ऋग्वेदः सूक्तं १०.१२२

(ऋग्वेद: सूक्तं १०.१२२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१२१ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२२
चित्रमहा वासिष्ठः
सूक्तं १०.१२३ →
दे. अग्निः। जगती, १, ५ त्रिष्टुप्।


वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् ।
स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥१॥
जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो ।
घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतम् ॥२॥
सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व ।
सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट् समिधा तं जुषस्व ॥३॥
यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् ।
शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥४॥
त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व ।
त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः ॥५॥
इषं दुहन्सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो ।
अग्ने घृतस्नुस्त्रिरृतानि दीद्यद्वर्तिर्यज्ञं परियन्सुक्रतूयसे ॥६॥
त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः ।
त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजन्तो अध्वरे ॥७॥
नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः ।
रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥८॥

सायणभाष्यम्

वसुं न ' इत्यष्टर्चं दशमं सूक्तं वसिष्ठपुत्रस्य चित्रमहस आर्षमाग्नेयम् । आद्यापञ्चमी त्रिष्टुभौ शिष्टा जगत्यः । तथा चानुक्रान्तं-- वसुं नाष्टौ चित्रमहा वासिष्ठ आग्नेयं जागतमाद्यां पञ्चमीं चर्ते ' इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ जागते छन्दसीदं सूक्तम् । सूत्रितं च--- वसुं न चित्रमहसमिति जागतम्' ( आश्व. श्रौ. ४, १३) इति ।।


वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यं ।

स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्यं॑ ॥१

वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् ।

सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥१

वसुम् । न । चित्रऽमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् ।

सः । रासते । शुरुधः । विश्वऽधायसः । अग्निः । होता । गृहऽपतिः । सुऽवीर्यम् ॥१

“वसुं “न वासकं सूर्यमिव “चित्रमहसं चायनीयतेजस्कमग्निं “गृणीषे गृणे स्तौमि ।। गॄ शब्दे'। क्रैयादिकः । पुरुषव्यत्ययः । प्वादित्वाद्ध्रस्वः ॥ यद्वा । चित्रमहसमिति प्रथमार्थे द्वितीया । न इति संप्रत्यर्थे । संप्रति वासकमग्निमहं चित्रमहाः स्तौमि । कीदृशम् । “वामं वननीयं “शेवं सुखकरम् “अतिथिम् अतिथिवत्पूज्यं यद्वा हविर्वहनाय सततगामिनम् “अद्विषेण्यं द्वेष्यरहितम् ।। द्विषेः ‘कृत्यार्थे तवैकेन्” इति केन्यप्रत्ययः । नञा “ बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ।। “सः “अग्निः “शुरुधः शोकस्य रोधयित्रीर्निवारयित्रीः “विश्वधायसः क्षीरप्रदानादिना विश्वं सर्वं जगद्धारयन्तीर्गाः सुवीर्यं शोभनवीर्यं च “रासते यजमानेभ्यो ददाति ॥ ‘ रा दाने ' । अस्माल्लेट्यडागमः । ‘सिब्बहुलम्' इति सिप् । व्यत्ययेनात्मनेपदम् । विश्वशब्दोपपदाद्दधातेः ‘वहिहाधाञ्भ्यः' इत्यसुन् । ‘ णित्' इत्यनुवृत्तेः “आतो युक्चिण्° ' ( पा. सू. ७.३.३३ ) इति युक् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ।। कीदृशोऽग्निः । "होता देवानामाह्वाता होमनिष्पादको वा “गृहपतिः यजमानगृहाणामीश्वरः ।। ' गेहे कः' (पा. सू. ३. १. १४४ ) इति ग्रहेः कप्रत्ययः । ‘ ग्रहिज्या' (पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणम् । ' पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । शोभनं वीर्यं यस्येति बहुव्रीहौ ‘ वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् ।।


जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो ।

घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तं ॥२

जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥२

जुषाणः । अग्ने । प्रति । हर्य । मे । वचः । विश्वानि । विद्वान् । वयुनानि । सुक्रतो इति सुऽक्रतो । २ घृतऽनिर्निक् । ब्रह्मणे । गातुम् । आ । ईरय । तव । देवाः । अजनयन् । अनु । व्रतम् ॥२

