ऋग्वेदः सूक्तं १०.१९०
← सूक्तं १०.१८९ | ऋग्वेदः - मण्डल १० सूक्तं १०.१९० माधुच्छन्दसोऽघमर्षणः। |
सूक्तं १०.१९१ → |
दे. भाववृत्तम् । अनुष्टुप् । |
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥१॥
समुद्रादर्णवादधि संवत्सरो अजायत ।
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥२॥
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥३॥
सायणभाष्यम्
‘ऋतम्' इति तृचमेकोनचत्वारिंशं सूक्तं मधुच्छन्दसः पुत्रस्याघमर्षणस्यार्षमानुष्टुभम् । रात्र्यादीनां भावानां सृष्ट्यादिप्रतिपादकत्वात्तादृग्रूप एवार्थो देवता । तथा चानुक्रान्तम्----ऋतं माधुच्छन्दसोऽघमर्षणो भाववृत्तमानुष्टुभं तु' इति । लिङ्गाद्विनियोगोऽवगन्तव्यः ॥
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ १
ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ ।
ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥१
ऋतम् । च । सत्यम् । च । अभीद्धात् । तपसः । अधि । अजायत ।
ततः । रात्री । अजायत । ततः । समुद्रः । अर्णवः ॥१
ऋतमिति सत्यनाम । ऋतं मानसं यथार्थसंकल्पनं सत्यं वाचिकं यथार्थभाषणम् । चकाराभ्यामन्यदपि शास्त्रीयं धर्मजातं समुच्चीयते । तत्सर्वमभीद्धादभितप्ताद्ब्रह्मणा पुरा सृष्ट्यर्थं कृतात्तपसोऽधि । अध्युपर्यर्थे । उपर्यजायत । उदपद्यत । ‘ तपस्तप्त्वेदं सर्वमसृजत ' (तै. आ. ८. ६ ) इति श्रुतेः । तपश्चात्र स्रष्टव्यपर्यालोचनलक्षणम् ।' यस्य ज्ञानमयं तपः' ( मु. उ. १, १. ९) इति श्रुत्यन्तरात् ॥ अभिपूर्वदिन्धेः कर्मणि निष्ठा । ‘ श्वीदितो निष्ठायाम् ' ( पा. सू. ७. २. १४ ) इतीट्प्रतिषेधः। ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ‘स्वरितो वानुदात्ते पदादौ ' इत्येकादेशः स्वर्यते ॥ यद्वा । अभीद्धादभितः प्रकाशमानात् परमात्मनो मायाधिष्ठानरूपादुपादानभूतादृतं सत्यं चाजायत । ‘जनिकर्तुः प्रकृतिः' ( पा. सू. १. ४. ३०) इति प्रकृतेरपादानसंज्ञा ॥ ततस्तस्मादेवेश्वराद्रात्री । उपलक्षणमेतदह्रोऽपि । अहश्च रात्रिश्चाजायत ॥ ‘ रात्रेश्चाजसौ ' (पा. सू. ४. १. ३१) इति ङीप् । ततस्तस्मादेवेश्वरादर्णवोऽर्णसोदकेन युक्तः समुद्रश्चाजायत । समुद्रशब्दोऽन्तरिक्षोदध्योः साधारण इत्यभिमतार्थस्य प्रकाशनायार्णवशब्देन विशेष्यते । ‘ अर्णसः सलोपश्च'( का. ५. २. १०९. ३ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च ॥
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ २
स॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । सं॒व॒त्स॒रः । अ॒जा॒य॒त॒ ।
अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥२
समुद्रात् । अर्णवात् । अधि । संवत्सरः । अजायत ।
अहोरात्राणि । विऽदधत् । विश्वस्य । मिषतः । वशी ॥२
अर्णवात्समुद्रात्सृष्टादध्यूर्ध्वं संवत्सरः संवत्सरोपलक्षितः सर्वः कालोऽजायत । श्रूयते हि -- ‘ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि कला मुहूर्ताः काष्ठाश्च ' (तै. आ. १०. १. २) इति । स चेश्वरोऽहोरात्राण्येतदुपलक्षितानि सर्वाणि भूतजातानि विदधत् कुर्वन् सृजन् ॥ ‘ अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । ततः समासे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ मिषतो निमिषादियुक्तस्य विश्वस्य सर्वस्य प्राणिजातस्य वशी स्वामी भूत्वा वर्तते ॥
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥ ३
सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् ।
दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥३
सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् ।
दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥३
सूर्याचन्द्रमसौ कालस्य ध्वजभूतौ दिवं च पृथिवीं चान्तरिक्षं च इत्थं त्रिभुवनं स्वः । स्वःशब्दः सुखवाची । दिवो विशेषणम् । सुखरूपां दिवम् । तदेतत्सर्वं धाता विधाता यथापूर्वं पूर्वस्मिन् कल्पे अकल्पयत् सृष्टवान् तथैवागामिन्यपि कल्पे कल्पयिष्यतीत्यर्थः ॥ ॥ ४८ ।
टिप्पणी
अघमर्षण-सूक्त में प्रथम पक्ष को सत्यं की, तो द्वितीय पक्ष को ऋतम् की प्रवृत्ति कहा गया है। - अघमर्षणसूक्तस्य विवेचनम्
मण्डल १० | ||||
---|---|---|---|---|