प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.९९

(ऋग्वेद: सूक्तं १०.९९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.९८ ऋग्वेदः - मण्डल १०
सूक्तं १०.९९
वम्रो वैखानसः
सूक्तं १०.१०० →
दे. इन्द्रः। त्रिष्टुप् ।


कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै ।
कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥१॥
स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद ।
स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥२॥
स वाजं यातापदुष्पदा यन्स्वर्षाता परि षदत्सनिष्यन् ।
अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत् ॥३॥
स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः ।
अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥४॥
स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् ।
वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥५॥
स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् ।
अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन् ॥६॥
स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् ।
स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये ॥७॥
सो अभ्रियो न यवस उदन्यन्क्षयाय गातुं विदन्नो अस्मे ।
उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून् ॥८॥
स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् ।
अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् ॥९॥
अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी ।
अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् ॥१०॥
अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः ।
सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥११॥
एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् ।
स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥१२॥

सम्पाद्यताम्

सायणभाष्यम्

‘कं नः' इति द्वादशर्चं नवमं सूक्तं वैखानसस्य वम्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं – कं नो वम्रो वैखानसः' इति । गतो विनियोगः ॥


कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।

कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥१

कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ ।

कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥१

कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुऽग्मानम् । वाश्रम् । ववृधध्यै ।

कत्। तस्य । दातुं । शवसः । विऽउष्टौ । तक्षत्। वज्रम् । वृत्रऽतुरम् । अपिन्वत् ॥ १ ॥

हे इन्द्र “नः अस्माकं “चित्रं चायनीयं “कं धनविशेषम् “इषण्यसि प्रेरयसि । “चिकित्वान् सर्वथा प्रेरणीयमिति जानन् । कीदृशं तम् । “पृथुग्मानं पृथुभावं प्राप्नुवन्तं “वाश्रं शब्दनीयं स्तुत्यम् । किमर्थम्। “ववृधध्यै अस्माकं वर्धनाय । किंच “तस्य इन्द्रस्य “शवसः बलस्य “व्युष्टौ व्युच्छने सति “कत् “दातु किं दानमस्माकं भवतीति शेषः । यं "वज्रं “वृत्रतुरं वृत्रस्यावरकस्य पापस्य हिंसकं त्वष्टा “तक्षत् अतक्षत् साधु संपादितवान् अपिन्वत् असिञ्चच्च । तस्य शवसो व्युष्टाविति संबन्धः । यद्वा । हे इन्द्र कत् किं तस्य वज्रस्य दानं भवति यं वज्रमिन्द्रार्थं तक्षदिति योजना । ‘मह्यं त्वष्टा वज्रमतक्षदायसम्' ( ऋ. सं. १०, ४८. ३ ) इति मन्त्रान्तरम् ॥


स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।

स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥२

सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । आ । स॒सा॒द॒ ।

सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥२

सः । हि। द्युता । विद्युता । वेति । साम । पृथुम् । योनिम् । असुरऽत्वा । आ । ससाद।

सः । सऽनीळेभिः । प्रऽसहानः । अस्य । भ्रातुः । न । ऋते । सप्तथस्य । मायाः ॥ २ ॥

“स “हिः स खल्विन्द्रः “द्युता द्योतमानेन विद्युता एतन्नामकेनायुधेन युक्तः सन् “साम स्तोत्रात्मकं यज्ञसंबन्धि "वेति गच्छति । तथा “असुरत्वा असुरत्वेन बलेन युक्तः सन् "पृथुं विस्तीर्णं “योनिं फलस्योत्पादकं यज्ञं “ससाद संगतो भवति । “सः इन्द्रः सनीळेभिः । नीडं विमानम्। सविमानैर्मरुद्भिर्युक्तः सन् “प्रसहानः अभिभवन् भवति । तस्य “सप्तथस्य आदित्यानां धात्रादीनां मध्ये सप्तमस्येन्द्रस्य “भ्रातुः भागैर्भक्तव्यस्य "माया आसुरी “ऋते यज्ञे “न संभवतीति शेषः ॥


स वाजं॒ याताप॑दुष्पदा॒ यन्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।

अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥३

सः । वाज॑म् । याता॑ । अप॑दुःऽपदा । यन् । स्वः॑ऽसाता । परि॑ । स॒द॒त् । स॒नि॒ष्यन् ।

अ॒न॒र्वा । यत् । श॒तऽदु॑रस्य । वेदः॑ । घ्नन् । शि॒श्नऽदे॑वान् । अ॒भि । वर्प॑सा । भूत् ॥३

