ऋग्वेदः सूक्तं १०.२७

(ऋग्वेद: सूक्तं १०.२७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.२६ ऋग्वेदः - मण्डल १०
सूक्तं १०.२७
ऐन्द्रो वसुक्रः।
सूक्तं १०.२८ →
दे. इन्द्रः। त्रिष्टुप्


असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् ।
अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥१॥
यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान् ।
अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥२॥
नाहं तं वेद य इति ब्रवीत्यदेवयून्समरणे जघन्वान् ।
यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥३॥
यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् ।
जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य ॥४॥
न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये ।
मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥५॥
दर्शन्न्वत्र शृतपाँ अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान् ।
घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः ॥६॥
अभूर्वौक्षीर्व्यु आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् ।
द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥७॥
गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः ।
हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते ॥८॥
सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः ।
अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥९॥
अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि ।
स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः ॥१०॥
यस्यानक्षा दुहिता जात्वास कस्तां विद्वाँ अभि मन्याते अन्धाम् ।
कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात् ॥११॥
कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण ।
भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥१२॥
पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् ।
आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम् ॥१३॥
बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः ।
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ॥१४॥
सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते ।
नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः ॥१५॥
दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय ।
गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥१६॥
पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् ।
द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥१७॥
वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः ।
अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः ॥१८॥
अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् ।
सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥१९॥
एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि ।
आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥२०॥
अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् ।
श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥२१॥
वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः ।
अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत् ॥२२॥
देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन् ।
त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥२३॥
सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये ।
आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥२४॥

सायणभाष्यम्

‘असत्सु मे ' इति चतुर्विंशत्यृचमेकादशं सूक्तमिन्द्रपुत्रस्य वसुक्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम्-- असत्सु चतुर्विंशतिरैन्द्रो वसुक्रः' इति । महाव्रते मरुत्वतीयशस्र एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं च--- असत्सु मे जरितः साभिवेगः पिबा सोममभि यमुग्र तर्दः' (ऐ. आ. ५. १, १) इति ॥ अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्षं॑ ।


अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् ।

अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥ १०.०२७.०१

अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥१

असत् । सु । मे । जरितरिति । सः । अभिऽवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् ।

अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥१

वासुक्रेषु सूक्तेषु बाहुल्येनेन्द्रः स्तूयते । इदानीमिन्द्रो वसुक्रं स्तोतुमुद्यतं पुत्रं संबोध्य स्वसामर्थ्यं कथयति येन विज्ञातदेवतारूपः सन् सुखेन स्तोष्यतीति । यद्वा । कार्यकारणयोरेकत्वोपचारात् “ आत्मा वै पुत्रनामासि' (आश्व. गृ. १.१५.११ ) इति वचनादिन्द्ररूपेणावस्थितो वसुक्र आत्मानं स्तौति । क्वचित् क्वचिदिन्द्रं चेति । हे "जरितः स्तोतः "मे मम "सु शोभनः "सः तादृशः "अभिवेगः अभिगमनं मनसो वृत्तिविशेषः "असत् अस्ति विद्यते । "यत् येन अभिवेगेन “सुन्वते मदर्थं सोमाभिषवं कुर्वते "यजमानाय यज्वने "शिक्षम् अभिलषितमर्थं ददामि । किंच “अहम् अनाशीर्दाम् । आशीरन्यत्र प्रार्थना इह तु सामर्थ्यात् प्रार्थितं हविरुच्यते । तन्मह्यमददतं जनम् । यद्वा । आशीरिति सोमाश्रयणं दध्युच्यते । तस्यादातारम् । असोमयाजिनमित्यर्थः। “प्रहन्ता "अस्मि प्रकर्षेण हिंसिता भवामि । कीदृशम् । "सत्यध्वृतं सत्यस्य हिंसकम् । अनृतवादिनं चेत्यर्थः । "वृजिनायन्तं पापं कर्तुमिच्छन्तम् “आभुं व्याप्नुवन्तम् ॥


यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयूंत॒न्वा॒३॒॑ शूशु॑जानान् ।

अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं पं॑चद॒शं नि षिं॑चं ॥२

यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् ।

अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥२

यदि । इत् । अहम् । युधये । सम्ऽनयानि । अदेवऽयून् । तन्वा । शूशुजानान् ।

अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥२

"यत् यदा "अहमित् अहमेव "युधये युद्धार्थम् "अदेवयून् देवान् यष्टुमनिच्छतोऽयज्वनः "संनयानि संगमयामि। कीदृशान् । "तन्वा स्वशरीरेण "शूशुजानान् आत्मंभरित्वात्पुष्टिलक्षणया दीप्त्या युक्तान् । पुष्टानित्यर्थः । तदा हे इन्द्र अहम् “अमा ऋत्विगादिभिः सहितः "ते तुभ्यं "तुम्रं प्रेरकं बलिनम् । पीवानमित्यर्थः । "वृषभं सेचनसमर्थं पुंपशुं “पचानि । किंच "तीव्रं मदकररस "सुतम् अभिषुतं "पञ्चदशम् । प्रतिपत्प्रभृति पञ्चदशसंख्याकासु तिथिषु शुक्लपक्ष एकोत्तरवृद्ध्या पर्णानि जायन्ते । कृष्णपक्षे तु तद्वन्निहीयन्ते । एवंभूतत्वात्पञ्चदशः सोम उच्यते । तम् । यद्वा । त्रिवृत्पञ्चदशस्तोमोपेतं माध्यंदिनसवनकमित्यर्थः । “नि “षिञ्च दशापवित्रे द्रोणकलशे चमसपात्रेऽग्नौ वा सिञ्चामि प्रक्षिपामीत्यर्थः ॥


नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् ।

य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वंति ॥३

न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् ।

य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥३

न । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवऽयून् । सम्ऽअरणे । जघन्वान् ।

यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥३

“यः जनः “अदेवयून देवानकामयमानान् देवद्विषो राक्षसादीन् "समरणे संग्रामे “जघन्वान् अहं हतवान् “इति “ब्रवीति वदति “तं तादृशं मद्व्यतिरिक्तं जनम् “अहं “न “वेद न जानामि । मत्तोऽन्यः संग्रामे शत्रूणां हन्ता नास्तीत्यर्थः । किंच "यदा यस्मिन्काले “समरणं संग्रामम् “अवाख्यत् अवाकृतं न्यक्कृतमहं पश्यामि । कीदृशम् । “ऋघावत् ऋघावन्तं परस्परं हिंसायुक्तम् । अत्यन्तक्रूरमित्यर्थः । “आत् तदानीं “मे मम स्वभूतानि “वृषभा वृषभकर्माणि दर्पितवृषभस्येव विक्रान्तकर्माणि “प्र “ब्रुवन्ति । विद्वज्जना इति शेषः । “इद्ध इतीमौ पदपूरणौ ॥


यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।

जि॒नामि॒ वेत्क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥ १०.०२७.०४

यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।

जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥४

यत् । अज्ञातेषु । वृजनेषु । आसम् । विश्वे । सतः । मघऽवानः । मे । आसन् ।

जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादऽगृह्य ॥४

“यत् यदा "अज्ञातेषु शरीरशस्त्रास्त्रबलादिभिरपरिज्ञातेषु “वृजनेषु संग्रामेषु “आसम् अहं युद्धार्थमुपविशामि तदा “विश्वे सर्वे मघवानः हविर्लक्षणतपोलक्षणधनवन्त ऋषयः “सतः एवं वर्तमानस्य “मे ममेन्द्रस्य समीपे “आसन् उपविशन्ति । मम वीर्यवृद्ध्यर्थं मां स्तुवन्तस्तिष्ठन्तीत्यर्थः । अपि च “क्षेमे जगत्पालने निमित्ते “आ सन्तम् । आकारोऽभीत्यस्यार्थे वर्तते । सर्वमभिभवन्तम् “आभुं महान्तं शत्रुं “जिनामि “वा विनाशयाम्येव । नात्र विनाशे संशयः । “इत् इति पूरणः । “तं महान्तं शत्रुं “पादगृह्य पादौ गृहीत्वा पर्वते गिरौ “प्र “क्षिणां प्रहिनस्मि प्रक्षिपामि ॥


न वा उ॒ मां वृ॒जने॑ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये ।

मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे॑जात् ॥ १०.०२७.०५

न । वै । ऊं॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये ।

मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥५

न । वै । ऊं इति । माम् । वृजने । वारयन्ते । न । पर्वतासः । यत् । अहम् । मनस्ये ।

मम । स्वनात् । कृधुऽकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥५

“वै "उ इत्येवैव । "वृजने संग्रामे "मां युद्धार्थमुपस्थितं सन्तं "न वारयन्ते केचिन्निवारयितुं समर्था न भवन्ति । "अहं "यत् कर्म "मनस्ये मनसा कर्तुमिच्छामि “पर्वतासः अवितरणक्षमा हिमवदादयो गिरयस्तत्कर्म मनसा प्रोढुं "न शक्नुवन्तीत्यर्थः। किंच “मम इन्द्रस्य स्वनात् शब्दादेव “कृधुकर्णः नामासुरः यद्वा "कृधुकर्णो ह्रस्वकर्णो मन्दश्रवणेन्द्रियो बधिरः स्थावरपिपीलिकादिरपि “भयाते बिभेति । अपि च "एवेत् एवमेव कृधुकर्णवत् "अनु “द्यून् प्रतिदिनमित्यर्थः । "किरणः । अन्तर्णीतमत्वर्थमेतत् । किरणवान् रश्मिवानादित्यः “समेजात् सम्यक्कम्पयते चलति । नियमेन प्रयातीत्यर्थः ॥ ॥ १५ ॥


दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑नि॒न्द्रान्बा॑हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् ।

घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥ १०.०२७.०६

दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् ।

घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊं॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥६

दर्शन् । नु । अत्र । शृतऽपान् । अनिन्द्रान् । बाहुऽक्षदः । शरवे । पत्यमानान् ।

घृषुम् । वा । ये । निनिदुः । सखायम् । अधि । ऊं इति । नु । एषु । पवयः । ववृत्युः ॥६

“अत्र अस्मिञ्जगति “शृतपान् शृतानि पक्वानि सोमादिहवींष्यपहृत्य पिबतः "अनिन्द्रान् इन्द्रेण मया वर्जितान् "बाहुक्षदः बहुभिर्यजमानान्शकलीकुर्वतः "शरवे हिंसार्थं "पत्यमानान् अभिपततोऽसुरादीन् "नु क्षिप्रं "दर्शन् अहमिन्द्रः पश्यामि । एवंभूतेषु “एषु "अधि उपरि "पवयः मदीयान्यायुधानि “ववृत्युः वर्तन्ते । वाशब्दः समुच्चये । “घृषुं महान्तं च "सखायं सखिवत्प्रियं हितस्य कर्तारं मां “ये "निनिदुः निन्दन्ति । "उ इति समुच्चये। एषु चोपरि मदीयान्यायुधानि क्षिप्रं वर्तन्ते ॥


अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् ।

द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥७

अभूः॑ । ऊं॒ इति॑ । औक्षीः॑ । वि । ऊं॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् ।

द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥७

अभूः । ऊं इति । औक्षीः । वि । ऊं इति । आयुः । आनट् । दर्षत् । नु । पूर्वः । अपरः । नु । दर्षत् ।

द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥७

अत्र मध्यमपुरुषेणेन्द्रस्योच्यमानत्वाद्वसुक्र इन्दं स्तौति । “उ इत्यवधारणे । हे इन्द्र “अभूः त्वमेव प्रादुर्भवसि । "औक्षीः काले काले त्वमेव पृथिवीं सिञ्चसि नान्य इत्यर्थः। आनडित्यादौ सर्वत्र परोक्षनिर्देशे प्रत्यक्षीकरणार्थं मध्यमपुरुषेण प्रकृतत्वादेकवाक्यतायै युष्मच्छब्दसमानार्थो भवच्छब्दोऽध्याहर्तव्यः । "वि इति वैविध्ये। उ इति चार्थे। आयुर्जीवितमुच्यते । इन्द्रो भवान् विविधम् "आयुः च "आनट् व्याप्नोति । आ भूतसंप्लवाज्जीवतीत्यर्थः । किंच “पूर्वः पुरातनो भवानिन्द्रः "नु क्षिप्रं "दर्षत् । ‘दृ विदारणे'। सिब्बहुलं लेटि'। वज्रेण शत्रून् विदारयति । "अपरः अन्यः शत्रुः “नु "दर्षत् । नु इति निषेधार्थे । भवन्तमिन्द्रं न विदारयति । भवानेव सर्वं शत्रुजातं हिनस्तीत्यर्थः । अपि च "यः भवानिन्द्रः "अस्य ईदृशस्य "रजसः लोकस्य । त्रैलोक्यस्येत्यर्थः । “पारे परतः । परमसूक्ष्मवायुरूपेण सृष्टिकारणात्मना स्थित्वेति शेषः । विवेष सर्वतो व्याप्नोति “तं भवन्तमिन्द्रं “द्वे इति सामर्थ्यात् द्यावापृथिव्यौ “न “परि “भूतः न परिभवतः । अभिभवितुं न शक्नुत इत्यर्थः । कीदृश्यौ । “पवस्ते। पवतिर्गतिकर्मा । अस्मादौणादिकोऽस्तप्रत्ययः । अतः ‘अजाद्यतष्टाप्' (पा. सू. ४. १. ४) इति टापि कृते प्रथमाद्विवचने चैतद्रूपं भवति । महत्त्वेन सर्वस्याभिभवनाय गच्छन्त्यौ।


गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः ।

हवा॒ इद॒र्यो अ॒भितः॒ समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥ १०.०२७.०८

गावः॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः ।

हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥८

गावः । यवम् । प्रऽयुताः । अर्यः । अक्षन् । ताः । अपश्यम् । सहऽगोपाः । चरन्तीः ।

हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वऽपतिः । छन्दयाते ॥८

“गावः धेनवः “प्रयुताः प्रकर्षेण मिश्रिताः परस्परेण सह भूताः “यवं मद्वष्टिजनितयवादिघासम् "अक्षन् अदन्ति भक्षयन्ति । "अर्यः सर्वस्य स्वाम्यहं “ताः गाः “अपश्यं पश्यामि । कीदृशीः । "सहगोपाः पशुपालकेन सहिताः “चरन्तीः घासं भक्षयन्तीः । एवंभूतास्ताः परया प्रीत्या पश्यामीत्यर्थः। किंच “हवाः वाहनदोहनार्थमाह्वानार्हा गावः "अर्यः । द्वितीयार्थे प्रथमा । अर्यं स्वामिनं प्रति "अभितः सर्वतः समायन् । समित्येकीभावे । एकीभूयागच्छन्ति । “इदिति पूरणः । आगतासु "आसु गोषु "स्वपतिः स्वानां गवां स्वामी “कियत् क्षीरं "छन्दयाते दोग्धुं कामयते । मदर्थं दोग्धीत्यर्थः । ‘गाव आशिरं दुदुहे' (ऋ. सं. ८. ६९. ६) इति वचनात् ॥


सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अ॒न्तः ।

अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥ १०.०२७.०९

सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ ।

अत्र॑ । यु॒क्तः । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥९

सम् । यत् । वयम् । यवसऽअदः । जनानाम् । अहम् । यवऽअदः । उरुऽअज्रे । अन्तरिति ।

अत्र । युक्तः । अवऽसातारम् । इच्छात् । अथो इति । अयुक्तम् । युनजत् । ववन्वान् ॥९

अनया ऋषिरिंद्रप्रसादलब्धं स्वस्य सार्वात्म्यं प्रकाशयति । जनानां लोकानां मध्ये ये यवसादः तृणस्यात्तारः पशवः ते वयमिति सं सम्यक् जानीहि। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । ये च यवादः यवोपलक्षितस्यान्नस्य अत्तारो मनुष्यास्तेपि वयमिति संजानीहि । वस्तुतस्तु उर्वज्रे विस्तीर्णे अजिरेंगणे हार्दाकाशरूपे यत् अंतः अंतर्यामिरूपं ब्रह्म तदहमस्मि । अत्रास्मिन् हार्दाकाशे युक्तः समाहितो भवानिंद्रः अवसातारं आत्मनः संभक्तारं इच्छात् इच्छति आत्मसाक्षात्कर्तुं। अथो अपि च अयुक्तं अयोगिनं ववन्वान् । द्वितीयार्थे प्रथमा । ववन्वंतं अतिशयेन विषयान् सेवमानं पुरुषं युनजत् युनक्ति संसारे । शापानुग्रहसमर्थो भवद्रूपोहमेवास्मीति भावः ।


अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ ।

स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ॥१०

अत्र॑ । इत् । ऊं॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ ।

स्त्री॒भिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥१०

अत्र । इत् । ऊं इति । मे । मंससे । सत्यम् । उक्तम् । द्विऽपात् । च । यत् । चतुःऽपात् । सम्ऽसृजानि ।

स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥१०

“मे मम "अत्र अस्मिन् स्तोत्रे "उक्तं मया कथितं "सत्यमित् यथाभूतमेव "मंससे त्वं जानीहि । अर्थवादरूपेण नैतदध्यारोपितगुणमित्यर्थः। “उ इति पूरणः । किंच "द्विपाच्च मनुष्यादिकं च “चतुष्पात् च पश्वादिकं च "यत् स्थावरजङ्गमात्मकं जगत् "संसृजानि अहमुत्पादयनीति त्वं जानीहि । “अत्र अस्मिञ्जगति "स्त्रीभिः स्त्रीसदृशैः बलादिहीनैः पुरुषैः सह "यः शूरंमन्यो जनः "वृषणम् अभिलषितस्य वर्षितारं माम् । परित्यज्येति शेषः । "पृतन्यात् युद्धं कर्तुमिच्छति अहम् "अस्य ईदृशस्य स्वभूतं "वेदः धनम् "अयुद्धः तेन पुरुषेणायोद्धा सन् बलादपहृत्य "वि "भजानि स्तोतृभ्यो यष्टृभ्यश्च ददामीत्यर्थः ॥ ॥ १६ ॥


यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अ॒न्धाम् ।

क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥ १०.०२७.११

यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।

क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥११

यस्य । अनक्षा । दुहिता । जातु । आस । कः । ताम् । विद्वान् । अभि । मन्याते । अन्धाम् ।

कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेऽयात् ॥११

“यस्य इन्द्रस्य मम कारणरूपेणावस्थितस्य "अनक्षा अक्षिवर्जिता दर्शनहीना । अचेतनेत्यर्थः। “दुहिता प्रकृत्याख्या "जातु कदाचित् "आस । असतेर्गत्यर्थस्य लिटि रूपम् । सामर्थ्यात् महाप्रलये मय्येव लीना सती सर्वत्र वर्तते “तां प्रकृतिं "विद्वान् मय्येव लीनां जानन् मत्तोऽन्यो देवः "कः भवति । न कोऽपीत्यर्थः । अपि च “अन्धा दर्शनहीनामचेतनां ताम् "अभि “मन्याते आत्मन्याश्रयप्रदानेन को देवोऽभिपूजयति । यद्वा । क्षीरोदकवत् घटाकाशवच्च मया सहैकीभूतां तामाभिमुख्येन को जानाति । अहमेव सर्वज्ञः स्वात्मन्याश्रयप्रदानेनाभिपूजयामि । मया सहैकीभूतां तां तत्त्वतोऽहमेव जानामि नान्य इति । किंच "कतरः देवः “मेनिं वज्रं "तं प्रसिद्धं वृत्रादिशत्रुं "प्रति “मुचाते मुञ्चति । स्वयमेव प्रश्नमुत्थाप्येदानीं प्रतिब्रूते । "यः देवः "ईम एनं शत्रुं "वहाते वहति । अपि "वा यः “ईम् एनं “वरेयात् वरयितुमिच्छति । स चाहमेव नान्यो मत्सदृशोऽस्तीत्यर्थः ॥


किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण ।

भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः॑ स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥१२

किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण ।

भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ । जने॑ । चि॒त् ॥१२

कियती । योषा । मर्यतः । वधूऽयोः । परिऽप्रीता । पन्यसा । वार्येण ।

भद्रा । वधूः । भवति । यत् । सुऽपेशाः । स्वयम् । सा । मित्रम् । वनुते । जने । चित् ॥१२

“कियती किंपरिमाणा “योषा स्त्रीजातिः "मर्यतः मनुष्यसंबन्धिनो भोगानाचरतः "वधूयोः स्त्रीकामस्य सर्वात्मकस्यान्तर्यामिरूपेणावस्थितस्येन्द्रस्य “परिप्रीता अनुरक्ता। वशवर्तिनीत्यर्थः । कीदृशस्य । “वार्येण वरणीयेन "पन्यसा स्तोत्रेण स्तुतस्य सत इति शेषः । अपि च "यत् या "वधूः "भद्रा कल्याणी "सुपेशाः शोभनरूपा च "भवति “सा द्रौपदीदमयन्त्यादिका वधूः "स्वयम् आत्मनैव “जने "चित् जनमध्येऽवस्थितमिति “मित्रं प्रियमर्जुननलादिकं पतिं "वनुते याचते । स्वयंवरधर्मेण प्रार्थयते । स च प्रीयमाणो वरजनोऽहमेवेत्यभिप्रायः । ‘रूपंरूपं प्रतिरूपो बभूव' ( ऋ. सं. ६. ४७. १८) इति मन्त्रलिङ्गात्सर्वात्मकत्वादिति ॥


