प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.३६

(ऋग्वेद: सूक्तं १०.३६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.३५ ऋग्वेदः - मण्डल १०
सूक्तं १०.३६
लुशो धानाकः
सूक्तं १०.३७ →
दे. विश्वे देवाः। जगती, १३-१४ त्रिष्टुप्


उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा ।
इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः ॥१॥
द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः ।
मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥२॥
विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः ।
स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥३॥
ग्रावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरृतिं विश्वमत्रिणम् ।
आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥४॥
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु ।
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥५॥
दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये ।
प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥६॥
उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् ।
रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥७॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम् ।
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे ॥८॥
सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः ।
ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥९॥
ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन ।
जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥१०॥
महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम् ।
यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥११॥
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये ।
श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥१२॥
ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।
ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥१३॥
सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥१४॥


सायणभाष्यम्

‘उषासानक्ता' इति चतुर्दशर्चं सप्तमं सूक्त धानाकस्य लुशस्यार्षम् । आदितो द्वादश जगत्यस्ततो द्वे त्रिष्टुभौ । विश्वे देवा देवता । पूर्व सूक्ते ‘ वैश्वदेवं तु द्वित्रिष्टुबन्तं तु ' इत्युक्तत्वात् । ‘ उषासानक्ता ' इत्यनुक्रान्तम् । आभिप्लविके षष्ठेऽहनि वैश्वदेव इदं वैश्वदेवनिविद्धानम् । सूत्रितं च – कतरा पूर्वोषासानक्तेति वैश्वदेवम्' (आश्व. श्रौ. ७. ७) इति ॥


उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

इन्द्रं॑ हुवे म॒रुत॒ः पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑ः ॥१

उ॒षसा॒नक्ता॑ । बृ॒ह॒ती इति॑ । सु॒ऽपेश॑सा । द्यावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

इन्द्र॑म् । हु॒वे॒ । म॒रुतः॑ । पर्व॑तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्व१॒॑रिति॑ स्वः॑ ॥१

उषसानक्ता । बृहती इति । सुऽपेशसा । द्यावाक्षामा । वरुणः । मित्रः । अर्यमा ।

इन्द्रम् । हुवे । मरुतः । पर्वतान् । अपः । आदित्यान् । द्यावापृथिवी इति । अपः । स्वरिति स्वः ॥१

बृहती बृहत्यौ महत्यौ "सुपेशसा सुरूपे “उषासानक्ता रात्र्युषसौ "द्यावाक्षामा द्यावापृथिव्यौ च “वरुणो "मित्रः मित्रावरुणौ च "अर्यमा च येऽत्र विहिता देवाः तानेतान् "इन्द्रं "मरुतः च “पर्वतान् च “अपः उदकानि च "आदित्यान् च "द्यावापृथिवी द्यावापृथिव्यौ च । पुनर्द्यावापृथिव्योर्ग्रहणमादरार्थम् । "अपः अन्तरिक्षं च "स्वः सर्वं च यष्टव्यं देवजातं "हुवे ह्वयामि ॥


द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः ।

मा दु॑र्वि॒दत्रा॒ निरृ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥२

द्यौः । च॒ । नः॒ । पृ॒थि॒वी । च॒ । प्रऽचे॑तसा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । र॒क्ष॒ता॒म् । अंह॑सः । रि॒षः ।

मा । दुः॒ऽवि॒दत्रा॑ । निःऽऋ॑तिः । नः॒ । ई॒श॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥२

द्यौः । च । नः । पृथिवी । च । प्रऽचेतसा । ऋतवरी इत्यृतऽवरी । रक्षताम् । अंहसः । रिषः ।

मा । दुःऽविदत्रा । निःऽऋतिः । नः । ईशत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥२

“प्रचेतसा सुबुद्धी “ऋतावरी यज्ञवत्यौ सत्यवत्यौ “द्यौश्च "पृथिवी “च द्यावापृथिव्यावुभे “नः अस्मान् "रिषः हिंसकात् "अंहसः पापाच्च "रक्षताम् । किंच "दुर्विदत्रा कुत्सितज्ञाना “निर्ऋतिः मृत्युदेवता "नः अस्माकं "मा “ईशत ईश्वरी मा भूत् । किंच वयं "देवानां संबन्धि "तत् असाधारणम् "अवः रक्षणम् "अद्य अस्मिन्नहनि प्रधानयागदिवसे "वृणीमहे प्रार्थयामहे ।।


विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वत॑ः ।

स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥३

विश्व॑स्मात् । नः॒ । अदि॑तिः । पा॒तु॒ । अंह॑सः । मा॒ता । मि॒त्रस्य॑ । वरु॑णस्य । रे॒वतः॑ ।

स्वः॑ऽवत् । ज्योतिः॑ । अ॒वृ॒कम् । न॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥३