सः । वाजम् । याता । अपदुःऽपदा । यन् । स्वःऽसाता। परि । सदत् । सनिष्यन् ।

अनर्वा । यत् । शतऽदुरस्य । वेदः । घ्नन् । शिश्नऽदेवान् । अभि । वर्पसा । भूत् ॥ ३ ॥

“वाजं शूरैर्गन्तव्यं संग्रामं “याता “सः इन्द्रः । ‘न लोकाव्यय” इति षष्ठीप्रतिषेधः । “अपदुष्पदा अपगतदुष्टपतनेन “यन् गच्छन् “सनिष्यन् तत्र शत्रुधनानि संभक्तुमिच्छन् “परि “षदत् परिषीदति । कुत्रेति उच्यते । “स्वर्षाता स्वर्षातौ सर्वलाभोपेते संग्रामे। किंच “अनर्वा युद्धे अप्रत्यृत इन्द्रः “शतदुरस्य शतद्वारस्य शत्रुपुरस्य अन्तर्निहितं “यत् “वेदः धनमस्ति तद्धनं “वर्पसा आवरकेण बलेन “अभि "भूत् अभिभवति । किं कुर्वन् । “शिश्नदेवान् अब्रह्मचर्यान् शतद्वारेषु शत्रुपुरसंबन्धिषु वर्तमानान् “घ्नन् हिंसन् ॥


स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।

अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥४

सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ ।

अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वारिति॒ वाः ॥४

सः । यह्व्यः । अवनीः । गोषु । अर्वा । आ । जुहोति । प्रऽधन्यासु । सस्रिः ।।

अपादः। यत्र । युज्यासः । अरथाः । द्रोणिऽअश्वासः । ईरते । घृतम् । वारिति वाः ।।४।।

"सः इन्द्रः “अर्वा मेघेष्वभिगन्ता सस्रिः सरणकुशलः प्रधन्यासु प्रकृष्टधननिमित्तासु “गोषु भूमिषु "यह्व्यः । महन्नामैतत् । महतीः “अवनीः। अवन्तीत्यवनय आपः । ताः “आ जुहोति आक्षिपति । “यत्र यासु भूमिषु “अपादः पादरहिताः "अरथाः रथवर्जिताः । पादरहिताः केचन रथेन गच्छन्ति । केनापि शून्याः “द्रोण्यश्वासः द्रुतव्यापनाः "युज्यासः युज्या इन्द्रस्य सख्यो नद्यः "वाः वारकं “घृतम् उदकम् “ईरते प्रेरयन्ति तत्राजुहोति ॥


स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।

व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥५

सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् ।

व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥५

सः । रुद्रेभिः । अशस्तऽवारः । ऋभ्वा । हित्वी । गयम् । आरेऽअवद्यः । आ । अगात्।

वम्रस्य । मन्ये । मिथुनाः। विवव्री इति विऽवव्री । अन्नम्। अभिऽइत्य । अरोदयत्। मुषायन्॥५॥

“सः इन्द्रः “रुद्रेभिः रुद्रपुत्रैर्मरुद्भिः सहितः “आगात् आगच्छतु । कीदृशः । “अशस्तवारः स्तोतृभिरप्रार्थितधनः । स्वयमेव प्रदातेत्यर्थः । तथा “ऋभ्वा महान् “गयं “हित्वी हित्वा स्वस्थानं परित्यज्यागात् आगच्छतु । तत्र संबन्धः। “आरेअवद्यः दूरगतगर्ह्यः । किंच “वम्रस्य एतन्नामकस्य ऋषेर्मम “मिथुना मिथुनौ मातापितरौ “विवव्री विगतज्वरौ “मन्ये अवगच्छामि । अयं वम्रः “अन्नं शत्रुसंबन्धि "अभीत्य अभिप्राप्य "मुषायन् मुष्णन् “अरोदयत् रोदयति । 'छन्दसि शायजपि ' इत्यहावपि मुषेः श्नः शायजादेशः ॥


स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।

अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥६

सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् । ष॒ट्ऽअ॒क्षम् । त्रि॒ऽशी॒र्षाण॑म् । द॒म॒न्य॒त् ।

अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥६

सः । इत् । दासम् । तुविऽरवम् । पतिः । दन् । षट्ऽअक्षम्। त्रिऽशीर्षाणम् । दमन्यत् ।

अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयःऽअग्रया । हन्निति हन् ॥ ६॥

