ऋग्वेदः सूक्तं १०.४

(ऋग्वेद: सूक्तं १०.४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.३ ऋग्वेदः - मण्डल १०
सूक्तं १०.४
त्रित आप्त्यः
सूक्तं १०.५ →
दे. अग्निः। त्रिष्टुप्


प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु ।
धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥१॥
यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ ।
दूतो देवानामसि मर्त्यानामन्तर्महाँश्चरसि रोचनेन ॥२॥
शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना ।
धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः ॥३॥
मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से ।
शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन् ॥४॥
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः ।
अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः ॥५॥
तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् ।
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः ॥६॥
ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् ।
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥७॥

सायणभाष्यम्

‘प्र ते' इति सप्तर्चं चतुर्थं सूक्तम् । ऋष्यायाः पूर्ववत् । ‘प्र ते' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु ।

धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥१

प्र । ते॒ । य॒क्षि॒ । प्र । ते॒ । इ॒य॒र्मि॒ । मन्म॑ । भुवः॑ । यथा॑ । वन्द्यः॑ । नः॒ । हवे॑षु ।

धन्व॑न्ऽइव । प्र॒ऽपा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे॑ । पू॒रवे॑ । प्र॒त्न॒ । रा॒ज॒न् ॥१

प्र । ते । यक्षि । प्र । ते । इयर्मि । मन्म । भुवः । यथा । वन्द्यः । नः । हवेषु ।

धन्वन्ऽइव । प्रऽपा। असि । त्वम् । अग्ने । इयक्षवे । पूरवे । प्रत्न । राजन् ॥ १ ॥

हे अग्ने “ते तुभ्यं हविः “प्र "यक्षि प्रयच्छामि । यजिर्दानार्थः । तथा “मन्म मननीयां स्तुतिं “ते त्वदर्थ “प्र “इयर्मि प्रेरयामि प्रोच्चारयामि । "वन्द्यः सर्वैर्वन्दनीयस्त्वं “नः अस्मदीयेषु "हवेषु देवाह्वानेषु यथा एवं संनिहितः “भुवः भवसि तथा हविः प्रयच्छामि स्तौमि च । हे “प्रत्न पुराण “राजन् सर्वस्य जगतः स्वामिन् हे “अग्ने सः “त्वम् “इयक्षवे यष्टुमिच्छते "पूरवे। पूरुरिति मनुष्यनाम। मनुष्याय यजमानाय हविर्भिर्देवान् पूरयित्रे जनाय “धन्वन्निव “प्रपा “असि। यथा धन्वन् धन्वनि मरौ निरुदकप्रदेशे प्रपा। प्रपिबन्त्यत्रेति प्रपा । सा यथोदकप्रदानेन जनेभ्यः सुखदा भवति एवं त्वं धनदानेन तस्मै सुखदाता भवसि ॥


यं त्वा॒ जना॑सो अ॒भि सं॒चर॑न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ ।

दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥२

यम् । त्वा॒ । जना॑सः । अ॒भि । स॒म्ऽचर॑न्ति । गावः॑ । उ॒ष्णम्ऽइ॑व । व्र॒जम् । य॒वि॒ष्ठ॒ ।

दू॒तः । दे॒वाना॑म् । अ॒सि॒ । मर्त्या॑नाम् । अ॒न्तः । म॒हान् । च॒र॒सि॒ । रो॒च॒नेन॑ ॥२

यम् । त्वा। जनासः । अभि । सम्ऽचरन्ति । गावः । उष्णम्ऽइव । व्रजम् । यविष्ठ ।

दूतः । देवानाम् । असि । मर्त्यानाम् । अन्तः । महान् । चरसि । रोचनेन ॥ २ ॥

हे "यविष्ठ युवतम अग्ने “यं “त्वा त्वां “जनासः जना यजमानाः फलप्राप्त्यर्थम् “अभि “संचरन्ति अभितः परिचरन्ति सेवन्ते। तत्र दृष्टान्तः । “गावः “उष्णमिव यथा गावः शीतार्ता • उष्णं शीतजनितदुःखापनोदनार्थमुष्णं “व्रजं गोष्ठमभिगच्छन्ति तद्वत्। स त्वं “देवानाम् इन्द्रादीनां “मर्त्यानां मनुष्याणां च “दूतः “असि हविष्प्रापणद्वारा। ततः “महान् त्वम् “अन्तः द्यावापृथिव्योर्मध्ये हवींष्यादाय “रोचनेन अन्तरिक्षेण लोकेन “चरसि गच्छसि । तं त्वां स्तुम इति शेषः ॥


शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना ।

धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥३

शिशु॑म् । न । त्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा॑ना ।

धनोः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । हर्य॑न् । जिगी॑षसे । प॒शुःऽइ॑व । अव॑ऽसृष्टः ॥३

शिशुम् । न । त्वा । जेन्यम् । वर्धयन्ती । माता । बिभर्ति । सचनस्यमाना।

धनोः । अधि । प्रऽवता । यासि । हर्यन् । जिगीषसे । पशुःऽइव । अवऽसृष्टः ॥ ३ ॥

हे अग्ने “जेन्यं जयशीलं “त्वा त्वां “शिशुं “न पुत्रमिव “वर्धयन्ती पोषयन्ती “माता पृथिवी "सचनस्यमाना संपर्कमिच्छन्ती सती “बिभर्ति धारयति । स त्वं “हर्यन् कामयमानः सन्नस्मिँल्लोके “धनोरधि । अधिः सप्तम्यर्थद्योतकः । अन्तरिक्षात् “प्रवता प्रवणेन मार्गेण “यासि यज्ञं प्रत्यागच्छसि । किंच त्वम् “अवसृष्टः यष्टृभिर्हविरादाय “जिगीषसे देवान् प्रति गन्तुमिच्छसि । कथमिव । “पशुरिव । यथा विमुक्तः पशुर्गोष्ठं प्रत्यागच्छति तद्वत् ॥


मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से ।

शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पति॒ः सन् ॥४

मू॒राः । अ॒मू॒र॒ । न । व॒यम् । चि॒कि॒त्वः॒ । म॒हि॒ऽत्वम् । अ॒ग्ने॒ । त्वम् । अ॒ङ्ग । वि॒त्से॒ ।

शये॑ । व॒व्रिः । चर॑ति । जि॒ह्वया॑ । अ॒दन् । रे॒रि॒ह्यते॑ । यु॒व॒तिम् । वि॒श्पतिः॑ । सन् ॥४

मूराः । अमूर। न । वयम् । चिकित्वः । महिऽत्वम् । अग्ने । त्वम् । अङ्ग । वित्से ।

शये । वृव्रिः । चरति । जिह्वया । अदन् । रेरिह्यते । युवतिम् । विश्पतिः । सन् ॥ ४ ॥

हे “अमूर अमूढ अत एव “चिकित्वः चेतनवन् हे अग्ने “मूराः मूढाः “वयं तव माहात्म्यं “न जानीमः । किंतु हे अग्ने “त्वमङ्ग। अङ्गेति निपात एवार्थे । त्वमेव तव “महित्वं माहात्म्यं “वित्से जानासि । त्वत्तः कोऽन्यो वेदितुमर्हति । किंच “वव्रिः जीर्णः ओषधीसङ्गः “शये शेते। तिष्ठति । यद्वा । वव्रिरिति रूपनाम सामर्थ्याच्चान्तर्णीतमत्वर्थं द्रष्टव्यम्। अहवनीयाख्येन रूपेण रूपवान् शये चरति । अथ जिह्वया ज्वालाख्यया “अदन् हवींषि भक्षयन् “चरति । वाक्यभेदादनिघातः। किंच “विश्पतिः विशां स्वामी “सन् अग्निः “युवतिम् आत्मनो मिश्रयित्रीमाहुतिं दीर्घप्रसूतया ज्वालया जिह्वया “रेरिह्यते अत्यर्थं लेढि आस्वादयति ॥ ‘ लिह आस्वादने । यङि रूपम् । यद्वा । सोऽग्निर्युवतिं तरुणीं जीर्णौषधिकां पृथिवीमास्वादयति ॥


कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः ।

अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ताः॑ ॥५

कूऽचि॑त् । जा॒य॒ते॒ । सन॑यासु । नव्यः॑ । वने॑ । त॒स्थौ॒ । प॒लि॒तः । धू॒मऽके॑तुः ।

अ॒स्ना॒ता । आपः॑ । वृ॒ष॒भः । न । प्र । वे॒ति॒ । सऽचे॑तसः । यम् । प्र॒ऽनय॑न्त । मर्ताः॑ ॥५