प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू॑थम् ।

आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमि॑म् ॥ १०.०२७.१३

प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् ।

आसी॑नः । ऊ॒र्ध्वाम् । उ॒पसि॑ । क्षि॒णा॒ति॒ । न्य॑ङ् । उ॒त्ता॒नाम् । अनु॑ । ए॒ति॒ । भूमि॑म् ॥१३

पत्तः । जगार । प्रत्यञ्चम् । अत्ति । शीर्ष्णा । शिरः । प्रति । दधौ । वरूथम् ।

आसीनः । ऊर्ध्वाम् । उपसि । क्षिणाति । न्यङ् । उत्तानाम् । अनु । एति । भूमिम् ॥१३

अत्रादित्यात्मनेन्द्रः स्तूयते तदंशत्वात् । आदित्यरूपीन्द्रः “पत्तः रश्म्याख्यैः पादैः "जगार वृष्टिलक्षणमुदकं गिरति गृह्णाति वा । गृहीत्वा च "प्रत्यञ्चम् आत्मानं प्रतिगतमुदकम् "अत्ति भक्षयति । मण्डलेऽवस्थापयतीत्यर्थः । तदनन्तरं "वरूथं वरणीयं वृष्टिलक्षणमुदकं “शीर्ष्णा शिरःस्थानीयेन रश्मिजालेन “शिरः सर्वस्य लोकस्य मस्तकं “प्रति “दधौ दधाति । प्रतिक्षिपतीत्यर्थः । किंच “उपसि उपस्थे स्वसमीपस्थाने मण्डले “आसीनः उपविष्टः सन् “ऊर्ध्वाम् उद्गतां स्वदीप्तिं “क्षिणाति हिनस्ति । आलोककरणाय प्रक्षिपतीत्यर्थः । "न्यङ् रश्मिसमूहरूपेण नीचैरञ्चिता गन्ता सन् “उत्तानां विस्तृतां "भूमिम् "अन्वेति अनुगच्छति ।।


बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ ।

अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ॥१४

बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ ।

अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥१४

बृहन् । अच्छायः । अपलाशः । अर्वा । तस्थौ । माता । विऽसितः । अत्ति । गर्भः ।

अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ॥१४

वसुक्रोऽनयादित्यात्मानमिन्द्रं स्तौति। "बृहन् महानादित्यः "अच्छायः छायावर्जितः । तमोरहित इत्यर्थः। “अपलाशः पर्णरहितः पराशदनवर्जितः । विनाशरहित इत्यर्थः । "अर्वा सततगामी “तस्थौ तिष्ठति । किंच “माता वृष्टिप्रदानद्वारेण सर्वस्य जगतो निर्माता "विषितः विमुक्तः । निलम्बन इत्यर्थः । “गर्भः त्रैलोक्यस्य गर्भभूत आदित्यात्मेन्द्रः “अत्ति हवींषि भक्षयति । यद्वा । अनेन विनाशनं लक्ष्यते । पापानि नाशयति । किंच अन्यस्याः अदित्याख्याया देवमातुः "वत्सम् अपत्यभूतमादित्यं “रिहती आस्वादयन्ती उपजीवन्ती वर्धयन्ती “मिमाय निर्मिमीते । पूर्वस्यां दिश्यहन्यहन्युत्पादयन्तीत्यर्थः। "कया “भुवा केन भावेनाभिप्रायेण । भक्त्या भयेन वेत्यर्थः। “धेनुः द्यौरुदकस्याधारत्वात् क्षरितृत्वाच्च ऊधःस्थानीयमादित्यं "नि “दधे स्थापयति । यद्वा । धेनुर्गौरूधो यथा तद्वदादित्यं द्यौर्धारयति ।।


स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते ।

नव॑ प॒श्चाता॑त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्नः॑ ॥ १०.०२७.१५

स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते ।

नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥१५

सप्त । वीरासः । अधरात् । उत् । आयन् । अष्ट । उत्तरात्तात् । सम् । अजग्मिरन् । ते ।

नव । पश्चातात् । स्थिविऽमन्तः । आयन् । दश । प्राक् । सानु । वि । तिरन्ति । अश्नः ॥१५

अनयेन्द्रः प्रजापतिरूपेण स्तूयते । "सप्त सप्तसंख्याकाः "वीरासः प्रजापतेः पुत्रा विश्वामित्रादयः "अधरात् प्रजापतेरधःकायात् "उदायन् उत्पन्ना बभूवुः । "अष्ट अष्टसंख्याकाः "ते प्रसिद्धा वालखिल्यादयः "उत्तरात्तात् उत्तरात्कायप्रदेशात् "समजग्मिरन् संजज्ञिरे । "स्थिविमन्तः स्थानवन्तः “नव नवसंख्याका भृगवः "पश्चातात् पृष्ठतः “आयन् आगताः। उत्पन्ना इत्यर्थः। तथा "दश दशसंख्याका अङ्गिरसः "प्राक् अग्रत उत्पन्नाः सन्तः "अश्नः अशनवतो द्युलोकस्य “सानु उन्नतप्रदेशं “वि “तिरन्ति वर्धयन्ति । अपर आह । सप्तसंख्योपेता वीरा मरुतोऽधरादिन्द्रस्य दक्षिणभागादुदगमन् । अष्टसंख्याकास्ते मरुत उत्तरभागात् संगच्छन्ते । स्थानवन्तो नवसंख्याकास्ते मरुतः पृष्ठभागादागच्छन्ति । दशसंख्याकास्तेऽश्नोऽशनवत इन्द्रस्य प्राक्प्रदेशे स्थिताः समुच्छ्रितमुदकं तेजो वा “वि “तिरन्ति । मरुतः प्रतिदिशमवस्थायेन्द्रस्य साहाय्यं कुर्वन्तीत्यर्थः ॥ ॥ १७ ॥


