ऋग्वेदः सूक्तं १०.१२४

(ऋग्वेद: सूक्तं १०.१२४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१२३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२४
अग्निः, १, ५-९ अग्नि - वरुण - सोमाः।
सूक्तं १०.१२५ →
दे. १ अग्निः, २-४ अग्नेरात्मा, ५, ७-८ वरुणः, ६ सोमः , ९ इन्द्रः। त्रिष्टुप्, ७ जगती ।


इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् ।
असो हव्यवाळुत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥१॥
अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि ।
शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥२॥
पश्यन्नन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि ।
शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ॥३॥
बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि ।
अग्निः सोमो वरुणस्ते च्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन् ॥४॥
निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे ।
ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि ॥५॥
इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् ।
हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥६॥
कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् ।
क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥७॥
ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेति स्वधया मदन्तीः ।
ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥८॥
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥९॥


सायणभाष्यम्

‘ इमं नो अग्ने ' इति नवर्चं द्वादशं सूक्तम् । द्वितीयाद्याभिस्तिसृभिरग्निर्ऋषिर्भूत्वा स्वात्मानं देवतारूपिणमस्तौत्। अतस्तासां स एवर्षिदेवता च । शिष्टाभिरग्निवरुणसोमा अस्तुवन् । अतस्तासां षण्णां त ऋषयः । आद्याग्न्नेयी । नवमीन्द्रदेवत्या। शिष्टासु चतसृषु लिङ्गोक्तदेवता । सप्तमी जगती शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तम्---’ इमं नो नवैन्द्र्युत्तमा निहवोऽग्निवरुणसोमानामाद्याग्नेयी तिस्रश्चाग्नेरात्मस्तवः शिष्टा यथानिपातं सप्तमी जगती' इति । गतो विनियोगः ॥


इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ।

असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥ १

इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ।

असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥१

इमम् । नः । अग्ने । उप । यज्ञम् । आ । इहि । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ।

असः । हव्यऽवाट् । उत । नः । पुरःऽगाः । ज्योक् । एव । दीर्घम् । तमः । आ । अशयिष्ठाः ॥१

भ्रातृषु हविर्वहनेषु मृतेषु मरणभीत्या कृतपलायनं गुहायां निगूढमग्निमग्न्याद्याः सूक्तद्रष्टार ऋषयोऽनयाह्वयन । हे “अग्ने “नः अस्माकम् “इमं “यज्ञम् “उप “एहि उपागच्छ । प्राप्नुहि। मा पलायिष्ठाः। कीदृशम् । “पञ्चयामं यजमानपञ्चमैर्ऋत्विग्भिर्नियमितम् । यद्वा । धानाकरम्भादिभिः पञ्चभिः हविर्भिः पञ्चभिः प्रयाजैर्वा प्राप्तम् । “त्रिवृतं पाकयज्ञहविर्यज्ञसोमयज्ञभेदेन सवनत्रयात्मना वा त्रिगुणं “सप्ततन्तुं सप्त तन्तवस्तनितारः कर्मणां विस्तारयितारो होत्राद्याः सप्त वषट्कर्तारो यस्य । यद्वा । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोळशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्तधा विस्तीर्यमाणम् । ईदृशं यज्ञमुपगत्य चानन्तरं “नः अस्माकं “हव्यवाट् हव्यानां हविषां वोढा “असः भव ॥ अस्तेर्लेट्यडागमः ॥ “उत अपि च “नः अस्माकं पुरोगाः पुरतो गन्ता भव ॥ जनसनखनक्रमगमो विट् । ‘ विड्वनोरनुनासिकस्यात् ' इत्यात्वम् ॥ “ज्योक् चिरकालम् “एव अस्मान् परित्यज्य “दीर्घं “तमः महदन्धकारं गुहायाम् “आशयिष्ठाः । आस्थाय शयनमकार्षीः । इत ऊर्ध्वं तस्मात् स्थानादस्मानागच्छेत्यर्थः ।।


अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।

शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥ २

अदे॑वात् । दे॒वः । प्र॒ऽचता॑ । गुहा॑ । यन् । प्र॒ऽपश्य॑मानः । अ॒मृ॒त॒ऽत्वम् । ए॒मि॒ ।

शि॒वम् । यत् । सन्त॑म् । अशि॑वः । जहा॑मि । स्वात् । स॒ख्यात् । अर॑णीम् । नाभि॑म् । ए॒मि॒ ॥२