हे “अग्ने “जुषाणः प्रीयमाणस्त्वं “मे मम “वचः वचनं स्तोत्रं “प्रति “हर्य कामयस्व । ‘ हर्य गतिकान्त्योः ' । तथा हे “सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा त्वं “विश्वानि सर्वाणि “वयुनानि । ज्ञाननामैतत् इह ज्ञातव्ये वर्तते । ज्ञातव्यान्यर्थजातानि “विद्वान् जानन् वर्तसे । हेतौ शतृप्रत्ययः । यतो जानासि ततो हतोर्मद्वचनं कामयस्वेत्यर्थः । हे “घृतनिर्णिक् घृतेनाज्येन निर्णिज्यमान पुष्यमाणशरीर । ‘ णिजिर् शौचपोषणयो:'। यद्वा । निर्णिगिति रूपनाम । दीप्तरूपाग्ने “ब्रह्मणे ब्राह्मणाय यजमानाय “गातुं गातव्यं ज्ञातव्यं वा यज्ञम् “एरय आगमय । “तव “व्रतं त्वदीयं यज्ञकर्म “अनु पश्चात् "देवाः इन्द्रादयः सर्वे “अजनयन् । यजमानाय फलानि जनयन्ति । अतस्त्वदीयं यज्ञं यजमानाय प्रापयेत्यर्थः ।। लक्षणेऽनोः कर्मप्रवचनीयत्वम् । व्रतमिति कर्मप्रवचनीययुक्त इति द्वितीया । जनेर्ण्यन्ताच्छान्दसो लङ्। ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' इति मित्त्वात् ‘मितां ह्रस्वः' इति ह्रस्वत्वम् ॥


स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व ।

सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥३

स॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ ।

सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥३

सप्त । धामानि । परिऽयन् । अमर्त्यः । दाशत् । दाशुषे । सुऽकृते । ममहस्व ।

सुऽवीरेण । रयिणा । अग्ने । सुऽआभुवा । यः । ते । आनट् । सम्ऽइधा । तम् । जुषस्व ॥३

हे अग्ने “सप्त सप्तसंख्याकानि “धामानि स्थानानि पृथिव्यादिलोकात्मकानि “परियन् परितो गच्छन् “अमर्त्यः मरणधर्मरहितस्त्वं यो यजमानः पुरोडाशादीनि हवींषि “दाशत् प्रयच्छति तस्मै “दाशुषे दत्तवते “सुकृते सुष्ठु यागं कृतवते “मामहस्व । अपेक्षितं धनं ददस्व । महतिर्दानकर्मा ।। ‘ सुकर्मपाप' (पा. सू. ३. २. ८९ ) इत्यादिना सुपूर्वात्कृञो भूते काले क्विप् ।। “यः च यजमानः “समिधा समिन्धनसाधनेनेध्मेन हे “अग्ने “ते त्वाम् “आनट् प्राप्नोति ।। नशतिर्गतिकर्मा । अस्माच्छान्दसो लङ् । 'बहुलं छन्दसि' इति शपो लुक् । 'छन्दस्यपि दृश्यते' इत्याडागमः । अश्नोतेर्वा व्यत्ययेन श्नम् ।। “तं यजमानं “सुवीरेण । शोभनवीराः पुत्रा यस्य ।। ‘ वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम् ॥ तादृशेन “स्वाभुवा सुष्ठु आ समन्ताद्भूष्णुना वर्धिष्णुना “रयिणा धनेन दातव्येन सार्धं “जुषस्व ॥


य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्मं॑त ईळते स॒प्त वा॒जिनं॑ ।

शृ॒ण्वंत॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णंतं॑ दे॒वं पृ॑ण॒ते सु॒वीर्यं॑ ॥४

य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् ।

शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥४

यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । हविष्मन्तः । ईळते । सप्त । वाजिनम् ।

शृण्वन्तम् । अग्निम् । घृतऽपृष्ठम् । उक्षणम् । पृणन्तम् । देवम् । पृणते । सुऽवीर्यम् ॥४