द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वन्ति॒ क्रत॑वे॒ पार्या॑य ।

गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नन्तं तु॒षय॑न्ती बिभर्ति ॥ १०.०२७.१६

द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य ।

गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥१६

दशानाम् । एकम् । कपिलम् । समानम् । तम् । हिन्वन्ति । क्रतवे । पार्याय ।

गर्भम् । माता । सुऽधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥१६

"दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये "एकं मुख्यं "कपिलम् एतन्नामानं "तं प्रसिद्धमृषिम् । कीदृशम् । "समानं सदृशम् । केन । सामर्थ्यात् प्रजापतिना। "हिन्वन्ति अवशिष्टा अङ्गिरसः प्रेरयन्ति । किमर्थम् । "क्रतवे यज्ञादिजगत्प्रवर्तनकर्मणे । यद्वा । सम्यग्ज्ञानलक्षणप्रज्ञानाय । कीदृशाय । "पार्याय परिसमापयितव्याय प्रणेतव्याय वा । यज्ञादिकर्मोपदेशनायेत्यर्थः । "माता प्रकृत्याख्या च "वक्षणासु। वक्षणा इति नद्य उच्यन्ते । ताभिश्चात्रापो लक्ष्यन्ते । प्रकृतिस्थासु सूक्ष्मास्वप्सु "सुधितं सुहितम् । प्रजापतिना स्थापितमित्यर्थः । "अवेनन्तम् । वेनतिः कान्तिकर्मा । तत्र निवासमकामयमानं तादृशं प्रजापतेः "गर्भं "तुषयन्ती तुष्यन्ती सम्यग्ज्ञानादुपदेष्टुं योग्योऽयमिति प्रीता सती “बिभर्ति प्रजापतेर्नियोगाद्धारयति ।।


पीवा॑नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् ।

द्वा धनुं॑ बृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता॑ ॥ १०.०२७.१७

पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् ।

द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥१७

पीवानम् । मेषम् । अपचन्त । वीराः । निऽउप्ताः । अक्षाः । अनु । दीवे । आसन् ।

द्वा । धनुम् । बृहतीम् । अप्ऽसु । अन्तरिति । पवित्रऽवन्ता । चरतः । पुनन्ता ॥१७

“वीराः प्रजापतेः पुत्रा अङ्गिरसः "पीवानं स्थूलम् । मेदोमांसादियुक्तमित्यर्थः। "मेषम् अजम् “अपचन्त प्रजापतिरूपस्येन्द्रस्यार्थाय पक्ववन्तोऽभवन् । पशुयागं कुर्वन्त इत्यर्थः । किंच। लुप्तोपममेतत् । यथा देवानाम् "अक्षाः “दीवे देवने रमणस्थाने “न्युप्ताः निक्षिप्ताः सन्तः "अनु “आसन् संक्रीडमानयोर्द्वयोरेकतरस्यानुगता भवन्ति तथा सर्वेऽङ्गिरसः प्रजापतेरनुगता भवन्ति। “द्वा अङ्गिरसां मध्ये द्वावङ्गिरसौ “धनुम् । धनुशब्दोऽत्र धनुःशब्दपर्यायो धनशब्दपर्यायो वा । धनुर्यथा वधसाधनं तथाज्ञानादिवधसाधनं धनवत्प्रीतिकरं वा। कपिलमित्यर्थः । "बृहतीं प्रजापतेराज्ञया वर्धयित्रीं प्रकृतिम् "अप्स्वन्तः प्रकृतिस्थानां सूक्ष्मणामुदकानां मध्ये "चरतः प्रजापत्यादेशादाराधयतः। कीदृशौ । "पवित्रवन्ता पवित्रवन्तौ । मन्त्रः पवित्रमुच्यते । ध्यानसाधनप्रणवमन्त्रवन्तौ "पुनन्ता शुद्धौ। प्रणवध्यानेनात्मानं संस्कुर्वन्तावित्यर्थः ॥


वि क्रो॑श॒नासो॒ विष्व॑ञ्च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।

अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥ १०.०२७.१८

वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।

अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥१८

वि । क्रोशनासः । विष्वञ्चः । आयन् । पचाति । नेमः । नहि । पक्षत् । अर्धः ।

अयम् । मे । देवः । सविता । तत् । आह । द्रुऽअन्नः । इत् । वनवत् । सर्पिःऽअन्नः ॥१८

“वि “क्रोशनासः विविधं प्रजापतिं पितरमाह्वयन्तः “विष्वञ्चः नानागतयो नानापूजना वा सर्वेऽङ्गिरसः "आयन् आगच्छन् । प्रजापतेः सकाशादुत्पन्ना इत्यर्थः । उत्पद्यमानः “नेमः अर्धोऽङ्गिरसां मध्य एको भागः "पचाति प्रजापत्यर्थं हवींषि पचति । “अर्धः अपरो भागः “नहि "पक्षत् नहि पचति । एतत्सर्वं कथमज्ञायि उच्यते । “अयम् ईदृशः “देवः द्योतमानः “सविता सर्वस्य प्रेरक आदित्यो वा प्रजापतिर्वा “मे मह्यं “तत् सर्वं यथोक्तम् “आह । किंच “सर्पिरन्नः घृतौदनः “द्रन्न “इत् दार्वोदनः अग्निरपि “वनवत् हविर्द्वारेण प्रजापतिं वनति संभजते ॥


अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानम् ।

सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥ १०.०२७.१९

अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् ।

सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥१९

अपश्यम् । ग्रामम् । वहमानम् । आरात् । अचक्रया । स्वधया । वर्तमानम् ।

सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रऽमिनानः । नवीयान् ॥१९

“अपश्यं वसुक्रोऽहं प्रजापतिरूपमिन्द्रं सम्यग्ज्ञानेन दृष्टवानस्मि । कीदृशम् । “ग्रामं भूतसंघं “वहमानं वाहयन्तम् । सृजन्तमित्यर्थः । कुतः । “आरात् दूरात् । उपादानकारणात्प्रकृतित इत्यर्थः ।। “अचक्रया चक्रवर्जितया रथहीनया “स्वधया स्वयमात्मानं धारयन्त्या सेनया “वर्तमानम् आगच्छन्तम् । एवंभूतमपश्यमित्यर्थः । किंच “अर्यः सर्वस्य स्वामीन्द्रः "जनानां यजमानानां कार्यत्वेन संबन्धिनः "युगा युगानि यज्ञकालविशेषान् “प्र “सिषक्ति प्रकर्षेण सेवते । कीदृशः । “सद्यः तदानीमैव “शिश्ना शिश्नानि । ‘शिश्नं श्नथतेः ' ( निरु. ४. १९) इति निर्वचनात् श्नथितॄणि ताडयितॄणि राक्षसादिवृन्दानि “प्रमिनानः प्रकर्षेण हिंसन् "नवीयान् शरीरेण च बलपौरुषनयनादिभिश्च नवतरः ॥


ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि ।

आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥ १०.०२७.२०

ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।

आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥२०

एतौ । मे । गावौ । प्रऽमरस्य । युक्तौ । मो इति । सु । प्र । सेधीः । मुहुः । इत् । ममन्धि ।

आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥२०

कार्यकारणयोरभेदोपचारात् ‘आत्मा वै पुत्रनामासि' ( आश्व. गृ. १.१५.११) इति वचनाच्चेन्द्ररूपेणावस्थितस्य “प्रमरस्य प्रकर्षेण शत्रूणां मारयितुः “मे मम स्वभूतौ “एतौ एतादृशौ "युक्तौ रथे नियुक्तौ "सु सुष्ठु पूजितौ “गावौ शत्रून् यज्ञांश्च प्रति गन्तारौ हरी "मो “प्र “सेधीः । स्तुत्युपसंहारकरणेनास्मद्यज्ञान्मापगमय । किं तर्हि “मुहुरित् मुहुर्मुहुः “ममन्धि पुनःपुनः स्तुहि ममात्मन्नित्यर्थः । “आपश्चित् वृष्टिलक्षणान्युदकान्यपि “अस्य इन्द्रस्य “अर्थं गतिं “वि “नशन्ति । विनशतिर्व्याप्तिकर्मा । व्याप्नुवन्ति । तथा “सूरश्च सूर्यश्च व्याप्नोति । कीदृशः । “मर्कः मार्जयिता सर्वस्य शोधयिता “उपरः मेघसदृशः “बभूवान् भवन् । मेघवच्छीघ्रगतिः सन्नित्यर्थः ॥ ॥ १८ ॥


अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् ।

श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरन्ति ॥ १०.०२७.२१

अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् ।

श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥२१

अयम् । यः । वज्रः । पुरुधा । विऽवृत्तः । अवः । सूर्यस्य । बृहतः । पुरीषात् ।

श्रवः । इत् । एना । परः । अन्यत् । अस्ति । तत् । अव्यथी । जरिमाणः । तरन्ति ॥२१

“यः "अयं “वज्रः इन्द्रस्य स्वभूतः “सूर्यस्य आदित्यस्य "बृहतः महतः “पुरीषात् पूरकात् मण्डलात् “अवः अवस्तादधोभागे स्थितेषु “विवृत्तः वृष्ट्यर्थं प्रवृत्तः पतितः । इच्छब्दोऽप्यर्थे । तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः । "परः परस्तादन्तरिक्षलोकस्योपरि स्थिते सूर्यमण्डले स्थितम् “एना एनत्। “श्रवः इत्यन्ननाम । तद्धेतुत्वादुदकं श्रव इत्युच्यते । यदप्युदके मेघोदरगतादुदकात् “अन्यत् अपि “अस्ति “अव्यथी व्यथारहिताः “जरिमाणः स्तोतारो मरुदादयः “तत् तादृशमुदकं “तरन्ति अन्तरिक्षलोकं प्रत्यवतारयन्ति ।


वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ ।

अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥ १०.०२७.२२

वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ ।

अथ॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । भ॒या॒ते॒ । इन्द्रा॑य । सु॒न्वत् । ऋष॑ये । च॒ । शिक्ष॑त् ॥२२

वृक्षेऽवृक्षे । निऽयता । मीमयत् । गौः । ततः । वयः । प्र । पतान् । पुरुषऽअदः ।

अथ । इदम् । विश्वम् । भुवनम् । भयाते । इन्द्राय । सुन्वत् । ऋषये । च । शिक्षत् ॥२२

