प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.७३

(ऋग्वेद: सूक्तं १०.७३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.७२ ऋग्वेदः - मण्डल १०
सूक्तं १०.७३
गौरिवीतिः शाक्त्यः
सूक्तं १०.७४ →
दे. इन्द्रः। त्रिष्टुप्


जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ।
अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥१॥
द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इन्द्रम् ।
अभीवृतेव ता महापदेन ध्वान्तात्प्रपित्वादुदरन्त गर्भाः ॥२॥
ऋष्वा ते पादा प्र यज्जिगास्यवर्धन्वाजा उत ये चिदत्र ।
त्वमिन्द्र सालावृकान्सहस्रमासन्दधिषे अश्विना ववृत्याः ॥३॥
समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि ।
वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥४॥
मन्दमान ऋतादधि प्रजायै सखिभिरिन्द्र इषिरेभिरर्थम् ।
आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि ॥५॥
सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः ।
ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ ॥६॥
त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायम् ।
त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान् ॥७॥
त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ ।
अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ ॥८॥
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् ।
पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥९॥
अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् ।
मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥१०॥
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥११॥


सायणभाष्यम्

‘ जनिष्ठाः' इत्येकादशर्चं पञ्चमं सूक्तं शक्तिपुत्रस्य गौरिवीतरार्षं मारुतं त्रैष्टुभम् । तथा चानुक्रान्तं— जनिष्ठा एकादश गौरिवीतिः' इति । अग्निष्टोमे मरुत्वतीयशस्त्र इदं सूक्तं निविद्धानम् । सूत्रितं च -- ‘ जनिष्ठा उग्र इत्येकभूयसीः शस्त्वा मरुत्वतीयां निविदं दध्यात् ' ( आश्व. श्रौ. ५, १४ ) इति । सौमिकचातुर्मास्येषु वैश्वदेवेऽप्येतन्मरुत्वतीयं निविद्धानम् । सूत्रितं च-- ‘ जनिष्ठा उग्र उग्रो जज्ञ इति माध्यंदिनः ' ( आश्व. श्रौ. ९.२ ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं- जनिष्ठा उग्रः सहसे तुरायेति निविद्धानम् ' ( ऐ. आ. ५.१.१ ) इति ॥


जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।

अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥१

जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भिमानः ।

अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥१

जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुलऽअभिमानः ।

अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥१

हे इन्द्र “सहसे बलाय “तुराय शत्रूणां हिंसनाय त्वम् “उग्रः उद्गूर्णबलः “जनिष्ठाः अजायथाः । कीदृशस्त्वम् । “मन्द्रः स्तुत्यः “ओजिष्ठः । ओजः शरीरबलम्। अतिशयेन तद्वान् । “बहुलाभिमानः भूयिष्ठाभिमानी । ईदृशं महानुभावम् “इन्द्रम् “अत्र वृत्रवधे “मरुतश्चित् मरुतोऽपि “अवर्धन् स्तुत्या साहाय्येन वा वर्धितवन्तः । “यत् यदा “धनिष्ठा धारयित्रीन्द्रमाता “वीरं “दधनत् अधारयत् ॥


द्रु॒हो निष॑त्ता पृश॒नी चि॒देवै॑ः पु॒रू शंसे॑न वावृधु॒ष्ट इन्द्र॑म् ।

अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भा॑ः ॥२

द्रु॒हः । निऽस॑त्ता । पृ॒श॒नी । चि॒त् । एवैः॑ । पु॒रु । शंसे॑न । व॒वृ॒धुः॒ । ते । इन्द्र॑म् ।

अ॒भिवृ॑ताऽइव । ता । म॒हा॒ऽप॒देन॑ । ध्वा॒न्तात् । प्र॒ऽपि॒त्वात् । उत् । अ॒र॒न्त॒ । गर्भाः॑ ॥२

द्रुहः । निऽसत्ता । पृशनी । चित् । एवैः । पुरु । शंसेन । ववृधुः । ते । इन्द्रम् ।