“यज्ञस्य यागस्य “केतुं प्रज्ञापकं “प्रथमं सर्वेषु देवेषु मुख्यं प्रथमस्थानं वा “पुरोहितं पुरतो हितकारिणम् । यद्वा । पुरस्तात् पूर्वस्यां दिश्याहवनीयरूपेण निहितम् ।। ‘ पूर्वाधरा' (पा. सू. ५. ३. ३९ ) इत्यादिना पूर्वशब्दादसिःप्रत्ययः । तत्संनियोगेन प्रकृतेः पुरादेशश्च । ' तद्धितश्चासर्वविभक्तिः ' ( पा. सू. १. १. ३८) इत्यव्ययसंज्ञायां ‘ पुरोऽव्ययम् ' ( पा. सू. १, ४. ६७ ) इति गतिसंज्ञा । धाञः कर्मणि निष्ठा । दधातेर्हिः । ततः समासे ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ “वाजिनं बलवन्तमन्नवन्तं वा “शृण्वन्तम् अस्मत्स्तुतीः श्रोत्रेण जानन्तं “घृतपृष्ठं दीप्तपृष्ठं दीप्ताङ्गम् “उक्षणं यागद्वारेण वृष्टेः संभक्तारं यद्वा सेचनसमर्थं युवानं “पृणते हविर्भिः प्रीणयित्रे यजमानाय ॥ ‘ पृण प्रीणने ' । तौदादिकः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ।। हविर्भिः प्रीणयन्तं यजमानं “पृणन्तं धनैः प्रीणयन्तम् । यद्वा । पृणतिर्दानकर्मा । हवींषि ददते यजमानाय पृणन्तं धनानि प्रयच्छन्तम् । “सुवीर्यं शोभनवीर्योपेतं “देवं द्योतमानं दानादिगुणयुक्तं वा एवंगुणविशिष्टम् “अग्निं “हविष्मन्तः हविर्भिर्युक्ताः “सप्त होतृप्रमुखा वषट्कर्तारः “ईळते स्तुवन्ति ॥ ‘ ईड स्तुतौ' । आदादिकः ।।


त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः॒ स हू॒यमा॑नो अ॒मृता॑य मत्स्व ।

त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥५

त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ ।

त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रु॒रु॒चुः॒ ॥५

त्वम् । दूतः । प्रथमः । वरेण्यः । सः । हूयमानः । अमृताय । मत्स्व ।

त्वाम् । मर्जयन् । मरुतः । दाशुषः । गृहे । त्वाम् । स्तोमेभिः । भृगवः । वि । रुरुचुः ॥५

हे अग्ने “त्वं “दूतः देवानां दूतकर्मणि नियुक्तः “प्रथमः मुख्यः प्रथितः प्रख्यातो वा “वरेण्यः संभजनीयश्चासि । “सः त्वम् “अमृताय अमरणाय तदर्थं नोऽस्माभिः "हूयमानः हविषा तर्प्यमाणो वा सन् “मत्स्व तृप्यस्व ।। ‘मदी हर्षे' । छान्दसो विकरणस्य लुक् ।। अपि च “त्वां मध्यमस्थाने वैद्यतरूपेण वर्तमानं “मरुतः तत्रत्या देवगणाः “मर्जयन् मार्जयन्ति अलंकुर्वन्ति । तथा “दाशुषः हवींषि दत्तवतो यजमानस्य “गृहे “स्तोमेभिः स्तोमैः स्तोत्रैः “भृगवः भृगुगोत्रा ऋषयस्त्वां वि “रुरुचुः विशेषेण दीपयन्ति ॥ भृगुशब्दादुत्तरस्य तद्धितस्य ‘अत्रिभृगुकुत्स°' (पा. सू. २.४.६५) इत्यादिना बहुषु लुक् । रुरुचुः । ‘ रुच दीप्तौ' । अस्माच्छान्दसो लिट् ॥ ॥ ५ ॥


इषं॑ दु॒हन्त्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो ।

अग्ने॑ घृ॒तस्नु॒स्त्रिर्ऋ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्त्सु॑क्रतूयसे ॥६

इष॑म् । दु॒हन् । सु॒ऽदुघा॑म् । वि॒श्वऽधा॑यसम् । य॒ज्ञ॒ऽप्रिये॑ । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

अग्रे॑ । घृ॒तऽस्नुः॑ । त्रिः । ऋ॒तानि॑ । दीद्य॑त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒ऽयन् । सु॒क्र॒तु॒ऽय॒से॒ ॥६

इषम् । दुहन् । सुऽदुघाम् । विश्वऽधायसम् । यज्ञऽप्रिये । यजमानाय । सुक्रतो इति सुऽक्रतो ।

अग्रे । घृतऽस्नुः । त्रिः । ऋतानि । दीद्यत् । वर्तिः । यज्ञम् । परिऽयन् । सुक्रतुऽयसे ॥६