“वृक्षेवृक्षे सर्वस्मिन् वृक्षमये धनुषि “नियता संबद्धा "गौः गोसंबन्धिनी स्नायुमती “मौर्वी “मीमयत् । मीमयतिः शब्दकर्मा। आकृष्यमाणा सती शब्दं करोति । “ततः तस्माद्धनुषः “पुरुषादः शत्रुजनानामत्तारः। मारयितार इत्यर्थः । “वयः पक्षिसदृशा गन्तारो बाणाः “प्र “पतान् शत्रून् प्रति प्रपतन्ति। “अथ तदानीम् “इन्द्राय इन्द्रार्थं “सुन्वत् सोमयागं कुर्वत् “ऋषये “च “शिक्षत् कर्मणां द्रष्ट्र ऋत्विजे च संपूर्णां दक्षिणां दददपि “इदम् ईदृशं “विश्वं समस्तं “भुवनं भूतजातं “भयाते इन्द्राद्बिभेति । अन्यत्किमुतेत्यर्थः ॥


दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृ॒न्तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् ।

त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहतः॒ पुरी॑षम् ॥ १०.०२७.२३

दे॒वाना॑म् । माने॑ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒षा॒म् । उप॑राः । उत् । आ॒य॒न् ।

त्रयः॑ । त॒प॒न्ति॒ । पृ॒थि॒वीम् । अ॒नू॒पाः । द्वा । बृबू॑कम् । व॒ह॒तः॒ । पुरी॑षम् ॥२३

देवानाम् । माने । प्रथमाः । अतिष्ठन् । कृन्तत्रात् । एषाम् । उपराः । उत् । आयन् ।

त्रयः । तपन्ति । पृथिवीम् । अनूपाः । द्वा । बृबूकम् । वहतः । पुरीषम् ॥२३

"देवानां सर्वेषां "माने निर्माणे । सृष्टिकाल इत्यर्थः । जगत्स्थितिहेतुभूतरसानुप्रदानकर्मणि स्रष्टव्यत्वेन “प्रथमा “अतिष्ठन् इन्द्रादेशादेते पूर्वे स्थिताः । क एते । मेघाः। कुत एतदवगम्यते । परस्मिन् पादे तेषामनुकथनात् । उक्तं हि मेघा एव माध्यमिका देवगणा इति (निरु. २. २२)। “एषाम् एवंभूतानां मेघानां कृन्तत्रात् छेदनात् "उपराः । मेघनामैतत् । तत्रस्था आप उच्यन्ते । मेघस्था आपः "उदायन् उत्पन्नाः । वृष्टिभावेन भूमौ निपातिता इत्यर्थः । पातितास्वप्स्विन्द्रस्याज्ञया पर्जन्यो वायुरादित्य इत्येते “त्रयः देवाः पृथिवीं भूमिम् । तत्रस्था ओषधीरित्यर्थः । “तपन्ति वृष्टिशीतोष्णैः संतापयन्ति। पावयन्तीत्यर्थः । कीदृशाः । “अनूपाः वर्षादीनामानुपूर्व्येण वप्तारः प्रभावयितारः । प्रक्षेप्तार इत्यर्थः । “द्वा द्वौ वाय्वादित्यौ पाचितास्वोषधीषु स्थितं “पुरीषं सर्वस्य प्रीणयितृ पूरयितृ वा “बृबूकम् उदकमादित्यमण्डलं प्रति “वहतः । वायुः शोषयन्नादित्यो रश्मिभिराददान इत्यर्थः ॥


सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये ।

आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥२४

सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒ऽम॒र्ये ।

आ॒विः । स्व१॒॑रिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥२४

सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । सऽमर्ये ।

आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥२४

अत्रान्तरात्मनेन्द्रः स्तूयते । हे अन्तरात्मन् "ते तव "सा तादृश्यादित्यात्मिका देवता "जीवातुः जीविका जीवनहेतुः । “उत अपि च “तस्य आदित्यस्य “एतादृक् ईदृशं स्वरूपं समर्ये । संग्रामवाची समर्यशब्दोऽत्र यज्ञवाची । यज्ञे “विद्धि जानीहि । स्तुत्यत्वेनेति शेषः । “मा "स्म “अप “गूहः मा खल्वपवृणोः । किंच “निर्णिजः सर्वस्य शोधयितुरादित्यस्य “स “पादुः तच्च पादनं गमनं रश्मिद्वारेण गत्वा “स्वः सर्वं त्रैलोक्यम् “आविः “कृणुते प्रकाशीकरोति। "बुसम् उदकं “गूहते संवृणोति । आदत्त इत्यर्थः । अस्मै प्रयोजनद्वयायादित्येन निर्वेदनाच्छ्रमेण वा गमनं “न “मुच्यते । न कदाचित्परित्यज्यत इत्यर्थः ॥ ॥ १९ ॥

सम्पाद्यताम्

टिप्पणी

असत्सु मे जरितः साभिवेगः सत्यध्वृतमिति शंसति सत्यं वा एतदहः सत्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । तदु वासुक्रं ब्रह्म वै वसुक्रो ब्रह्मैतदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदाहुरथ कस्माद्वास्रुक्रेणैतन्मरुत्वतीयं प्रतिपद्यत इति न ह वा एतदन्यो वसुक्रान्मरुत्वतीयमुदयच्छन्न विव्याचेति तस्माद्वासुक्रेणैवैतन्मरुत्वतीयं प्रतिपद्यते, इति । तदनिरुक्तं प्राजापत्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै, इति । - ऐआ १.२.२.१

त्रिषु मरुत्वतीयग्रहेषु मध्ये तृतीयस्य होमात्पूर्वं पठनीयं -- चतुर्विंशान्मरुत्वतीयस्याऽऽतानोऽसत्सु मे जरितः साभिवेगः .... ऐआ ५.१.१.१

१०.२७.१६ दशानामेकं कपिलं समानमिति

कपिलोपरि टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२७&oldid=328369" इत्यस्माद् प्रतिप्राप्तम्