अदेवात् । देवः । प्रऽचता । गुहा । यन् । प्रऽपश्यमानः । अमृतऽत्वम् । एमि ।

शिवम् । यत् । सन्तम् । अशिवः । जहामि । स्वात् । सख्यात् । अरणीम् । नाभिम् । एमि ॥२

“अदेवात् अदेवनशीलात् “गुहा गुहायां वर्तमानात् ॥ ‘सुपां सुलुक्°' इति सप्तम्या लुक् । “प्रचता देवानां प्रयाचनेन हेतुना “यन् निर्गच्छन् "देवः देवनशीलोऽहं “प्रपश्यमानः देवैर्मदर्थं कल्पितं प्रयाजानुयाजादिलक्षणं हविर्भागं प्रपश्यमानो निरीक्षमाणः सन् "अमृतत्वमेमि। मरणधर्मराहित्यं देवत्वं प्राप्नोमि ॥ दृशेर्व्यत्ययेनात्मनेपदम् ।। हविर्वहनाद्भीतः पलायितोऽबादिषु स्थानेषु निगूढः पुनर्देवैर्हविर्वहनाय प्रार्थ्यमानस्तैर्दत्तेन हविषा अहं देवत्वं प्राप्तवानस्मीत्यर्थः । यद्यप्यहं गुहातो निर्गत्य प्रकाशमानः सन् शोभनं यज्ञं निवर्तयामि तथापि “शिवं शोभनं “सन्तं भवन्तं यज्ञम् “अशिवः अशोभनरूपोऽप्रकाशमानः सन् “यत् यस्मिन् समाप्तिकाले “जहामि परित्यजामि तदानीं “नाभिं नहनशीलां बन्धनशीलाम् “अरणीम् अश्वथमेव “स्वात्सख्यात् आत्मीयात सखित्वाञ्चिरकालमश्वरूपोऽहं तत्र न्यवात्समिति स्नेहवशात् “एमि प्राप्नोमि ।।


पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।

शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥ ३

पश्य॑न् । अ॒न्यस्याः॑ । अति॑थिम् । व॒यायाः॑ । ऋ॒तस्य॑ । धाम॑ । वि । मि॒मे॒ । पु॒रूणि॑ ।

शंसा॑मि । पि॒त्रे । असु॑राय । शेव॑म् । अ॒य॒ज्ञि॒यात् । य॒ज्ञिय॑म् । भा॒गम् । ए॒मि॒ ॥३

पश्यन् । अन्यस्याः । अतिथिम् । वयायाः । ऋतस्य । धाम । वि । मिमे । पुरूणि ।

शंसामि । पित्रे । असुराय । शेवम् । अयज्ञियात् । यज्ञियम् । भागम् । एमि ॥३

मम स्थानभूता या पृथिवी ततः “अन्यस्याः “वयायाः गन्तव्यायाः दिवः संबन्धिनम् “अतिथिं सततगामिनं सूर्यं “पश्यन् जानन सूर्यस्य गतिमनुसृत्य वसन्तादिकाले “ऋतस्य यज्ञस्य “धाम धामानि शरीराणि “पुरूणि बहूनि “वि “मिमे निर्मिमे निष्पादयामि । ततः “पित्रे पितृभूताय द्युलोकवर्तिने देवजनाय “असुराय शत्रुक्षेपणकुशलाय “शेवं सुखमुद्दिश्य होता भूत्वा अहं उक्थानि “शंसामि । यत एवं तस्मात्कारणात् “अयज्ञियात् यज्ञानर्हात्प्रदेशान्निर्गत्य “यज्ञियं यज्ञार्हं वेदिलक्षणं भूभागं हविर्लक्षणं वा “एमि प्राप्नोमि ।। यज्ञशब्दादर्हाथें ‘ यज्ञर्त्विग्भ्यां घखञौ । (पा. सू. ५. १. ७१ ) इति घप्रत्ययः ।।


ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।

अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥४

ब॒ह्वीः । समाः॑ । अ॒क॒र॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र॑म् । वृ॒णा॒नः । पि॒तर॑म् । ज॒हा॒मि॒ ।

अ॒ग्निः । सोमः॑ । वरु॑णः । ते । च्य॒व॒न्ते॒ । प॒रि॒ऽआव॑र्त् । रा॒ष्ट्रम् । तत् । अ॒वा॒मि॒ । आ॒ऽयन् ॥४

