ऋग्वेदः सूक्तं १०.३२

(ऋग्वेद: सूक्तं १०.३२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.३१ ऋग्वेदः - मण्डल १०
सूक्तं १०.३२
कवष ऐलूषः
सूक्तं १०.३३ →
दे. इन्द्रः। जगती, ६-९ त्रिष्टुप्


प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः ।
अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥१॥
वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत ।
ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधसः ॥२॥
तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति ।
जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः ॥३॥
तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः ।
माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥४॥
प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः ।
जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥५॥
निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच ।
इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥६॥
अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः ।
एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् ॥७॥
अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः ।
एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव ॥८॥
एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि ।
दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि ॥९॥


सायणभाष्यम्

‘प्र सु ग्मन्ता ' इति नवर्चं तृतीयं सूक्तम् । आदितः पञ्च जगत्यः । अथ चतस्रस्त्रिष्टुभः । पूर्घवदृषिदेवते । तथा चानुक्रान्तं - ‘ प्र सु ग्मन्ता नव पञ्चाद्या जगत्यः' इति । गतो विनियोगः ॥


प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः ।

अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥१

प्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः ।

अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥१

प्र । सु । ग्मन्ता । धियसानस्य । सक्षणि । वरेभिः । वरान् । अभि । सु । प्रऽसीदतः ।

अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति ॥१

इन्द्रः स्वभूतौ हरी “धियसानस्य इन्द्रागमनं चिन्तयतो यजमानस्य मम संबन्धिनि “सक्षणि सेवायां सद्गुणके सेव्ये यज्ञे निमित्ते “ग्मन्ता आगच्छन्तौ “सु सुष्ठु प्रेरयति । ततः स इन्द्रः “वरेभिः वरणीयैर्मार्गैः “प्रसीदतः हविरासादयतो यजमानस्य “वरान् उत्कृष्टान् हविर्विशेषान् स्तुतिविशेषांश्च “अभि लक्षीकृत्य “सु सुष्ठु आगच्छतु । “इन्द्रः आगतः सन् “अस्माकं स्वभूतम् “उभयं हविश्च स्तुतिश्चेत्येतद्द्वयं “जुजोषति सेवताम् । भक्षयतु शृणोतु चेत्यर्थः । “यत् यदा “सोम्यस्य सोमसंपादिनो मम “अन्धसः अन्नरूपस्य सोमस्य । रसमिति शेषः । “बुबोधति बुध्यते जिह्वया विजानाति । सोमं पिबतीत्यर्थः । तदा जुजोषतीति पूर्वेण संबन्धः ।।


वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत ।

ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धस॑ः ॥२

वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ ।

ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥२

वि । इन्द्र । यासि । दिव्यानि । रोचना । वि । पार्थिवानि । रजसा । पुरुऽस्तुत ।

ये । त्वा । वहन्ति । मुहुः । अध्वरान् । उप । ते । सु । वन्वन्तु । वग्वनान् । अराधसः ॥२

हे “इन्द्र "दिव्यानि दिवि भवानि “रोचना रोचनानि दीप्तिस्वभावकानि ज्योतींषि यद्वा दिव्याँल्लोकान् वि “यासि व्याप्नोषि । हे “पुरुष्टुत बहुभिः स्तुतेन्द्र “पार्थिवानि पृथिव्यां भवानि “रजसा आत्मीयेन ज्योतिषा विद्युल्लक्षणेन । यद्वा । रजःशब्दाच्छस आकारः । पार्थिवाँल्लोकान् । व्याप्नोषि। “ये त्वदीया अश्वाः “मुहुः पुनः पुनः “अध्वरान् अस्मदीयान् यज्ञान् प्रति “त्वा त्वाम् “उप “वहन्ति समीपे प्रापयन्ति “ते अश्वाः “वग्वनान् वचनेन स्तुत्या संभक्तॄन् “अराधसः धनरहितानस्मान् "सु सुष्ठु “वन्वन्तु धनप्रदानार्थं संभजन्ताम् ॥