कूऽचित् । जायते । सनयासु । नव्यः । वने । तस्थौ । पलितः । धूमकेतुः ।

अस्नाता। आपः । वृषभः । न । प्र। वेति । सऽचेतसः। यम्। प्रऽनयन्त । मर्ताः ॥५॥

“नव्यः नवतरः स्तुत्यो वाग्निः “कूचित् क्वचित् प्रदेशे “जायते । कुत्र। “सनयासु पुराणीषु जीर्णास्वोषधीष्वरण्योः । तथा “पलितः पालयिता श्वेतवर्णः “धूमकेतुः धूमप्रज्ञानोऽग्निः वने सर्वस्मिन्नरण्ये “तस्थौ तिष्ठति । यद्वा । वन उदके मेघगते विद्युदात्मना तिष्ठति च । “अस्नाता स्नानमकुर्वन्ननपेक्षितस्नानः सर्वदा शुद्धः सोऽग्निः “आपः । सुब्व्यत्ययः । अप उदकानि शान्त्यर्थं “प्र “वेति प्रगच्छति । तत्र दृष्टान्तः । “वृषभो “न । यथा वृषभस्तृष्णोपशमनार्थमरण्यमध्यस्थान्युकानि प्रगच्छति तद्वत् । "मर्ताः मनुष्या ऋत्विजः सचेतसः समानमनस्काः समानप्रज्ञानाः सन्तः "यम् अग्निं “प्रणयन्त हविर्भिः प्रीणयन्ति ।


त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् ।

इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः॑ ॥६

त॒नू॒त्यजा॑ऽइव । तस्क॑रा । व॒न॒र्गू इति॑ । र॒श॒नाभिः॑ । द॒शऽभिः॑ । अ॒भि । अ॒धी॒ता॒म् ।

इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य॑सी । म॒नी॒षा । यु॒क्ष्व । रथ॑म् । न । शु॒चय॑त्ऽभिः । अङ्गैः॑ ॥६

तनूत्यजाऽइव । तस्करा। वनर्गू इति । रशनाभिः । दशऽभिः । अभि । अधीताम् ।

इयम् । ते। अग्ने । नव्यसी । मनीषा। युक्ष्व। रथम् । न । शुचयत्ऽभिः । अङ्गैः ॥ ६ ॥

हे अग्ने “वनर्गू वनगामिनौ “तनूत्यजा चौर्ये मर्तुं कृतनिश्चयौ धृष्टौ “तस्करा तस्करौ यथा पथिकं मोषणार्थं रज्ज्वा बद्ध्वाकृष्य च क्वचित् प्रदेशे स्थापयतः तद्वत् । तथा यास्कः----’ तनूत्यक् तनूत्यक्ता वनर्गू वनगामिनावग्निमन्थनौ बाहू तस्कराभ्यामुपमिमीते ' (निरु. ३. १४ ) इत्यादि । अधीताम् ॥ दधातेर्लुङि सिचो लुकि ‘ छन्दस्युभयथा ' इति तस आर्धधातुकत्वेन ङित्त्वात् ‘घुमास्था इतीकारः । ततो हे अग्ने “ते त्वदर्थं “नव्यसी नवतरा “इयं मनीषा स्तुतिर्मया क्रियते । एतज्ज्ञात्वा “शुचयद्भिः सर्वं प्रकाशयद्भिरात्मीयैः “अङ्गैः तेजोभिः आत्मानं मदीयं यज्ञं प्रति “युक्ष्व योजय । कथमिव । “रथं “न । यथा रथमश्वैः संयोजयन्ति तद्वत् ॥ उखासंभरणीयेष्टावग्नेर्ब्रह्मण्वतो याज्या ‘ ब्रह्म च ते ' इत्येषा । सूत्रितं च--- ब्रह्म च ते जातवेदो नमश्च पुरूण्यग्ने पुरुधा त्वाया' (आश्व. श्रौ. ४. १) इति ॥


ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।

रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥७

ब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् ।

रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥७

ब्रह्म । च । ते । जातऽवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् ।

रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रऽयुच्छन् ।। ७ ।।

हे “जातवेदः जातप्रज्ञाग्ने “ते त्वदर्थं “ब्रह्म अस्माभिर्दीयमानं हवीरूपमन्नं “वर्धनी वर्धनं "भूत् भवतु । तथा “नमः नमस्कारश्च । किंच “इयम् इदानीं क्रियमाणैषा स्तुतिः सदमित् सदैव “वर्धनी वर्धयित्री “भूत् भवतु । तस्माद्धे “अग्ने “नः अस्माकं “तनयानि पुत्रान् “तोका पौत्रांश्च “रक्ष पालय । "उत अपि च “अप्रयुछन् अप्रमाद्यंस्त्वं नः अस्माकं तन्वः अङ्गानि “रक्ष ॥ ॥ ३२ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४&oldid=207982" इत्यस्माद् प्रतिप्राप्तम्