अभिवृताऽइव । ता । महाऽपदेन । ध्वान्तात् । प्रऽपित्वात् । उत् । अरन्त । गर्भाः ॥२

“द्रुहः द्रोग्धुरिन्द्रस्य “पृशनी “चित् सेनापि “निषत्ता तत्संनिधौ निषण्णाभूत् । “एवैः गन्तृभिर्मरुद्भिः सहितमिन्द्रं निषण्णेति संबन्धः । “ते अपि मरुतः “पुरु प्रभूतेन “शंसेन स्तोत्रेण “इन्द्रं “ववृधुः अवर्धयन् वृत्रं जिघांसन्तम् । अथ “महापदेन महता व्रजेन “अभीवृतेव परिवृतानीव गवादीनि तानि यथावरणापगमे निर्गच्छन्ति तद्वत् तान्युदकानि “ध्वान्तात् अन्धकाररूपात “प्रपित्वात् आसन्नात्प्राप्ताद्वृत्रात् “गर्भाः गर्भभूतान्युदकानि “उदरन्त उदगच्छन् ।


ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।

त्वमि॑न्द्र सालावृ॒कान्स॒हस्र॑मा॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ॥३

ऋ॒ष्वा । ते॒ । पादा॑ । प्र । यत् । जिगा॑सि । अव॑र्धन् । वाजाः॑ । उ॒त । ये । चि॒त् । अत्र॑ ।

त्वम् । इ॒न्द्र॒ । सा॒ला॒वृ॒कान् । स॒हस्र॑म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना॑ । आ । व॒वृ॒त्याः॒ ॥३

ऋष्वा । ते । पादा । प्र । यत् । जिगासि । अवर्धन् । वाजाः । उत । ये । चित् । अत्र ।

त्वम् । इन्द्र । सालावृकान् । सहस्रम् । आसन् । दधिषे । अश्विना । आ । ववृत्याः ॥३

हे इन्द्र “ते “पादा पादौ “ऋष्वा महान्तौ । तादृशस्त्वं “यत् यदा “जिगासि गच्छसि तदानीं “वाजाः ऋभवः “अवर्धन अवर्धयन् । “उत अपि च “ये “चित् ये कैचन देवाः सन्ति तेऽप्यवर्धयन् । हे “इन्द्र “त्वं “सहस्रं सालावृकान् “आसन् आस्ये दधिषे धारयसि । तदानीम् “अश्विना अश्विनावपि “आ “ववृत्याः आवर्तयेः ॥


स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।

व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥४

स॒म॒ना । तूर्णिः॑ । उप॑ । या॒सि॒ । य॒ज्ञम् । आ । नास॑त्या । स॒ख्याय॑ । व॒क्षि॒ ।

व॒साव्या॑म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा॑ । अ॒श्विना॑ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि॑ ॥४

समना । तूर्णिः । उप । यासि । यज्ञम् । आ । नासत्या । सख्याय । वक्षि ।

वसाव्याम् । इन्द्र । धारयः । सहस्रा । अश्विना । शूर । ददतुः । मघानि ॥४

हे इन्द्र “समना संग्रामे “तूर्णिः त्वरमाणोऽपि “यज्ञम् “उप यासि उपगच्छसि । तदानीं “नासत्या अश्विनौ “सख्याय “वक्षि वहसि । हे “इन्द्र “वसाव्यां वसुसमूहं “सहस्रा सहस्रां बहुसंख्यां “धारयः धारयस्यस्माकमर्थाय । हे “शूर “अश्विना अश्विनावपि तवानुचरौ “मघानि धनानि “ददतुः अस्मभ्यं प्रयच्छतः ॥


मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् ।

आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिह॒ः प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥५

मन्द॑मानः । ऋ॒तात् । अधि॑ । प्र॒ऽजायै॑ । सखि॑ऽभिः । इन्द्रः॑ । इ॒षि॒रेभिः॑ । अर्थ॑म् ।

आ । आ॒भिः॒ । हि । मा॒याः । उप॑ । दस्यु॑म् । आ । अगा॑त् । मिहः॑ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां॑सि ॥५

मन्दमानः । ऋतात् । अधि । प्रऽजायै । सखिऽभिः । इन्द्रः । इषिरेभिः । अर्थम् ।

आ । आभिः । हि । मायाः । उप । दस्युम् । आ । अगात् । मिहः । प्र । तम्राः । अवपत् । तमांसि ॥५