बह्वीः । समाः । अकरम् । अन्तः । अस्मिन् । इन्द्रम् । वृणानः । पितरम् । जहामि ।

अग्निः । सोमः । वरुणः । ते । च्यवन्ते । परिऽआवर्त् । राष्ट्रम् । तत् । अवामि । आऽयन् ॥४

“अस्मिन् वेदिलक्षणस्थाने “बह्वीः “समाः बहून् संवत्सरान् “अकरम् अकार्षम् । चिरकालं न्यवात्सम् । तत्र “इन्द्रं “वृणानः संभजमानः “पितरम् उत्पादकमरण्यात्मकं “जहामि परित्यजामि । यदा त्वहं देवेभ्यो निर्गत्य गुहायां निगूढः तदा “ते देवा: “अग्निः “सोमो “वरुणः च “च्यवन्ते । राष्ट्रात् प्रच्युता अभवन् । एकस्याप्यग्नेर्हविर्वोढृत्वरूपेण देवतात्मना च पृथक्त्वात्परोक्षनिर्देशः । “आयन् पुनरागच्छन्नहं यद्राष्ट्रमसुरैरपहृतं “पर्यावर्त् पर्यावर्तमानं मदभिमुखं पुनरावर्तमानं “तत् “राष्ट्रं राज्यं यज्ञभूमिम् “अवामि असुरेभ्यो रक्षामि ।। पर्यावर्त् । उपसृष्टाद्वृतेः अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५ ) इति विच् । रात्सस्य ' ( पा. सू. ८. २. २४ ) इति नियमात् ‘ संयोगान्तस्य°' ( पा. सू. ८. २. २३) इति लोपाभावः ॥


निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से ।

ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥५

निःऽमा॑याः । ऊं॒ इति॑ । त्ये । असु॑राः । अ॒भू॒व॒न् । त्वम् । च॒ । मा॒ । व॒रु॒ण॒ । का॒मया॑से ।

ऋ॒तेन॑ । रा॒ज॒न् । अनृ॑तम् । वि॒ऽवि॒ञ्चन् । मम॑ । रा॒ष्ट्रस्य॑ । अधि॑ऽपत्यम् । आ । इ॒हि॒ ॥५

निःऽमायाः । ऊं इति । त्ये । असुराः । अभूवन् । त्वम् । च । मा । वरुण । कामयासे ।

ऋतेन । राजन् । अनृतम् । विऽविञ्चन् । मम । राष्ट्रस्य । अधिऽपत्यम् । आ । इहि ॥५

“त्ये ते “असुराः मय्यग्नावागते सति “निर्मायाः मायारहिताः “अभूवन् । आसुर्यः सर्वा माया मया दग्धा आसन्नित्यर्थः । हे “वरुण “त्वं “च ।। अयं चशब्दश्चेदर्थे वर्तमानश्चण्णिति निपातान्तरम् । अनेन युक्तत्वात् कामयासे इति तिङ्विभक्तेः ‘ निपातैर्यद्यदिहन्त°' (पा. सू. ८. १. ३० ) इति निघातप्रतिषेधः॥ हे वरुण त्वं चेत् “मा कामयासे मां कामयेथाः तर्हि हे “राजन ईश्वर “ऋतेन सत्येनास्मदीयेन कर्मणा “अनृतम् असत्यभूतं मायामयमासुरं चरित्रं “विविञ्चन् पृथक्कुर्वन् अपसारयन् “मम “राष्ट्रस्य मया यत्साधितं राज्यं तस्य “अधिपत्यम् अधिपतित्वमीश्वरत्वम् “एहि प्राप्नुहि ॥ ॥९॥


इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् ।

हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥६

इ॒दम् । स्वः॑ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒ऽका॒शः । उ॒रु । अ॒न्तरि॑क्षम् ।

हना॑व । वृ॒त्रम् । निः॒ऽएहि॑ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त॑म् । ह॒विषा॑ । य॒जा॒म॒ ॥६

