ऋग्वेदः सूक्तं १०.१६७

(ऋग्वेद: सूक्तं १०.१६७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१६६ ऋग्वेदः - मण्डल १०
सूक्तं १०.१६७
विश्वामित्र-जमदग्नी।
सूक्तं १०.१६८ →
दे. इन्द्रः, ३ सोम-वरुण-बृहस्पति- अनुमति-मघवत्- धातृ-विधातारः। जगती।


तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि ।
त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥१॥
स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुताँ उप ।
इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे ॥२॥
सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि ।
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥३॥
प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे ।
सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥४॥


सायणभाष्यम्

‘ तुभ्येदम्' इति चतुर्ऋचं षोडशं सूक्तं विश्वामित्रजमदग्न्योरार्षं जागतमैन्द्रम्। 'सोमस्य राज्ञः' इत्येषा तृतीया वरुणविधात्रनुमतिधातृसोमबृहस्पतीतिलिङ्गोक्तदेवताका। तथा चानुक्रान्तं ‘ तुभ्येदं चतुष्कं विश्वामित्रजमदग्नी जागतं तृतीया लिङ्गोक्तदेवता वा' इति । पक्षे इन्द्र एव देवता अन्ये तु निपातभाज इति वाशब्दस्यार्थः । गतो विनियोगः ॥


तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि ।

त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तप॑ः परि॒तप्या॑जय॒ः स्व॑ः ॥१

तुभ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । सि॒च्य॒ते॒ । मधु॑ । त्वम् । सु॒तस्य॑ । क॒लश॑स्य । रा॒ज॒सि॒ ।

त्वम् । र॒यिम् । पु॒रु॒ऽवीरा॑म् । ऊं॒ इति॑ । नः॒ । कृ॒धि॒ । त्वम् । तपः॑ । प॒रि॒ऽतप्य॑ । अ॒ज॒यः॒ । स्व१॒॑रिति॑ स्वः॑ ॥१

तुभ्य । इदम् । इन्द्र । परि । सिच्यते । मधु । त्वम् । सुतस्य । कलशस्य । राजसि ।

त्वम् । रयिम् । पुरुऽवीराम् । ऊं इति । नः । कृधि । त्वम् । तपः । परिऽतप्य । अजयः । स्वरिति स्वः ॥१

हे “इन्द्र “इदं “मधु सोमलक्षणं तुभ्यं त्वदर्थं “परि “षिच्यते आहवनीये प्रक्षिप्यते । “त्वम् एव "सुतस्य अभिषुतस्य “कलशस्य द्रोणकलशावस्थितस्य सोमस्य “राजसि ईशिषे । राजतिरैश्वर्यकर्मा । सः “त्वं “नः अस्माकं “पुरुवीरां बहुपुत्रं “रयिं धनं “कृधि कुरु । उशब्दः पूरकः । यद्वा अवधारणे । बहुपुत्रोपेतमेव धनं कुरु न केवलमित्यर्थः। तथा “त्वं “तपः शतसंख्याश्वमेधलक्षणं “परितप्य अनुष्ठाय “स्वः स्वर्गम् “अजयः जितवानसि ।।


स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ ।

इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय॑न्तं म॒घवा॑नमीमहे ॥२

स्वः॒ऽजित॑म् । महि॑ । म॒न्दा॒नम् । अन्ध॑सः । हवा॑महे । परि॑ । श॒क्रम् । सु॒तान् । उप॑ ।

इ॒मम् । नः॒ । य॒ज्ञम् । इ॒ह । बो॒धि॒ । आ । ग॒हि॒ । स्पृधः॑ । जय॑न्तम् । म॒घऽवा॑नम् । ई॒म॒हे॒ ॥२

स्वःऽजितम् । महि । मन्दानम् । अन्धसः । हवामहे । परि । शक्रम् । सुतान् । उप ।

इमम् । नः । यज्ञम् । इह । बोधि । आ । गहि । स्पृधः । जयन्तम् । मघऽवानम् । ईमहे ॥२

“स्वर्जितम् उक्तप्रकारेण स्वर्गस्य जेतारं “महि महान्तम् “अन्धसः अन्नस्य सोमस्य पानेन “मन्दानं मोदमानं हृष्यन्तं “शक्रं सर्वकार्येषु शक्तमिन्द्रं “सुतानुप अभिषुतान् सोमान् प्रति “परि “हवामहे । परित आह्वयामहे । हे इन्द्र इत्थमाहूयमानस्त्वं “नः अस्माकम् “इमं “यज्ञम् “इह अस्मिन् देशे “बोधि बुध्यस्व । बुद्ध्वा च “आ “गहि आगच्छ । “स्पृधः स्पर्धमानाः शत्रुसेनाः ”जयन्तम् अभिभवन्तं “मघवानं धनवन्तं त्वाम् “ईमहे । अपेक्षितानि धनानि याचामहे ॥


सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि ।

तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥३

सोम॑स्य । राज्ञः॑ । वरु॑णस्य । धर्म॑णि । बृह॒स्पतेः॑ । अनु॑ऽमत्याः । ऊं॒ इति॑ । शर्म॑णि ।

तव॑ । अ॒हम् । अ॒द्य । म॒घ॒ऽव॒न् । उप॑ऽस्तुतौ । धातः॑ । विधा॑त॒रिति॒ विऽधा॑तः । क॒लशा॑न् । अ॒भ॒क्ष॒य॒म् ॥३

सोमस्य । राज्ञः । वरुणस्य । धर्मणि । बृहस्पतेः । अनुऽमत्याः । ऊं इति । शर्मणि ।

तव । अहम् । अद्य । मघऽवन् । उपऽस्तुतौ । धातः । विधातरिति विऽधातः । कलशान् । अभक्षयम् ॥३

“राज्ञः राजमानस्य “सोमस्य “वरुणस्य च संबन्धिनि “धर्मणि धारके यज्ञे वर्तमानस्तथा "बृहस्पतेरनुमत्याः संबन्धिनि "शर्मणि शरणे यज्ञगृहे वर्तमानः “अहं हे “मघवन् इन्द्र “तव “उप स्तुतौ स्तोत्रे “अद्य इदानीं प्रवृत्तोऽस्मि । हे “धातः हे एतत्संज्ञक देव हे विधातः एतत्संज्ञक देव युवाभ्यामनुज्ञातः “कलशान् कलशस्थान् हुतशिष्टान् सोमान् “अभक्षयं भक्षितवानस्मि ॥


प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे ।

सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥४

प्रऽसू॑तः । भ॒क्षम् । अ॒क॒र॒म् । च॒रौ । अपि॑ । स्तोम॑म् । च॒ । इ॒मम् । प्र॒थ॒मः । सू॒रिः । उत् । मृ॒जे॒ ।

सु॒ते । सा॒तेन॑ । यदि॑ । आ । अग॑मम् । वा॒म् । प्रति॑ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑ । दमे॑ ॥४

प्रऽसूतः । भक्षम् । अकरम् । चरौ । अपि । स्तोमम् । च । इमम् । प्रथमः । सूरिः । उत् । मृजे ।

सुते । सातेन । यदि । आ । अगमम् । वाम् । प्रति । विश्वामित्रजमदग्नी इति । दमे ॥४

हे इन्द्र “प्रसूतः त्वया प्रेरितोऽहं “चरौ चरणीये चरुणा वा युक्ते यज्ञे “भक्षम् “अपि भक्षणीयं चर्वादि हविश्च “अकरं त्वदर्थमकार्षम् । “प्रथमः मुख्यः “सूरिः स्तोताहम् “इमं “स्तोमं स्तोत्रं “च त्वदर्थम् “उन्मृजे उन्मार्ज्मि संस्करोमि । उच्चारयामीत्यर्थः । इदानीमिन्द्रः अन्तरात्मरूपः सन् सूक्तस्य द्रष्टारावृषी संबोध्य बूते । हे “विश्वामित्रजमदग्नी “वां युवां “प्रति “दमे यज्ञगृहे “सुते अभिषुते सोमे सति “सातेन संभक्तव्येन धनेन सार्धं “यदि यदा यस्मिन् कालेऽहम् “आगमम् आगच्छामि तदा युवां स्तोत्रं कुरुतमित्यर्थः ॥ ॥ २५ ॥

टिप्पणी

१०.१६७.१ तुभ्येदमिन्द्र परिषिच्यते इति

महाव्रतप्रकरणे आवपनम् - शांश्रौसू. १८.१७.२


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६७&oldid=322208" इत्यस्माद् प्रतिप्राप्तम्