दे॒वी । पुनः॑ । अ॒न्तरि॑क्षम् ।

पुनः॑ । नः॒ । सोमः॑ । त॒न्व॑म् । द॒दा॒तु॒ । पुन॒रिति॑ । पू॒षा । प॒थ्या॑म् । या । स्व॒स्तिः ॥७

पुनः । नः । असुम् । पृथिवी । ददातु । पुनः । द्यौः । देवी । पुनः । अन्तरिक्षम् ।

पुनः । नः । सोमः । तन्वम् । ददातु । पुनरिति । पूषा । पथ्याम् । या । स्वस्तिः ॥७

“पृथिवी देवी “नः अस्मभ्यम् "असुं प्राणं “ददातु । “पुनः “द्यौः देवता असुं ददातु। तथा “अन्तरिक्षम् अन्तरिक्षदेवता असुं ददातु। तथा “सोमः “नः “तन्वं शरीरं “पुनः “ददातु। तथा “पूषा पोषाभिमानिनी देवता “पथ्याम् । “ पन्था अन्तरिक्षम्' (निरु. ११.४५)। तत्र भवां वाचम् । वागात्मकः शब्दो ह्याकाशादुपद्यते। तां “पुनः ददातु । “किंच ”या “स्वस्तिः या लोके वेदे च स्वस्तिरुच्यते तामपि पूषा प्रयच्छतु। यद्वा । पूषा पोषं प्रयच्छतु । या स्वस्तिर्वाग्नाम्नी देव्यस्ति सा पथ्यां वाचं प्रयच्छतु । ' वाग्वै पथ्या स्वस्तिः' ( श. ब्रा. ३. २. ३. ८) इति ब्राह्मणम् ॥


शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥८

शम् । रोद॑सी॒ इति॑ । सु॒ऽबन्ध॑वे । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।

भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥८

शम् । रोदसी इति । सुऽबन्धवे । यह्वी इति । ऋतस्य । मातरा ।

भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥८

इदमादिभिस्तिसृभिः द्यावापृथिव्योः स्तुतिः। “रोदसी द्यावापृथिव्यौ “सुबन्धवे “शं सुखं प्रयच्छताम् । कीदृश्यौ ते । “यह्वी महत्यौ “ऋतस्य यज्ञस्योदकस्य वा “मातरा निर्मात्र्यौ । “यद्रपः पापं कृच्छ्रमस्ति तत् “अप “भरताम् अपहरताम् अपनयताम् । हे “द्यौः हे “पृथिवि हे द्यावापृथिव्यौ “क्षमा क्षमायां सत्याम् । यद्वा क्षमा पृथगप्युच्यते । क्षमाप्यपहरतु । एवमुक्त्वा सुबन्धुं बन्ध्वादयो ब्रुवते । हे सुबन्धो “ते त्वां “मो “षु मैव सुष्ठु “किं “चन “रपः कृच्छ्रम् "आममत् हिनस्तु ॥


अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा ।

क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥९

अव॑ । द्व॒के इति॑ । अव॑ । त्रि॒का । दि॒वः । च॒र॒न्ति॒ । भे॒ष॒जा ।

क्ष॒मा । च॒रि॒ष्णु । ए॒क॒कम् । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥९

अव । द्वके इति । अव । त्रिका । दिवः । चरन्ति । भेषजा ।

क्षमा । चरिष्णु । एककम् । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥९

“दिवः द्युलोकात् “भेषजा भेषजानि “द्वके द्विकं “त्रिका त्रिकं च “अव “चरन्ति । अत्राश्विनौ द्विकमवचरतः । इळा सरस्वती भारती त्रिकमवचरन्ति । “क्षमा क्षमायां “चरिष्णु चरति “एककम् एकं भेषजमित्यभिप्रायमाह । तानि सर्वाणि सुबन्धोः प्राणं परिरक्षन्त्विति शेषः ॥


समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अन॑ः ।

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥१०

सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह॑म् । यः । आ । अव॑हत् । उ॒शी॒नरा॑ण्याः । अनः॑ ।

भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥१०

सम् । इन्द्र । ईरय । गाम् । अनड्वाहम् । यः । आ । अवहत् । उशीनराण्याः । अनः ।

भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥१०

हे “इन्द्र “सम् न्वितिईरय संप्रेरय । किम् । “गां गन्तारम् “अनड्वाहम् अनोवहनसमर्थम् । “यः अनड्वान् “आवहत् आवहत्यस्मान्प्रति । किम् । “अनः शकटम् । कस्य । “उशीनराण्याः एतन्नामिकाया ओषधेः । ययार्तमनुलिम्पन्ति सोशीनराणी । भरतामित्यादि गतम् ॥ ॥ २३ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५९&oldid=242088" इत्यस्माद् प्रतिप्राप्तम्