तदिन्मे॑ छन्त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति ।

जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥३

तत् । इत् । मे॒ । छ॒न्त्स॒त् । वपु॑षः । वपुः॑ऽतरम् । पु॒त्रः । यत् । जान॑म् । पि॒त्रोः । अ॒धि॒ऽइय॑ति ।

जा॒या । पति॑म् । व॒ह॒ति॒ । व॒ग्नुना॑ । सु॒ऽमत् । पुं॒सः । इत् । भ॒द्रः । व॒ह॒तुः । परि॑ऽकृतः ॥३

तत् । इत् । मे । छन्त्सत् । वपुषः । वपुःऽतरम् । पुत्रः । यत् । जानम् । पित्रोः । अधिऽइयति ।

जाया । पतिम् । वहति । वग्नुना । सुऽमत् । पुंसः । इत् । भद्रः । वहतुः । परिऽकृतः ॥३

“वपुषः । वपुः रूपम् । तद्वाँल्लक्ष्यते । वपुष्मतोऽपि “वपुष्टरं रूपवत्तरमत्यन्तं सुरूपं “तत् यज्ञकर्म “मे मह्यं “छन्त्सत् इन्द्रः कामयताम् । “यत् यदा “पुत्रः “जानं जन्म आत्मन उत्पत्तिं “पित्रोः मातापित्रोः सकाशात् “अधीयति संकीर्तनद्वारेणाधिगच्छति । सुब्रह्मण्याह्वानकालेऽमुकशर्मणः पुत्रो यजत इत्यात्मनो जन्म संकीर्तयति । यद्वा । यज्जननादागतं धनं पित्रों: सकाशात्पुत्रोऽधिगच्छति तदेव मह्यमिच्छतु । “जाया पत्नी “पतिं यजमान “सुमत् कल्याणेन “वग्नुना वाग्रूपेण शब्देन “वहति आत्मसमीपं प्रापयति । “भद्र भजनीयः “परिष्कृतः सुसंस्कृत: ”पुंस “इत। पत्युरेवेत्यर्थः । “वहतुः जायायै प्रदातव्यः । तदुक्तं-- सुभद्रमर्य भोजनं बिभर्षि ' (ऋ. सं. ८. १. ३४) इति । यद्वा । पुंसोऽतिशूरस्येन्द्रस्यार्थाय भद्रो भजनीयो वहतुर्वहनशीलो देवान् प्रति स सोमः परिष्कृतः संस्कृतो भवति । तदेन्द्रः कामयतामित्यर्थः ।।


तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नव॑ः ।

मा॒ता यन्मन्तु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जन॑ः ॥४

तत् । इत् । स॒धऽस्थ॑म् । अ॒भि । चारु॑ । दी॒ध॒य॒ । गावः॑ । यत् । शास॑न् । व॒ह॒तुम् । न । धे॒नवः॑ ।

मा॒ता । यत् । मन्तुः॑ । यू॒थस्य॑ । पू॒र्व्या । अ॒भि । वा॒णस्य॑ । स॒प्तऽधा॑तुः । इत् । जनः॑ ॥४

तत् । इत् । सधऽस्थम् । अभि । चारु । दीधय । गावः । यत् । शासन् । वहतुम् । न । धेनवः ।

माता । यत् । मन्तुः । यूथस्य । पूर्व्या । अभि । वाणस्य । सप्तऽधातुः । इत् । जनः ॥४