हे “सुक्रतो सुकर्मन् शोभनप्रज्ञ व “अग्ने “यज्ञप्रिये यज्ञैर्हविर्भिर्देवान् प्रीणयित्रे “यजमानाय “विश्वधायसं विश्वस्य सर्वस्य धारयित्रीं “सुदुघां दोग्धुं सुशकां यज्ञरूपिणीं गाम् “इषम् इष्यमाणं यागफलरूपं पयः “दुहन क्षारयन् तथा “घृतस्नुः घृतेनाज्येन प्रस्नातः ।। स्नातेरौणादिकः कुप्रत्ययः॥ यद्वा । घृतो दीप्त: स्नुः सानुः समुच्छ्रितो ज्वालासमूहो यस्य स तथोक्तः ॥ ‘ पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्' (पा. सू. ६. १. ६३. १) इति सानुशब्दस्य स्नुभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।। ईदृशस्त्वं “त्रिः त्रिवारमावृत्तानि “ऋतानि सत्यभूतानि पृथिव्यादीनि त्रीणि स्थानानि । यद्वा गार्हपत्यादीनि स्थानानि “दीद्यत् दीपयन “वर्तिः सर्वं यज्ञगृहं सर्वमनुष्ठीयमानं यागं च “परियन् परितो गच्छन् तत्तद्यज्ञगृहं तं तं यज्ञं च प्राप्नुवन् “सुक्रतूयसे । शोभनं क्रतुं यज्ञमात्मन इच्छसि । यद्वा । शोभनः क्रतुर्यस्यासौ सुक्रतुर्यजमानः। स इवाचरसि । स यथा सम्यगनुष्ठाने प्रवर्तते एवं त्वमपि स्वयमेव यागस्य सम्यग्निष्पत्त्यर्थं प्रवर्तस इत्यर्थः ।।।


त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजंत॒ मानु॑षाः ।

त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जंतो॑ अध्व॒रे ॥७

त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः ।

त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥७

त्वाम् । इत् । अस्याः । उषसः । विऽउष्टिषु । दूतम् । कृण्वानाः । अयजन्त । मानुषाः ।

त्वाम् । देवाः । महयाय्याय । ववृधुः । आज्यम् । अग्ने । निऽमृजन्तः । अध्वरे ॥७

“अस्याः इदानीं दृश्यमानायाः “उषसः “व्युष्टिषु विवासनेषु प्रभातेषु सत्सु हे “अग्ने “त्वामित् त्वामेव देवानां “दूतं “कृण्वानाः कुर्वाणाः “मानुषाः मनुष्याः । “अयजन्त यजन्ति । सर्वदेवात्मकं त्वामेव यजन्तीत्यर्थः । तथा “देवाः अपि “त्वां महयाय्याय पूजायै ।। ‘ मह पूजायाम् । अस्मादौणादिको भाव आय्यप्रत्ययः ।। आत्मनः पूजार्थं “वावृधुः वर्धयन्ति । किं कुर्वन्तः । “अध्वरे । ध्वरो हिंसानिमित्तः प्रत्यवायः । तद्रहिते यागे “आज्यम् । उपलक्षणमेतत् । आज्योपलक्षितं सर्वं हविः "निमृजन्तः त्वयि निमार्जयन्तः । प्रक्षिपन्त इत्यर्थः ।।


नि त्वा॒ वसि॑ष्ठा अह्वंत वा॒जिनं॑ गृ॒णंतो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।

रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥८

नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।

रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥८

नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः ।

रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८

हे “अग्ने “विदथेषु । विदन्त्यस्मिन् यष्टव्यान् देवानिति विदथो यज्ञः। तेषु “वेधसः कर्मणां विधातारः “गृणन्तः स्तुवन्तः “वसिष्ठाः वसिष्ठपुत्रा ऋषयः “वाजिनम् अन्नवन्तं बलवन्तं वात्वां “नि “अह्वन्त नितरामाह्वयन् । अस्ताविषुर्वा ।। ह्वेञो लुङि • निसमुपविभ्यो ह्वः' (पा. सू. १.३. ३०) इत्यात्मनेपदम् । ‘ आत्मनेपदेष्वन्यतरस्याम् ' (पा. सू.३.१.५४ ) इति च्लेरङादेशः । वसिष्ठशब्दाद्विहितस्यापत्यार्थप्रत्ययस्य ' अत्रिभृगुकुत्स' (पा. सू. २. ४. ६५ ) इत्यादिना बहुषु लुक् ॥ स त्वं “यजमानेषु अस्मासु “रायः धनस्य “पोषं पुष्टं “धारय अवस्थापय ॥ ‘ ऊडिदम्' इत्यादिना रैशब्दात् षष्ठ्या उदात्तत्वम्। 'षष्ठ्याः पति पुत्र° (पा. सू. ८, ३. ५३ ) इति विसर्जनीयस्य सत्वम् ॥ गतमन्यत् । एकस्मिन्नप्यग्नौ पूजार्थं बहुवचनम् ॥ ॥ ६ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१२२&oldid=208420" इत्यस्माद् प्रतिप्राप्तम्