“स “इत् स एवेन्द्रः “पतिः सर्वस्य स्वामी “दासम् उपक्षपयितारं “तुवीरवं बहुशब्दं संग्रामे भयंकरं शब्दं कुर्वाणं वृत्रं "दन् दमयन् “षळक्षम् अक्षिषट्कोपेतं “त्रिशीर्षाणं त्रिशिरस्कं त्वष्टुः पुत्रं विश्वरूपं “दमन्यत् दमितुं प्रहर्तुमैच्छत् । अवधीदित्यर्थः । यद्वा । दमयतीति दमनः । नन्द्यादित्वात् ल्युः । स इवाचरति । उपमानादाचारे ' (पा. सू. ३. १. १०) इति क्यच्यन्त्यलोपश्छन्दसः । ततो लङि • बहुलं छन्दसि ' इत्यडभावः । किंच “त्रितः एतन्नामा महर्षिः अस्य इन्द्रस्य “ओजसा बलेन “वृधानः वर्धमानः “विपा अङ्गुल्या । कीदृश्या । “अयोअग्रया अयोवत्कठिननखया “वराहं वराहारम् उदकवन्तं मेघं व्यहन् विहतवान् ॥ ॥ १४ ॥


स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।

स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑त॒ः पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥७

सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् ।

सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥७

सः । द्रुह्वणे । मनुषे । ऊर्ध्वसानः । आ । साविषत् । अर्शसानाय । शरुम् ।

सः । नृऽतमः । नहुषः । अस्मत् । सुऽजातः । पुरः । अभिनत् । अर्हन् । दस्युऽहत्ये ॥७

“सः इन्द्रः द्रुह्वणे द्रुह्वणाय दृढं शत्रुभिर्वामितव्याय “मनुषे मनुष्याय योद्ध्रे स्वभक्ताय “ऊर्ध्वसानः । ऊर्ध्वं उच्छ्रितः शोर्यादिभिर्गुणैरधिकः सन् स्यति शत्रूणामन्तं करोतीत्यूर्ध्वसः । स इवाचरन् । ऊर्ध्वसशब्दादाचारार्थे क्विबन्ताच्छानच्” । “अर्शसानाय शत्रूणां हिंसित्रे “शरुं हिंसकमायुधम् “आ “साविषत् अभिमुख्येन प्रसोति यच्छति । यद्वा । द्रुह्वणे मनुषे द्रोग्धव्याय मनुष्यायार्शसानाय स्वभक्तहिंसित्रे तस्य वधार्थमूर्ध्वसानः सन् शरुम् आ साविषत् वज्रं प्रेरयति । “सः एवेन्द्रः “नहुषः मनुष्यात् “नृतमः मनुष्याणां नेतृतमः संग्रामे शूराणां गमयितृतमः । यद्वा । नृतमो नहुषो बन्धकश्च । “अस्मत् अस्मदर्थं "सुजातः सुष्ठु प्रादुर्भूतः “अर्हन् पूज्यः सन् "दस्युहत्ये । दस्यवः उपक्षपयितारः शत्रवः । तेषां हत्यं हननं यस्मिन् तादृशे संग्रामे “पुरः शत्रूणां शरीराणि “अभिनत् भिन्नवान् ॥


सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।

उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥८

सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ ।

उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥८

सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति ।

उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयःऽअपाष्टिः । हन्ति । दस्यून् ॥८

“सः इन्द्रः “अभ्रियो “न । न भ्राजन्तेऽपो बिभ्रतीति वाभ्राणि मेघाः । तेषां संघोऽभ्रियः । स इव “यवसे गवादिभक्षणसाधनाय तृणाय “उदन्यन् उदकं दातुमिच्छन् । तथा “क्षयाय गमनाय निवासाय वा “अस्मे अस्माकं “गातुं मार्गं “विदत् लम्भयन् । “नः इति पूरणः । तादृशः सन् “यत् यदा “इन्दुं सोमं “शरीरैः स्वशरीरावयवैरङ्गैः “उप सीदत् उपगच्छति । यच्छब्दयोगादनिघातः । तदानीं “श्येनः । सादृश्यप्रधानोऽयं निर्देशः । श्येनसदृशः श्येनवच्छंसनीयगमनः “अयोपाष्टिः । अपयष्टिर्व्याप्तिर्यस्य स प्रदेशोऽपाष्टिः पार्ष्णिः । अयोमयोऽपाष्टिः पार्ष्णिर्यस्य सः । “दस्यून् शत्रून् “हन्ति हिनस्ति ।।