इदम् । स्वः । इदम् । इत् । आस । वामम् । अयम् । प्रऽकाशः । उरु । अन्तरिक्षम् ।

हनाव । वृत्रम् । निःऽएहि । सोम । हविः । त्वा । सन्तम् । हविषा । यजाम ॥६

इयमृगग्नेर्वरुणस्य वा वाक्यम् । हे सोम “इदं “स्वः अयं द्युलोकः यद्वायं शोभनारणः सूर्यः “इदमित् इदमेव “वामं वननीयम् “आस बभूव । इदंशब्देन प्रकृतं स्वः परामृश्यते । “अयं च “प्रकाशः प्रकाशस्याधारभूतः “उरु विस्तीर्णमिदम् “अन्तरिक्षं हे सोम एतत्सर्वं पश्य । अत एव अस्मिन्समय आवां “वृत्रं “हनाव हिनसाव । तदर्थं “निरेहि निष्क्रम्यागच्छ। “हविः “सन्तं लतारूपेण हविर्भवन्तं देवतात्मानं त्वां “हविषा चरुपुरोडाशादिना वयं “यजाम ।।


क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।

क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥७

क॒विः । क॒वि॒ऽत्वा । दि॒वि । रू॒पम् । आ । अ॒स॒ज॒त् । अप्र॑ऽभूती । वरु॑णः । निः । अ॒पः । सृ॒ज॒त् ।

क्षेम॑म् । कृ॒ण्वा॒नाः । जन॑यः । न । सिन्ध॑वः । ताः । अ॒स्य॒ । वर्ण॑म् । शुच॑यः । भ॒रि॒भ्र॒ति॒ ॥७

कविः । कविऽत्वा । दिवि । रूपम् । आ । असजत् । अप्रऽभूती । वरुणः । निः । अपः । सृजत् ।

क्षेमम् । कृण्वानाः । जनयः । न । सिन्धवः । ताः । अस्य । वर्णम् । शुचयः । भरिभ्रति ॥७

“कविः क्रान्तदर्शी मित्रः “कवित्वा कवित्वेन ॥ ‘सुपां सुलुक्” इति तृतीयाया आकारः ।। क्रान्तदर्शनेन “दिवि द्युलोके “रूपम् आत्मीयं तेजः “आसजत् आसक्तं करोति ।। ‘ षन्ज संगे । अस्माल्लङि शपि दंशसञ्जष्वञ्जां शपि' (पा. सू. ६. ४. २५) इति नलोपः ।। “अप्रभूती अप्रभूत्या ।। सुपां सुलुक्' इति तृतीयायाः पूर्वसवर्णदीर्घः ।। अप्रभूष्णुना अल्पेनैव यत्नेन “वरुणः मेघात् "अपः “निः “सृजत् निरगमयत् । वरुणेन विसृष्टास्ता आपः “सिन्धवः स्यन्दनशीला नद्यो भूत्वा “जनयो “न जाया इव यथा जायाः पत्युः क्षेमकारिण्यो भवन्ति तथा “क्षेमं कुर्वाणा जगतो रक्षणं कुर्वाणाः “शुचयः शुद्धा दीप्यमाना वा “अस्य वरुणस्य “वर्णं शुक्लं भास्वररूपं “भरिभ्रति ॥ भृशं बिभ्रति धारयन्ति ।। दाधर्त्यादिसूत्रे (पा. सू. ७. ४. ६५ ) ‘ भरिभ्रत्' इति निपातनाद्बिभर्तेः यङ्लुक्यभ्यासस्य जश्त्वाभावः।।


ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः ।

ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥८

ताः । अ॒स्य॒ । ज्येष्ठ॑म् । इ॒न्द्रि॒यम् । स॒च॒न्ते॒ । ताः । ई॒म् । आ । क्षे॒ति॒ । स्व॒धया॑ । मद॑न्तीः ।

ताः । ई॒म् । विशः॑ । न । राजा॑नम् । वृ॒णा॒नाः । बी॒भ॒त्सुवः॑ । अप॑ । वृ॒त्रात् । अ॒ति॒ष्ठ॒न् ॥८

ताः । अस्य । ज्येष्ठम् । इन्द्रियम् । सचन्ते । ताः । ईम् । आ । क्षेति । स्वधया । मदन्तीः ।

ताः । ईम् । विशः । न । राजानम् । वृणानाः । बीभत्सुवः । अप । वृत्रात् । अतिष्ठन् ॥८