“तदित् तदेव “सधस्थम् । सह तिष्ठन्त्यत्रेति सधस्थं स्थानं यज्ञाख्यम् । “चारु शोभनम् “अभि “दीधय हे इन्द्र अभितो दीप्यस्व । “यत् यत्र “गावः स्तुतिलक्षणा वाचः इन्द्र आगच्छ हरिव आगच्छ इत्येवमाद्याः “शासन् अस्मद्यज्ञं प्रति त्वदागमनमाशासते । तत्र दृष्टान्तः । “वहतुं “न “धेनवः । यथा धेनवो नवप्रसूता गावः प्रापणसाधनं गृहमाशासते तद्वत् । यत आगत्य प्रकाशयेत्यत्र कारणमाह । “यत् यस्मात् “मन्तुः । मन्यतिरर्चतिकर्मा । अर्चकस्य मम स्वभूता “माता देवतागुणानां निष्पादयित्री स्तुतिः "यूथस्य यष्टृस्तोतृगणस्य “पूर्व्या प्रथमभाविनी खलु। यस्माच्च “सप्तधातुः । धार्यन्ते क्रियन्त कर्माण्येष्विति धातवश्छन्दांस्यृतवो वा । सप्तच्छन्दस्कः सप्तर्तुकः सप्तहोत्रात्मको वायं “जनः “वाणस्य स्तुतिशब्दस्य “अभि कर्ता खलु । तस्माच्छीघ्रमागच्छेति भावः । यद्वा । यत्कल्याणं तदेव स्थानमस्माकमभिधारय प्रयचछ । यस्मिन् स्थाने धेनवः पथप्रदानेन प्रीणयित्र्यो गावो वहतुम् । उह्यते पुरुषोऽनेनेति वहतुरन्नम्। पयोघृताद्यनुशासति । न संप्रत्यर्थे । इदानीं प्रयच्छन्ति । तथा यस्मिन् मन्तुर्मन्तव्या पूजनीया पुत्रसमूहस्य माताभिगच्छति वाणस्य वाद्यस्य सप्तधातुर्निषादादिसप्तस्वरोपेतो जनोऽभिगच्छति तद्वत्तद्गुणोपेतं प्रयच्छेति भावः ॥


प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणि॑ः ।

ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥५

प्र । वः॒ । अच्छ॑ । रि॒रि॒चे॒ । दे॒व॒ऽयुः । प॒दम् । एकः॑ । रु॒द्रेभिः॑ । या॒ति॒ । तु॒र्वणिः॑ ।

ज॒रा । वा॒ । येषु॑ । अ॒मृते॑षु । दा॒वने॑ । परि॑ । वः॒ । ऊमे॑भ्यः । सि॒ञ्च॒त॒ । मधु॑ ॥५

प्र । वः । अच्छ । रिरिचे । देवऽयुः । पदम् । एकः । रुद्रेभिः । याति । तुर्वणिः ।

जरा । वा । येषु । अमृतेषु । दावने । परि । वः । ऊमेभ्यः । सिञ्चत । मधु ॥५

हे यजमानाः “देवयुः देवान् कामयमानो होता “वः युष्माकं “पदम् “अच्छ स्थानं प्रति “प्र “रिरिचे प्ररिक्तोऽभूत् । अथ होतृभ्यः सकाशात् “एकः मुख्य इन्द्रः “रुद्रेभिः रुद्रपुत्रैः मरुद्भिः सह “तुर्वणिः क्षिप्रगामी सन् “याति गच्छति युष्मदीयं यज्ञम् । “जरा “वा। वाशब्दोऽप्यर्थे । स्तुतिरपि “येष्वमृतेषु मरणधर्मरहितेषु देवेषु “दावने धनप्रदानाय समर्था भवति । तस्मात् “वः यूयम्। छान्दसो वसादेशः । “ऊमेभ्यः रक्षितृभ्यो देवेभ्यः “मधु मदकरं सोममद्भिः “परि “षिञ्चत ॥ ॥ २९ ॥


नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।

इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥६

नि॒ऽधी॒यमा॑नम् । अप॑ऽगूळ्हम् । अ॒प्ऽसु । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ ।

इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥६

निऽधीयमानम् । अपऽगूळ्हम् । अप्ऽसु । प्र । मे । देवानाम् । व्रतऽपाः । उवाच ।

इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनुऽशिष्टः । आ । अगाम् ॥६

कुरुश्रवणस्य यज्ञे निधीयमानोऽग्निरभिधीयते । “निधीयमानम् अध्वर्युणाहवनीयेऽग्नौ “अप्सु मातृभूतासु “अपगूळ्हम् अन्तर्हिन्तं त्वां “देवानां “व्रतपाः कर्मणो रक्षक इन्द्रः “मे मह्यं “प्र “उवाच । प्रवादीत् । हे “अग्ने “विद्वान् जाजानः “इन्द्रः स्वाधिकारमस्मद्भक्ततां वा “त्वा त्वाम् “अनु “हि “चचक्ष अनुगतः पश्चाद्ददर्श । “तेन इन्द्रेण “अनुशिष्टः “अहम् अनेन पथा त्वया स्वर्गो गन्तव्य इत्येवमुपदिष्टः सन् “आगाम् आभिमुख्येन स्वर्गं गच्छेयम् ॥


अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः ।

ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि॑न्दत्यञ्ज॒सीना॑म् ॥७

अक्षे॑त्रऽवित् । क्षे॒त्र॒ऽविद॑म् । हि । अप्रा॑ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒ऽविदा॑ । अनु॑ऽशिष्टः ।

ए॒तत् । वै । भ॒द्रम् । अ॒नु॒ऽशास॑नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना॑म् ॥७

अक्षेत्रऽवित् । क्षेत्रऽविदम् । हि । अप्राट् । सः । प्र । एति । क्षेत्रऽविदा । अनुऽशिष्टः ।

एतत् । वै । भद्रम् । अनुऽशासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम् ॥७

सेयमनुशासनस्तुतिः प्रासङ्गिकी। “अक्षेत्रवित् । ‘क्षि निवासगत्योः' । क्षीयते गम्यतेऽनेनेति क्षेत्रं पन्थाः । पन्थानमजानन् पुरुषः “क्षेत्रविदं क्षेत्रज्ञं पुरुषम् “अप्राट् पृष्टवान् । सः “क्षेत्रविदा पथिज्ञेन तेन “अनुशिष्टः प्रदर्शितमार्गः सन् “प्रैति स्वाभिलषितं देशं गच्छति । “अनुशासनस्य मार्गोपदेशरूपस्य “एतद्वै एतत्खलु “भद्रं भजनीयं कल्याणकरम् । किं तत् । “उत अपि च अञ्जसीनाम् ऋजुना मार्गेण गन्तव्यानामपां “स्रुतिं मार्गं पिपासितः सन् “विन्दति लभते । यद्वा । अञ्जसीनामिति स्रुतेर्विशेषणम् । ऋजुमकुटिलमप्रयासेन गन्तव्यं मार्ग लभते खलु ॥


अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूध॑ः ।

एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसु॑ः सु॒मना॑ बभूव ॥८

अ॒द्य । इत् । ऊं॒ इति॑ । प्र । आ॒नी॒त् । अम॑मन् । इ॒मा । अहा॑ । अपि॑ऽवृतः । अ॒ध॒य॒त् । मा॒तुः । ऊधः॑ ।

आ । ई॒म् । ए॒न॒म् । आ॒प॒ । ज॒रि॒मा । युवा॑नम् । अहे॑ळन् । वसुः॑ । सु॒ऽमनाः॑ । ब॒भू॒व॒ ॥८

अद्य । इत् । ऊं इति । प्र । आनीत् । अममन् । इमा । अहा । अपिऽवृतः । अधयत् । मातुः । ऊधः ।