“इन्द्रः “ऋतात् यज्ञात् “अधि “इषिरेभिः गमनशीलैः “सखिभिः मरुद्भिः सह “मन्दमानः माद्यन् “प्रजायै यजमानाय “अर्थं धनं प्रयच्छति । स चेन्द्रः “आभिः प्रजाभिर्निमित्तभूताभिः “मायाः दस्युसंबन्धिनीर्विनाशयितुं “दस्युम् “उप “आगात् । स दस्युः “तम्राः अवर्षणेन ग्लापयित्रीः “मिहः वृष्टीः “प्र “अवपत् व्यनाशयदित्यर्थः । तमांसि - - - ॥ ॥ ३ ॥


सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथान॑ः ।

ऋ॒ष्वैर॑गच्छ॒ः सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ॥६

सऽना॑माना । चि॒त् । ध्व॒स॒यः॒ । नि । अ॒स्मै॒ । अव॑ । अ॒ह॒न् । इन्द्रः॑ । उ॒षसः॑ । यथा॑ । अनः॑ ।

ऋ॒ष्वैः । अ॒ग॒च्छः॒ । सखि॑ऽभिः । निऽका॑मैः । सा॒कम् । प्र॒ति॒ऽस्था । हृद्या॑ । ज॒घ॒न्थ॒ ॥६

सऽनामाना । चित् । ध्वसयः । नि । अस्मै । अव । अहन् । इन्द्रः । उषसः । यथा । अनः ।

ऋष्वैः । अगच्छः । सखिऽभिः । निऽकामैः । साकम् । प्रतिऽस्था । हृद्या । जघन्थ ॥६

अयमिन्द्रो वृत्रं हन्तुं “सनामाना “चित् समाननामानौ “नि “ध्वसयः न्यगमयत् । अथ “इन्द्रः तं “वृत्रम् “अवाहन अवहतवान् । “यथा “उषसः “अनः शकटमवनाशितवान् तद्वत् । अथ प्रत्यक्षेणोच्यते । हे इन्द्र त्वम् “ऋष्वैः दीप्तैः महद्भिर्वा “निकामैः नितरां वृत्रवधं कामयमानैः “सखिभिः मरुद्भिः “साकं वृत्रं हन्तुम् “अगच्छः । आगत्य च प्रतिष्ठा प्रतिष्ठानानि शरीराणि “हृद्या हृद्यानि रमणीयानि “जघन्थ हतवानसि । हन्तेस्थलि ‘ उपदेशेऽत्वतः' इतीट्प्रतिषेधः ॥


त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् ।

त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ॥७

त्वम् । ज॒घ॒न्थ॒ । नमु॑चिम् । म॒ख॒स्युम् । दास॑म् । कृ॒ण्वा॒नः । ऋष॑ये । विऽमा॑यम् ।

त्वम् । च॒क॒र्थ॒ । मन॑वे । स्यो॒नान् । प॒थः । दे॒व॒ऽत्रा । अञ्ज॑साऽइव । याना॑न् ॥७

त्वम् । जघन्थ । नमुचिम् । मखस्युम् । दासम् । कृण्वानः । ऋषये । विऽमायम् ।

त्वम् । चकर्थ । मनवे । स्योनान् । पथः । देवऽत्रा । अञ्जसाऽइव । यानान् ॥७

हे इन्द्र “त्वं “नमुचिम् एतत्संज्ञकमसुरं “जघन्थ हतवानसि। कीदृशम् । “मखस्युम् ऋषेर्यज्ञं विधातुमिच्छन्तं यद्वा त्वदीयं धनमिच्छन्तम्। किं कुर्वन् । "दासम् उपक्षपयितारं नमुचिमसुरम् “ऋषये मनवे “विमायं विगतमायं “कृण्वानः कुर्वन्। “किंच त्वं “देवत्रा देवेषु मध्ये “मनवे ऋषये सामान्येन मनुष्याय वा "पथः मार्गान् “स्योनान् “चकर्थ कृतवानसि । अथवा “देवत्रा देवेषु मध्ये गन्तव्यान् मार्गानिति वा संबन्धः। स्योनांश्चकर्थेत्युक्तमेव विवृणोति । अञ्जसेव “यानान् इति । इवेत्येवकारार्थे । अञ्जसैवाकुटिलेनैव यानान् गन्तॄन् मार्गानकरोः अथवा मार्गेणाकुटिलेनैव गन्तॄंश्चकर्थं । यथा लोकेस्रुघ्नं गतो मार्गः काञ्चीं गतो मार्ग इति मार्गस्य गन्तृत्वोपचारः तद्वदत्रापि यातृत्वं द्रष्टव्यम् ॥