विश्वस्मात् । नः । अदितिः । पातु । अंहसः । माता । मित्रस्य । वरुणस्य । रेवतः ।

स्वःऽवत् । ज्योतिः । अवृकम् । नशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥३

“रेवतः धनवतः "मित्रस्य "वरुणस्य च धनवतोर्मित्रावरुणयोः "माता जननी “अदितिः देवी “नः अस्मान् "विश्वस्मात् सर्वस्मात् "अंहसः पापात् "पातु रक्षतु । किंच वयम् "अवृकं बाधकरहितं "स्वर्वत् सर्वं "ज्योतिः तेजः "नशीमहि । नशिः पलायनकर्मा । पलायनं च शीघ्रगमनम् । शीघ्रं प्राप्नुम इत्यर्थः । सिद्धमन्यत् ॥


ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निरृ॑तिं॒ विश्व॑म॒त्रिण॑म् ।

आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥४

ग्रावा॑ । वद॑न् । अप॑ । रक्षां॑सि । से॒ध॒तु॒ । दुः॒ऽस्वप्न्य॑म् । निःऽऋ॑तिम् । विश्व॑म् । अ॒त्रिण॑म् ।

आ॒दि॒त्यम् । शर्म॑ । म॒रुता॑म् । अ॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥४

ग्रावा । वदन् । अप । रक्षांसि । सेधतु । दुःऽस्वप्न्यम् । निःऽऋतिम् । विश्वम् । अत्रिणम् ।

आदित्यम् । शर्म । मरुताम् । अशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥४

“ग्रावा अभिषवपाषाणः “वदन् अभिषववेलायां शब्दं कुर्वन् "रक्षांसि यागविघ्नकारीणि "अप “सेधतु विनिवारयतु । "दुःस्वप्न्यं दुःस्वप्तप्रभवमस्मदीयमनिष्टं चाप सेधतु । “निर्ऋतिं मृत्युदेवतां चाप सेधतु । “अत्रिणम् अदनशीलं "विश्वं सर्वं पिशाचादिकं चाप सेधतु । एवं निर्विघ्नत्वेन निष्पन्ने यागे वयम् "आदित्यम् आदित्यानां संबन्धि “मरुतां च संबन्धि “शर्म सुखम् "अशीमहि प्राप्नुयाम । सिद्धमन्यत् ॥


एन्द्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पति॒ः साम॑भिरृ॒क्वो अ॑र्चतु ।

सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥५

आ । इन्द्रः॑ । ब॒र्हिः । सीद॑तु । पिन्व॑ताम् । इळा॑ । बृह॒स्पतिः॑ । साम॑ऽभिः । ऋ॒क्वः । अ॒र्च॒तु॒ ।

सु॒ऽप्र॒के॒तम् । जी॒वसे॑ । मन्म॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥५

आ । इन्द्रः । बर्हिः । सीदतु । पिन्वताम् । इळा । बृहस्पतिः । सामऽभिः । ऋक्वः । अर्चतु ।

सुऽप्रकेतम् । जीवसे । मन्म । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥५

“इन्द्रः “बर्हिः “आ “सीदतु । “इळा माध्यमिका स्तनयित्नुलक्षणा वागपि “पिन्वतां सिञ्चतु । "सामभिः गीयमानः “ऋक्वः स्तुतिमान् "बृहस्पतिः अपि “अर्चतु अस्मान् पूजयतु ।


दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ ।

प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥६

दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । अ॒स्माक॑म् । अ॒श्वि॒ना॒ । जी॒रऽअ॑ध्वरम् । कृ॒णु॒त॒म् । सु॒म्नम् । इ॒ष्टये॑ ।

प्रा॒चीन॑ऽरश्मिम् । आऽहु॑तम् । घृ॒तेन॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥६

दिविऽस्पृशम् । यज्ञम् । अस्माकम् । अश्विना । जीरऽअध्वरम् । कृणुतम् । सुम्नम् । इष्टये ।

प्राचीनऽरश्मिम् । आऽहुतम् । घृतेन । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥६

हे अश्विनौ युवां नोऽस्माकं "यज्ञं "दिविस्पृशं दिवि स्प्रष्टारं गन्तारं "कृणुतं कुरुतम् । तथा “जीराध्वरं क्षिप्रं हिंसारहितं च यज्ञमस्माकं “कृणुतं कुरुतम् । "इष्टये अभिलषितसिद्ध्यर्थं “सुम्नं सुखं च कुरुतम् । किंच “घृतेन आज्येन “आहुतम् अग्निं “प्राचीनरश्मिं देवाभिमुखं कुरुतमित्यर्थः । सिद्धमन्यत् ।।


उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव॑म् ।

रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥७

उप॑ । ह्व॒ये॒ । सु॒ऽहव॑म् । मारु॑तम् । ग॒णम् । पा॒व॒कम् । ऋ॒ष्वम् । स॒ख्याय॑ । श॒म्ऽभुव॑म् ।

रा॒यः । पोष॑म् । सौ॒श्र॒व॒साय॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥७

उप । ह्वये । सुऽहवम् । मारुतम् । गणम् । पावकम् । ऋष्वम् । सख्याय । शम्ऽभुवम् ।

रायः । पोषम् । सौश्रवसाय । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥७

"सुहवं स्वाह्वानं "पावकं शोधकम् "ऋष्वं दर्शनीयं “शंभुवं सुखस्य भावयितारं “रायः धनस्य “पोषं पोषकं "मारुतं मरुतां संबन्धिनं “गणं संघं "सख्याय सखिभावाय "उप ह्वये उपगम्य हृयामि । आगतं गणं "सौश्रवसाय शोभनान्नवत्त्वाय सुयशस्त्वाय वा वयं “धीमहि बुद्धौ निदधीमहि । सिद्धमन्यत् ।।


अ॒पां पेरुं॑ जी॒वध॑न्यं भरामहे देवा॒व्यं॑ सु॒हव॑मध्वर॒श्रिय॑म् ।

सु॒र॒श्मिं सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥८

अ॒पाम् । पेरु॑म् । जी॒वऽध॑न्यम् । भ॒रा॒म॒हे॒ । दे॒व॒ऽअ॒व्य॑म् । सु॒ऽहव॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ।

सु॒ऽर॒श्मिम् । सोम॑म् । इ॒न्द्रि॒यम् । य॒मी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥८

अपाम् । पेरुम् । जीवऽधन्यम् । भरामहे । देवऽअव्यम् । सुऽहवम् । अध्वरऽश्रियम् ।

सुऽरश्मिम् । सोमम् । इन्द्रियम् । यमीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥८

“अपाम् उदकानां “पेरुं पालकं "जीवधन्यम् । धन्या जीवा यस्मिन्नसौ जीवधन्यः । तं "देवाव्यं देवानां तर्पकं “सुहवं शोभनाह्वानं शोभनस्तुतिं वा “अध्वरश्रियं सुरश्मिं शोभनांशुं “सोमं “भरामहे धारयामः । पत्नीशालातो हविर्धानं प्रति प्रापयामो वा । भृतं तं सोमम् "इन्द्रियं वीर्यं “यमीमहि वयं याचामहे । सिद्धमन्यत् ॥


स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः ।

ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥९

स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः ।

ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥९

सनेम । तत् । सुऽसनिता । सनित्वऽभिः । वयम् । जीवाः । जीवऽपुत्राः । अनागसः ।

ब्रह्मऽद्विषः । विष्वक् । एनः । भरेरत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥९

“जीवाः जीवन्तः “जीवपुत्राः जीवनवत्पुत्राश्च "अनागसः अपराधवर्जिताश्च “वयं धनाका लुशाः "सनित्वभिः संभक्तृभिः पुत्रपौत्रादिभिः सह "सुसनिता शोभनेन भजनेन "तत् देवजातं “सनेम । स्तुत्या हविष्प्रदानेन च सं भजेमहि । किंच “ब्रह्मद्विषः ब्राह्मणानामस्माकं द्वेष्टारः "विष्वक् नानागच्छत् “एनः अस्मदीयं पापं "भरेरत आत्मनि धारयन्तु । पोषयन्तु । सिद्धमन्यत् ॥


ये स्था मनो॑र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो॑ देवा॒ ईम॑हे॒ तद्द॑दातन ।

जैत्रं॒ क्रतुं॑ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥१०

ये । स्थाः । मनोः॑ । य॒ज्ञियाः॑ । ते । शृ॒णो॒त॒न॒ । यत् । वः॒ । दे॒वाः॒ । ईम॑हे । तत् । द॒दा॒त॒न॒ ।

जैत्र॑म् । क्रतु॑म् । र॒यि॒मत् । वी॒रऽव॑त् । यशः॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥१०

ये । स्थाः । मनोः । यज्ञियाः । ते । शृणोतन । यत् । वः । देवाः । ईमहे । तत् । ददातन ।

जैत्रम् । क्रतुम् । रयिमत् । वीरऽवत् । यशः । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥१०

हे "देवाः "ये यूयं "मनोः मनुष्यस्य "यज्ञियाः यज्ञार्हाः "स्थ भवथ “ते यूयं “शृणोतन अस्मदीयां स्तुतिं “शृणुत । किंच हे देवाः “वः युष्मान् "यत् अभीष्टम् "ईमहे याचामहे “तत् "जैत्रं जयशीलं "क्रतुं प्रज्ञानं "रयिमत् धनवत् "वीरवत् पुत्राद्युपेतं "यशः च "ददातन नोऽस्मभ्यं प्रयच्छत । सिद्धमन्यत् ॥ ॥ १० ॥


