ऋग्वेदः सूक्तं १०.९
← सूक्तं १०.८ | ऋग्वेदः - मण्डल १० सूक्तं १०.९ त्रिशिरास्त्वाष्ट्रः, सिन्धुद्वीप आम्बरीषो वा |
सूक्तं १०.१० → |
दे. आपः। गायत्री, ५ वर्धमाना गायत्री, ७ प्रतिष्ठा गायत्री, ८-९ अनुष्टुप् |
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥१॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ॥२॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥३॥
शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ॥४॥
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
अपो याचामि भेषजम् ॥५॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवम् ॥६॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक्च सूर्यं दृशे ॥७॥
इदमापः प्र वहत यत्किं च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥८॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥९॥
सायणभाष्यम्
‘आपो हि' इति नवर्चं नवमं सूक्तम् । अम्बरीषस्य राज्ञः पुत्रः सिन्धुद्वीप ऋषिस्त्वष्टृपुत्रस्त्रिशिरा वा । ' इदमापः' इत्यादिके द्वे अनुष्टुभौ ।' ईशाना ' इति वर्धमाना। ‘आपः पृणीत' इति प्रतिष्ठा । शिष्टा गायत्र्यः । आपो देवता । तथा चानुक्रान्तम्- आपो हि सिन्धुद्वीपो वाम्बरीष आपं गायत्रं द्व्यनुटुबन्तं पञ्चमी वर्धमाना सप्तमी प्रतिष्ठा' इति । गतः सूक्तविनियोगः । आग्निमारुते 'आपो हि ष्ठा' इत्याद्यास्तिस्रः । सूत्रितं च--’आपो हि ष्ठेति तिस्रो वियतमप उपस्पृशन्' (आश्व. श्रौ. ५. २०) इति ॥
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥१
आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥१
आपः । हि । स्थ । मयःऽभुवः । ताः । नः । ऊर्जे । दधातन ।
महे । रणाय । चक्षसे ॥१
“हि यस्मात् कारणात् "आपः या यूयं "मयोभुवः सुखस्य भावयित्र्यः “स्थ भवथ “ताः तादृश्यो यूयं "नः अस्मान् “ऊर्जे अन्नाय “दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । "महे महते "रणाय रमणीयाय "चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ ॥२
यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥२
यः । वः । शिवऽतमः । रसः । तस्य । भाजयत । इह । नः ।
उशतीःऽइव । मातरः ॥२
हे आपः "वः युष्माकं स्वभूतः "यः "रसः "शिवतमः सुखतमः "इह अस्मिँल्लोके "तस्य तं रसं “नः अस्मान् “भाजयत सेवयत । उपयोजयतेत्यर्थः। तत्र दृष्टान्तः । "उशतीरिव उशत्य इव पुत्रसमृद्धिं कामयमानाः "मातरः स्तन्यरसं यथा भाजयन्ति प्रापयन्ति तद्वत् ।।
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥३
तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥३
तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ ।
आपः । जनयथ । च । नः ॥३
हे आपः यूयं "यस्य पापस्य “क्षयाय विनाशाय अस्मान् "जिन्वथ प्रीणयथ “तस्मै तादृशाय पापक्षयाय “अरं क्षिप्र "वः युष्मान् "गमाम गमयाम । वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा । यस्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयमरमलं पर्याप्तं यथा भवति तथा वो युष्मान् गमाम गच्छाम । किंच हे "आपः "नः अस्मान् जनयथ “च । पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ।।
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवंतु पी॒तये॑ ।
शं योर॒भि स्र॑वंतु नः ॥४
शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥४
शम् । नः । देवीः । अभिष्टये । आपः । भवन्तु । पीतये ।
शम् । योः । अभि । स्रवन्तु । नः ॥४
“नः अस्माकं पापापनोदद्वारेण "शं सुखं "भवन्तु “देवीः देव्यः “आपः। "अभिष्टये अस्मद्यज्ञाय भवन्तु । यज्ञाङ्गभावाय च भवन्त्वित्यर्थः । "पीतये पानाय च भवन्तु । तथा “शम् उत्पन्नानां रोगाणां शमनं "योः यावनमनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अपि च "नः अस्माकम् “अभि उपरि "स्रवन्तु शुद्ध्यर्थं सिञ्चन्तु ॥
ईशा॑ना॒ वार्या॑णां॒ क्षयं॑तीश्चर्षणी॒नां ।
अ॒पो या॑चामि भेष॒जं ॥५
ईशा॑नाः । वार्या॑णाम् । क्षय॑न्तीः । च॒र्ष॒णी॒नाम् ।
अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥५
ईशानाः । वार्याणाम् । क्षयन्तीः । चर्षणीनाम् ।
अपः । याचामि । भेषजम् ॥५
“वार्याणां वारिप्रभवानां व्रीहियवादीनां यद्वा वरणीयानां धनानाम् “ईशानाः ईश्वराः “चर्षणीनां मनुष्याणां “क्षयन्तीः निवासयित्रीः "अपः उदकानि “भेषजम् । सुखनामैतत् । पापापनोदनं सुखं “याचामि अहं प्रार्थये ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वशं॑भुवं ॥६
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् ॥६
अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
अग्निम् । च । विश्वऽशम्भुवम् ॥६
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥७
आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥७
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
ज्योक् । च । सूर्यम् । दृशे ॥७
इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तं ॥८
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥८
इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥८
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥९
आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥९
आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥९
‘अप्सु मे सोमो अब्रवीत् ' इत्यादिकाश्चतस्र ऋचः प्रथमाष्टके द्वितीयाध्याये विनियोगपुरःसरं व्याख्याताः (ऋ. सं. १. २३. २०-२३ ) ॥ ॥ ५ ॥
टिप्पणी
सिन्धुद्वीपः -- वराहपुराणे २८ कथनमस्ति यत् सिन्धुद्वीपः पूर्वजन्मनि नमुचिः असुरः आसीत्। इन्द्रेण फेननिर्मितेन वज्रेण नमुचेः शिरस्य छेदनं प्रसिद्धमस्ति। शतपथब्राह्मणे १२.७.३.४ नमुचेराख्यानं सौत्रामणीयागस्य संदर्भे वर्णितमस्ति। सौत्रामणीयागे एकस्मिन् पार्श्वे यजमानः पयःआहुतिभिः यागं करोति, अन्यपार्श्वे प्रतिप्रस्थाता सुरया यागं करोति। आपो हि ष्ठा मयोभुवः मध्ये मयः शब्दः मयासुरस्य संकेतं भवितुं शक्यते, यः नमुचेः भ्राता आसीत्।
१०.९.१ आपो हि ष्ठा इति
उखानिर्माणम् -- पर्णकषायनिष्पक्वा एता आपो भवन्ति । स्थेम्ने न्वेव यद्वेव पर्णकषायेण सोमो वै पर्णश्चन्द्रमा उ वै सोम एतदु वा एकमग्निरूपमेतस्यै वाग्निरूपस्योपाप्त्यै । ता उपसृजति । आपो हि ष्ठा मयोभुव इति यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सऽर्क्षो देवता तद्यजुस्ता हैता आप एवैष त्रिचस्तद्या अमूराप एकं रूपं समदृश्यन्त ता एतास्तदेवैतद्रूपं करोति। अथ फेनं जनयित्वान्ववदधाति । यदेव तत्फेनो द्वितीयं रूपमसृज्यत तदेवैतद्रूपं करोत्यथ यामेव तत्र मृदं संयौति सैव मृद्यत्तत्तृतीयं रूपमसृज्यतैतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवैनमेतज्जनयति -माश ६.५.१.३
१०.९.४ शं नो देवीरभीष्टये इति
काशीतम् (ग्रामगेयः)
शंनोदेवीयाभिश्चतसृभिरुरोऽभिमृश्य । समिन्द्र णः सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । त्वष्टा सुदत्रो वि दधातु राय इति प्राणान् । अनु नो मार्ष्टु तत्वो यद्विलिष्टम् । इति मुखं विसृज्य । विष्णुक्रमान्क्रमते - शांश्रौ.सू. ४.११.६
शंनोदेवीयाभिश्चतसृभिरुरोऽभिमृश्य ७ समानं प्राणसंमर्शनं मुखविमार्जनं च ८ दक्षिणावृत आग्नीध्रीये दधि प्राश्य यथा दधिभक्षम् ९ पत्नीसंयाजान्संस्थाप्य हुतेषु समिष्टयजुःषु ९ अवभृथमवैति शांश्रौ.सू. ८.९.१०
अग्न्याधेयः -- प्राचीनप्रवणं देवयजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्यद्भिरवोक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति आप.श्रौ.सू. ५.४.१
अग्निचयनम् -- गार्हपत्यचितेरायतनं व्यायाममात्रं चतुरस्रं परिमण्डलं वोद्धत्य हरिण्या पलाशशाखया शमीशाखया वा संमृज्य प्राचीमुदीचीं वा शाखामुदसित्वा शं नो देवीरभिष्टय इत्यद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति । संज्ञानमित्यूषान् । तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति - आप.श्रौ.सू. १६.१४.३
१०.९.८ - ९ इदमापः प्र वहत इति
द्र. ऋ. १.२३.२२-२३
मण्डल १० | ||||
---|---|---|---|---|