त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इन्द्र दधिषे॒ गभ॑स्तौ ।

अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥८

त्वम् । ए॒तानि॑ । प॒प्रि॒षे॒ । वि । नाम॑ । ईशा॑नः । इ॒न्द्र॒ । द॒धि॒षे॒ । गभ॑स्तौ ।

अनु॑ । त्वा॒ । दे॒वाः । शव॑सा । म॒द॒न्ति॒ । उ॒परि॑ऽबुध्नान् । व॒निनः॑ । च॒क॒र्थ॒ ॥८

त्वम् । एतानि । पप्रिषे । वि । नाम । ईशानः । इन्द्र । दधिषे । गभस्तौ ।

अनु । त्वा । देवाः । शवसा । मदन्ति । उपरिऽबुध्नान् । वनिनः । चकर्थ ॥८

हे इन्द्र “त्वमेतानि “नाम नामानि नामकान्युदकानि “वि “पप्रिषे विपूरयसि । हे “इन्द्र “ईशानः सर्वस्येश्वरस्त्वं “गभस्तौ हस्ते “दधिषे धारयसि वज्रं धनं वा । किंच “त्वा त्वां “शवसा बलेनोपेतं “देवाः सर्वे “अनु “मदन्ति अनुष्टुवन्ति । स त्वं “वनिनः उदकवतो मेघान् रश्मीन्वा “उपरिबुध्नान् उपरिमूलान् अधोमुखान् “चकर्थ कृतवानसि ॥


च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् ।

पृ॒थि॒व्यामति॑षितं॒ यदूध॒ः पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥९

च॒क्रम् । यत् । अ॒स्य॒ । अ॒प्ऽसु । आ । निऽस॑त्तम् । उ॒तो इति॑ । तत् । अ॒स्मै॒ । मधु॑ । इत् । च॒च्छ॒द्या॒त् ।

पृ॒थि॒व्याम् । अति॑ऽसितम् । यत् । ऊधः॑ । पयः॑ । गोषु॑ । अद॑धाः । ओष॑धीषु ॥९

चक्रम् । यत् । अस्य । अप्ऽसु । आ । निऽसत्तम् । उतो इति । तत् । अस्मै । मधु । इत् । चच्छद्यात् ।

पृथिव्याम् । अतिऽसितम् । यत् । ऊधः । पयः । गोषु । अदधाः । ओषधीषु ॥९

ग१.२-अस्येंद्रस्य चक्रमायुधं यदप्सु अंतरिक्षे निषण्णं उतो अपि च तदायुधमस्मा इंद्राय मधु चच्छद्यात् वशं नयति । यत् पृथिव्यामतिषितं निमित्तं ऊधः ऊधसो मेघात् तदुदकं पयः गोष्वोषधीषु चादधाः स्थापितवानसि; ग४- ---- पृथिव्यामतिषितं विमुक्तं यदूधः उदरमस्ति तत् त्वया गोष्वोषधीषु चादधा इति; त१.२-मु-परामासित्वे हननार्थं उतो चित् अपि वा अस्मा इंद्राय मध्वित् ( मध्वितत्-मु ) उदकमपि चच्छद्यात् वरान् प्रति ( ‘वरान्प्रति' नास्ति-मु ) पृथिव्यामतिषितं विमुक्तं यदुधर्मस्ति ( यदधर्मस्ति-मु ) उदकमस्ति ननापो गोष्ठादिषु वादधा इति; त७-हे इंद्र अस्य सूर्यरूपस्य तव यत् चक्रं रश्मिवृंदं अप्सूदकेषु आ निषत्तं आ समंतात् निषण्णं भवति रात्रौ उतो अनंतरं तत् रश्मिवृंदं अस्मै तुभ्यं मधु जलं चच्छद्यात् समर्पयति किंच यच्चक्रं ऊधः रात्रिरूपं सत् पृथिव्यां अतिषितं अतिशयेन बद्धं भवति तेन चक्रेण गोषु ओषधीषु च पयः क्षीरं अंबु च अदधाः धृतवानसि । अयमर्थः कृष्णं नियानं ( ऋ. सं. १. १६४. ४७ ) इति मंत्रे व्यक्तीकृतः । इदिति पूरणः ।। सामवेदसंहितासायणभाष्ये ( १. ४.१.४.९ ) अस्य मन्त्रस्य भाष्यमुपलभ्यते तद्यथा-अस्येन्द्रस्य चक्रमायुधमप्स्वन्तरिक्ष आ सर्वतो निषत्तं निषण्णमासीन्मेघहननार्थमुतो तदपि चास्मा इन्द्राय मध्विदुदकमपि चच्छद्यात् वशं नयति । पृथिव्यामतिषितं विमुक्तं यदूधरुदकमस्ति तत्पयो गोष्वोषधीषु चादधाः आदधाति ।।


अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् ।

म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यत॑ः प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥१०

अश्वा॑त् । इ॒या॒य॒ । इति॑ । यत् । वद॑न्ति । ओज॑सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् ।

म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु॑ । त॒स्थौ॒ । यतः॑ । प्र॒ऽज॒ज्ञे । इन्द्रः॑ । अ॒स्य॒ । वे॒द॒ ॥१०

अश्वात् । इयाय । इति । यत् । वदन्ति । ओजसः । जातम् । उत । मन्ये । एनम् ।

मन्योः । इयाय । हर्म्येषु । तस्थौ । यतः । प्रऽजज्ञे । इन्द्रः । अस्य । वेद ॥१०

इन्द्रसामर्थ्यं दृष्ट्वा केचिदेनम् “अश्वात् आदित्यात् “इयाय उदितवान् इति “वदन्ति “यत यद्यपि “उत तथापि अहम् “एनं “ओजसः बलात् “जातं “मन्ये जानामि । अस्य तेजस्वित्वं दृष्ट्वा सूर्यादुत्पन्न इति तेषां मतिः । अहं त्वोजःपदार्थाज्जात इति मन्ये यतोऽयं वृत्रादीन् हतवानिति । अथवायं “मन्योः क्रोधात् “इयाय उदितवान् । अतः “हर्म्येषु शत्रुसंबन्धिषु युद्धेषु हर्म्येष्वेव वा “तस्थौ तिष्ठति । “यतः अयं “प्रजज्ञे उत्पन्न इति “इन्द्रः एव “अस्य । स्वस्येत्यर्थः । सामर्थ्यं “वेद जानाति न ह्यन्यो ज्ञातुमीष्टे ॥


वय॑ः सुप॒र्णा उप॑ सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।

अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥११

वयः॑ । सु॒ऽप॒र्णाः । उप॑ । से॒दुः॒ । इन्द्र॑म् । प्रि॒यऽमे॑धाः । ऋष॑यः । नाध॑मानाः ।

अप॑ । ध्वा॒न्तम् । ऊ॒र्णु॒हि । पू॒र्धि । चक्षुः॑ । मु॒मु॒ग्धि । अ॒स्मान् । नि॒धया॑ऽइव । ब॒द्धान् ॥११

वयः । सुऽपर्णाः । उप । सेदुः । इन्द्रम् । प्रियऽमेधाः । ऋषयः । नाधमानाः ।

अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधयाऽइव । बद्धान् ॥११

“वयः गन्तारः “सुपर्णाः सुपतना आदित्यरश्मयः “इन्द्रम् . "उप “सेदुः उपसन्ना अभवन् । कीदृशाः । “प्रियमेधाः प्रिययज्ञाः “ऋषयः दृष्टारः “नाधमानाः प्रज्ञां याचमानाः । याचनप्रकार उच्यते। हे इन्द्र “ध्वान्तम् अन्धकारम् “अप “ऊर्णुहि परिहर पूर्धि पूरय च “चक्षुः तेजः । “मुमुग्धि मोचय च “अस्मान् “निधयेव “बद्धान्। निधा पाश्यो भवति । पाश्या पाशसमूहः । पाशसमूहेन बद्धान् यथा मुञ्चन्ति तद्वत् । अत्र वयो वेर्बहुवचनम्' (निरु. ४. ३) इत्यादि निरुक्तं द्रष्टव्यम् ॥ ॥ ४ ॥



सम्पाद्यताम्

टिप्पणी

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७३&oldid=195212" इत्यस्माद् पुनः प्राप्तिः