म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणा॑म् ।

यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥११

म॒हत् । अ॒द्य । म॒ह॒ताम् । आ । वृ॒णी॒म॒हे॒ । अवः॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्वणा॑म् ।

यथा॑ । वसु॑ । वी॒रऽजा॑तम् । नशा॑महै । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥११

महत् । अद्य । महताम् । आ । वृणीमहे । अवः । देवानाम् । बृहताम् । अनर्वणाम् ।

यथा । वसु । वीरऽजातम् । नशामहै । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥११

“अद्य अस्मिन्नहनि "महतां श्रेष्ठानां “बृहतां वृद्धानाम् "अनर्वणाम् अप्रतिगतानां "देवानाम् इन्द्रादीनां संबन्धि "महत् अधिकम् "अवः रक्षणम् “आ “वृणीमहे प्रार्थयामहे । किंच वयं "यथा “वसु धनं “वीरजातम् अपत्यजातं च "नशामहै प्राप्नुयाम तथा ते देवाः कुर्वन्त्विति शेषः । सिद्धमन्यत् ॥


म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ ।

श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥१२

म॒हः । अ॒ग्नेः । स॒म्ऽइ॒धा॒नस्य॑ । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ ।

श्रेष्ठे॑ । स्या॒म॒ । स॒वि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥१२

महः । अग्नेः । सम्ऽइधानस्य । शर्मणि । अनागाः । मित्रे । वरुणे । स्वस्तये ।

श्रेष्ठे । स्याम । सवितुः । सवीमनि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥१२

“समिधानस्य समिध्यमानस्य "महः महतः "अग्नेः “शर्मणि सुखे वयं "स्याम भवेम । किंच वयम् "अनागाः अनागसः । वचनव्यत्ययः । स्याम । अपि च "मित्रे “वरुणे मित्रावरुणयोः । षष्ठ्यर्थे सप्तमी । "सवितुः च "सवीमनि प्रसवे "स्वस्तये सर्वप्रकाराविनाशाय स्याम । सिद्धमन्यत् ॥


ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।

ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥१३

ये । स॒वि॒तुः । स॒त्यऽस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ । व्र॒ते । वरु॑णस्य । दे॒वाः ।

ते । सौभ॑गम् । वी॒रऽव॑त् । गोऽम॑त् । अप्नः॑ । दधा॑तन । द्रवि॑णम् । चि॒त्रम् । अ॒स्मे इति॑ ॥१३

ये । सवितुः । सत्यऽसवस्य । विश्वे । मित्रस्य । व्रते । वरुणस्य । देवाः ।

ते । सौभगम् । वीरऽवत् । गोऽमत् । अप्नः । दधातन । द्रविणम् । चित्रम् । अस्मे इति ॥१३

“ये "विश्वे "देवाः "सत्यसवस्य सत्यप्रसवस्य "सवितुः "मित्रस्य "वरुणस्य मित्रावरुणयोश्च “व्रते प्रसवाख्ये कर्मणि भवन्ति "ते यूयं "सौभगं सौभाग्यं "वीरवत् पुत्राद्युपेतं “गोमत् गोयुक्तं “चित्रं पूजनीयं "द्रविणं धनं च "अप्नः कर्म व "अस्मे मह्यं "दधातन प्रयच्छत ॥


स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।

स॒वि॒ता न॑ः सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑ः ॥१४

स॒वि॒ता । प॒श्चाता॑त् । स॒वि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्ता॑त् । स॒वि॒ता । अ॒ध॒रात्ता॑त् ।

स॒वि॒ता । नः॒ । सु॒व॒तु॒ । स॒र्वऽता॑तिम् । स॒वि॒ता । नः॒ । रा॒स॒ता॒म् । दी॒र्घम् । आयुः॑ ॥१४

सविता । पश्चातात् । सविता । पुरस्तात् । सविता । उत्तरात्तात् । सविता । अधरात्तात् ।

सविता । नः । सुवतु । सर्वऽतातिम् । सविता । नः । रासताम् । दीर्घम् । आयुः ॥१४

“पश्चातात् पश्चिमतः स्थितः "सविता “पुरस्तात् पूर्वतश्च स्थितः "सविता “उत्तरात्तात उत्तरतः स्थितश्च “सविता “नः अस्माकं “सर्वतातिं सर्वमभिलषितं धनादिकं "सुवतु प्रेरयतु । किंच "सविता एव “नः अस्मभ्यं “दीर्घं बहुकालीनम् "आयुः "रासतां ददातु । बहुधा सवितृपदग्रहणमत्यन्तमादरार्थम् ॥ ॥ ११ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३६&oldid=202093" इत्यस्माद् पुनः प्राप्तिः