स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।

अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥९

सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् ।

अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥९

सः । व्राधतः । शवसानेभिः । अस्य । कुत्साय । शुष्णम् । कृपणे । परा । अदात् ।

अयम् । कविम् । अनयत् । शस्यमानम् । अत्कम् । यः । अस्य । सनिता । उत । नृणाम् ॥९

“सः इन्द्रः “व्राधतः । महन्नामैतत् । महतोऽपि शत्रून् “शवसानेभिः बलमाचरद्भिरायुधैः “अस्य अस्यतु । ‘ असु क्षेपणे '। व्यत्ययेन मध्यमः। “कुत्साय एतन्नामकाय “कृपणे स्तोत्रे । कृपतिः स्तुतिकर्मा । “शुष्णं शोषकमेतन्नामकमसुरं “परादात् पराभूय खण्डितवान्। ‘कुत्साय शुष्णमशुषं नि बर्हीः ' (ऋ. सं. ४. १६. १२) इति मन्त्रान्तरम् । किंच “अयम् इन्द्रः “कविम् उशनसम् । कविरिति पितृनाम्ना पुत्रस्यापि व्यवहार उपचारात् । “शस्यमानं स्तुवन्तम् “अनयत् वशं प्रापयत्तस्य विरोधिनम् । यद्वा । कविं भार्गवमेव स्तोतृभिः शस्यमानं स्ववशमनयत् । “यः कविः “अस्य इन्द्रस्य “अत्कं रूपं “सनिता संभक्ता भवति । ‘न लोकाव्यय° ' इति षष्ठीप्रतिषेधः । “उत अपि च “नृणां वृष्ट्यादिनेतॄणामिन्द्रानुचराणां मरुतां यः कविः सनिता तमनयदिति ॥


अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।

अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥१०

अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी ।

अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥१०

अयम् । दशस्यन् । नर्येभिः । अस्य । दस्मः । देवेभिः । वरुणः । न । मायी ।

अयम् । कनीनः । ऋतुऽपाः । अवेदि । अमिमीत । अररुम् । यः । चतुःऽपात् ॥१०

“अयम् इन्द्रः “दशस्यन् स्तोतृभ्यो धनं प्रयच्छन् । दशस्यतिर्दानकर्मा । नर्येभिः नर्यैर्नृहितैः मरुद्भिः “अस्य अस्यति । छान्दसस्तिपो लोपः। यद्वा। व्यत्ययेन लोण्मध्यमः । तथा “देवेभिः द्योतमानैः स्वतेजोभिः “दस्मः दर्शनीयः “वरुणो “न वरुण इव । वरुणस्तमोवारक आदित्यो वरुण एव वा । स इव “मायी मायावान्। तथा “अयं “कनीनः कमनीयः “ऋतुपाः ऋतौ पाता “अवेदि अज्ञायि । तथा “अररुम् असुरमेतन्नामानम् “अमिमीत अमिनात् । “यः अररुः “चतुष्पात् पादचतुष्टयोपेतः । “ मीङ् हिंसायाम्' । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥


अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।

सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥११

अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ ।

सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥११

अस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः ।

सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥११

“अस्य इन्द्रस्य “स्तोमेभिः स्तोत्रैः “औशिजः उशिजः पुत्रः “ऋजिश्वा एतन्नामा “वृषभेण वज्रेण वृषभेण वा युक्तं “व्रजं गोष्ठं “पिप्रोः एतन्नामकस्यासुरस्य संबन्धिनं तेनापहृत्य पालितं “दरयत् अदारयत् । “यत् यदा “सुत्वा सोमस्य सोता । ‘सुयजोर्ङ्वनिप्' इति वनिप् । “ ह्रस्वस्य पिति° ' इति तुक् । “यजतः यष्टौशिजः “गीः स्तुतिवाचः "दीदयत् दीपितवान् । तथा यद्यदा “इयानः गच्छन् “पुरः शत्रुपुराणि । यद्वा । पुरः पुर इव संघीभूतानि पापानि । “अभि “भूत् अभिभवति । केन साधनेन । “वर्पसा । रूपनामैतत् । रूपेणेन्द्रानुगृहीतेन । यदैवमकरोत् तदा व्रजं दरयदिति संबन्धः ॥


ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।

स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥१२

ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् ।

सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥१२

एव । महः । असुर । वक्षथाय । वम्रकः । पट्ऽभिः । उप । सर्पत् । इन्द्रम् ।

सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥१२

अनया स्तुतिमुपसंहृत्याभिमतं वम्रकः प्रार्थयते । हे "असुर बलवन्निन्द्र त्वाम् “एव एवमुक्तप्रकारेण “महः महतो हविषः स्तोत्रस्य वा “वक्षथाय वहनाय महतः स्वर्गादेः प्रापणाय वा “षड्भिः पादैः “उप “सर्पत् उपागमत् । “सः “इयानः उपागम्यमानः सन् “करति करोतु “स्वस्तिम् अविनाशम् “अस्मै वम्रकाय । तथा “इषम् अन्नम् “ऊर्जं रसं “सुक्षितिं सुनिवासं सम्यक् “विश्वं सर्वम् “आभाः आहरतु ॥ ॥ १५ ॥ ॥ ८ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९९&oldid=208331" इत्यस्माद् पुनः प्राप्तिः