आ । ईम् । एनम् । आप । जरिमा । युवानम् । अहेळन् । वसुः । सुऽमनाः । बभूव ॥८

अयमग्निः “अद्येत् अद्यैवास्मिन्दिने “प्राणीत् मथनेन चेष्टितोऽभवत् । ‘ श्वस प्राणने अन च । इलि धातुः । तदानीमेव “इमा इमानि “अहा अहानि सौमिकानि “अममन् नेतुममन्यत । 'मन ज्ञाने' । व्यत्ययेन श्लुः । तिङ उत्तरत्वादनिघातः । अपि च “अपीवृतः तेजोभिः परिवृतः सन् “मातुः पृथिव्याः “ऊधः सारभूतं सोमादिकं हविः “अधयत् पिबति । तथा “युवानं नित्यतरुणं देवानां हविषा मिश्रयन्तं वा “एनम् अग्निं “जरिमा । जरतिः स्तुतिकर्मा । तस्मादौणादिक इमनिच् । स्तोतृभिः क्रियमाणा स्तुतिः “आप आभिमुख्येन व्याप्नोति । “ईम् इति पूरणः । ततः “अहेळन् अक्रुध्यन् स्तोतॄन्प्रति “वसुः वासयिता सर्वेषां धनदानेनाच्छादयिता तेजोभिः शत्रूणां वा वसुमान् वाग्निः “सुमनाः शोभनमनस्को बभूव ॥


ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ ।

दा॒न इद्वो॑ मघवान॒ः सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥९

ए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ ।

दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥९

एतानि । भद्रा । कलश । क्रियाम । कुरुऽश्रवण । ददतः । मघानि ।

दानः । इत् । वः । मघऽवानः । सः । अस्तु । अयम् । च । सोमः । हृदि । यम् । बिभर्मि ॥९

हे “कलश कलावन् सर्वकलापरिपूर्ण । यद्वा । लुप्तमत्वर्थीयः । द्रोणकलशवन् हे “कुरुश्रवण । कुरव ऋत्विजः । तेषां स्वभूतानां स्तुतीनां श्रोतर्हे इन्द्र “मघानि धनानि स्तोतृभ्यो यष्टृभ्यश्च “ददतः प्रयच्छतस्तवेन्द्रस्यार्थम् “एतानि “भद्रा भजनीयानि हवींषि स्तोत्राणि च "क्रियाम विधेयास्म । करोतेराशीर्लिंङि ‘ रिङ्शयग्लिङ्क्षु ' (पा. सू. ७. ४. २८) इति रिङादेशः । अथ स्तोतॄन्प्रत्याह । हे “मघवानः महनीयस्तोत्ररूपधनवन्तः “वः युष्माकं “सः इन्द्रः “दान - “इत् धनादेर्दातैव “अस्तु भवतु । “अयं “च यज्ञे स्थितः “सोमः दातास्तु हृदय आत्मीये “यं पीतं सोमं “बिभर्मि धारयामि । ‘ डुभृञ् धारणपोषणयोः'। जौहोत्यादिकः । ‘ भृञामित् ' इत्यभ्यासस्येत्वम् । यद्योगादनिघातः । यद्वा । हे कलशकुलजात हे कुरुश्रवणैतन्नामक त्रसदस्योः पुत्र राजन् ऋत्विग्भ्यो धनानि प्रयच्छतः तवार्थं वयं कर्माणि क्रियाम । मघवानः कुरुश्रवणाः । पूजायां बहुवचनम् । एवं यागकर्म कुर्वाणस्य तवेन्द्रो दाता भवतु । अयं सोमश्च धनानि प्रयच्छतु ॥ ॥ ३० ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टके सप्तमोऽध्यायः ॥


टिप्पणी

अग्निं परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनमनुमतेऽमुमन्यस्वेति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं देव सवितः प्रसुवेति समन्तम् - आप.गृह्यसूत्रम् २.४.३,

एति यद्वैश्वदेवं तु तस्य प्रेत्यैन्द्रमुत्तरम् ।बृहद्देवता ७.३४


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३२&oldid=402277" इत्यस्माद् प्रतिप्राप्तम्