“ताः पूर्वोक्ता वृष्टा आपः “अस्य वरुणस्य “ज्येष्ठं वृद्धतमम् “इन्द्रियं वीर्यं “सचन्ते समवयन्ति संभजन्ते । धारयन्तीत्यर्थः । ‘ आपो वरुणस्य पत्नय आसन्' (तै. सं. ५,५.४.१ ) इति श्रुतेः । “स्वधया । अन्ननामैतत् । हविलक्षणेनान्नेन “मदन्तीः माद्यन्तीः । यद्वा । व्रीह्याद्युत्पादनद्वारेण हविषा मादयन्तीः । “ताः अपः “ईम् अयं वरुणः “आ “क्षेति अभिगच्छति ।। ‘क्षि निवासगत्योः । छान्दसो विकरणस्य लुक् ।। “ताः च “ईम् एनं वरुणं “विशो “न विशः प्रजा यथा “राजानं स्वामिनं संभजन्ते तथा “वृणानाः संभजमानाः “बीभत्सुवः भयेन कम्पमानाः । यद्वा । बद्धा वृत्रेणावृताः सत्यः । तस्मिन् हते सति तस्मात् “वृत्रात् “अप “अतिष्ठन् । अपक्रम्य तत्र तत्रावतिष्ठन्ते ।। ' बध बन्धने' इत्यस्माद्धातोः ‘ मान्बधदान्शान्भ्यः' (पा. सू. ३.१.६ ) इति सन् अभ्यासस्य च दीर्घः । ‘ सनाशंसभिक्ष उ: ' (पा. सू. ३. २. १६८) इत्युप्रत्ययः । जसि छान्दस उवङादेशः ।।


बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् ।

अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥९

बी॒भ॒त्सूना॑म् । स॒ऽयुज॑म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना॑म् । स॒ख्ये । चर॑न्तम् ।

अ॒नु॒ऽस्तुभ॑म् । अनु॑ । च॒र्चू॒र्यमा॑णम् । इन्द्र॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । म॒नी॒षा ॥९

बीभत्सूनाम् । सऽयुजम् । हंसम् । आहुः । अपाम् । दिव्यानाम् । सख्ये । चरन्तम् ।

अनुऽस्तुभम् । अनु । चर्चूर्यमाणम् । इन्द्रम् । नि । चिक्युः । कवयः । मनीषा ॥९

“बीभत्सूनां कम्पमानावयवानां यद्वा मेघेन बद्धानाम् । हन्ति गच्छतीति हंसः सूर्यः । तं “सयुजं सखायम् “आहुः । ब्रह्मवादिनः कथयन्ति । एतदेवाह । “दिव्यानां दिवि भवानामान्तरिक्षाणाम् “अपां “सख्ये सखित्वे “चरन्तं वर्तमानम् । “अनुष्टुभम् अनुष्टोभनीयं स्तोतव्यम् । यद्वा । अनुष्टुप्शब्देन तत्संबद्धो यागः स्तुतिर्वा लक्ष्यते । अनुष्टुप्संबद्धं यागमनुष्टुप्छन्दसा युक्तं स्तुतिविशेषं वा । अनुलक्ष्य “चर्चूर्यमाणं पुनःपुनश्चरन्तं गच्छन्तम् ॥ चरतेर्यङि ‘ उत्परस्यातः' (पा. सू. ७. ४. ८८) इत्यभ्यासादुत्तरस्याकारस्योत्वम् । “चरफलोश्च' (पा. सू. ७. ४, ८७ ) इति नुकि प्राप्ते व्यत्ययेनाभ्यासस्य रुगागमः ॥ एवंगुणविशिष्टम् “इन्द्रं “कवयः क्रान्तदर्शिन ऋषयः “मनीषा मनीषया स्तुत्या “नि चिक्युः पूजयन्ति । यद्वा । मनीषा बुद्ध्या नि चिक्युः जानन्ति ।। मनीषाशब्दात्तृतीयायाः ‘ सुपां सुलुक्' इति लुक् । 'चायृ पूजानिशामनयोः' इत्यस्माच्छान्दसे लिटि ‘ चायः की' (पा. सू. ६. १.३५) इति प्रकृतेः कीभावः । ‘एरनेकाचः' (पा. सू. ६. ४. ८२ ) इति यण् ॥ ॥१०॥

टिप्पणी

१०.१२४.९ बीभत्सूनां सयुजं हंसमाहुः इति

इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचं प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैच्छंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते । ऐ ३,१५

अनुष्टुप् उपरि संदर्भाः

अनुष्टुभमनुचंचूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषेति वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति । ऐआ २,३,५

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१२४&oldid=355859" इत्यस्माद् प्रतिप्राप्तम्