ऋग्वेदः सूक्तं १०.७७
← सूक्तं १०.७६ | ऋग्वेदः - मण्डल १० सूक्तं १०.७७ स्यूमरश्मिर्भार्गवः। |
सूक्तं १०.७८ → |
दे. मरुतः। त्रिष्टुप्, ५ जगती |
अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः ।
सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥१॥
श्रिये मर्यासो अञ्जीँरकृण्वत सुमारुतं न पूर्वीरति क्षपः ।
दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः ॥२॥
प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः ।
पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥३॥
युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति ।
विश्वप्सुर्यज्ञो अर्वागयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥४॥
यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु ।
श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥५॥
प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः ।
विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥६॥
य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् ।
रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥७॥
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः ।
ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥८॥
सायणभाष्यम्
‘ अभ्रप्रुषः' इत्यष्टर्चं नवमं सूक्तं भृगुगोत्रस्य स्यूमरश्मेरार्षं मरुद्देवताकम् । पञ्चमी जगती शिष्टाः सप्त त्रिष्टुभः । तथा चानुक्रान्तम् - अभ्रप्रुषः स्यूमरश्मिर्भार्गवो मारुतं तु पञ्चमी जगती इति । गतो विनियोगः ॥
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुष॑ः ।
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥१
अ॒भ्र॒ऽप्रुषः॑ । न । वा॒चा । प्रु॒ष॒ । वसु॑ । ह॒विष्म॑न्तः । न । य॒ज्ञाः । वि॒ऽजा॒नुषः॑ ।
सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हसे॑ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे॑ ॥१
अभ्रऽप्रुषः । न । वाचा । प्रुष । वसु । हविष्मन्तः । न । यज्ञाः । विऽजानुषः ।
सुऽमारुतम् । न । ब्रह्माणम् । अर्हसे । गणम् । अस्तोषि । एषाम् । न । शोभसे ॥१
“अभ्रप्रुषो “न मेघान्निर्गच्छन्त उदकबिन्दव इव “वाचा स्तुत्या प्रीता मरुतः “वसु धनं “प्रुष सिञ्चन्ति । व्यत्ययेन बहुवचनम्। किंच “हविष्मन्तो “न “यज्ञाः हविर्भिर्युक्ता यागा इव “विजानुषः जगतो विजनयितारौ भवन्ति । अथ समुदायेनाह। तेषाम् “एषां “सुमारुतं शोभनानां मरुतां “ब्रह्माणं महान्तं “गणम् “अर्हसे पूजार्थं “न “अस्तोषि नास्तौषम् । न स्तुतवानस्मीतः पूर्वम् । तथा “शोभसे शोभार्थमपि मारुतं गणं “न अस्तोषि। अत इदानीं नूतनेन स्तोत्रेण स्तौमीत्यर्थः ॥
श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षप॑ः ।
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥२
श्रि॒ये । मर्या॑सः । अ॒ञ्जीन् । अ॒कृ॒ण्व॒त॒ । सु॒ऽमारु॑तम् । न । पू॒र्वीः । अति॑ । क्षपः॑ ।
दि॒वः । पु॒त्रासः॑ । एताः॑ । न । ये॒ति॒रे॒ । आ॒दि॒त्यासः॑ । ते । अ॒क्राः । न । व॒वृ॒धुः॒ ॥२
श्रिये । मर्यासः । अञ्जीन् । अकृण्वत । सुऽमारुतम् । न । पूर्वीः । अति । क्षपः ।
दिवः । पुत्रासः । एताः । न । येतिरे । आदित्यासः । ते । अक्राः । न । ववृधुः ॥२
“श्रिये शोभार्थं “मर्यासः मारका मनुष्यरूपा वा मरुतः । पूर्वं मनुष्याः सन्तः पश्चात्सुकृतविशेषेण ह्यमरा आसन् । ते "अञ्जीन् अञ्जकान्याभरणानि “अकृण्वत कुर्वन्ति । किमर्थम् । “श्रिये स्वशरीरशोभनार्थम् । “सुमारुतं शोभनानां मरुतां गणं “पूर्वी: बह्व्यः “क्षपः क्षपयित्र्यः सेनाः “न “अति न पराभावयन्तीति शेषः । किंच “दिवः द्युदेवतायाः “पुत्रासः पुत्राः “एताः गन्तारः “न “येतिरे निर्गच्छन्ति । “ते “आदित्यासः अदितेः पुत्राः “अक्राः आक्रमणशीला मरुतः “न “वावृधुः न वर्धन्ते । यतोऽस्माभिर्न स्तुता अत इति भावः ।।
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्य॑ः ।
पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥३
प्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मना॑ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः॑ ।
पाज॑स्वन्तः । न । वी॒राः । प॒न॒स्यवः॑ । रि॒शाद॑सः । न । मर्याः॑ । अ॒भिऽद्य॑वः ॥३
प्र । ये । दिवः । पृथिव्याः । न । बर्हणा । त्मना । रिरिच्रे । अभ्रात् । न । सूर्यः ।
पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभिऽद्यवः ॥३
“ये मरुतः “दिवः “पृथिव्या “न पृथिव्याश्च । नेति चार्थे । “बर्हणा महत्त्वेन “त्मना आत्मनैव “रिरिच्रे रिरिचिरे अतिरिक्ता अभवन् स्वशरीरेण “अभ्रान्न अभ्रादिव “सूर्यः । किंच “पाजस्वन्तो “न “वीराः बलवन्तो वीरा इव “पनस्यवः स्तुतिकामा भवन्ति । किंच “रिशादसो “न “मर्याः रिशतामसितारो मनुष्या इव अभिद्यवः अभिगतदीप्तयो भवन्ति ॥
यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु व॒ः प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ॥४
यु॒ष्माक॑म् । बु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒थु॒र्यति॑ । न । म॒ही । श्र॒थ॒र्यति॑ ।
वि॒श्वऽप्सुः॑ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय॑स्वन्तः । न । स॒त्राचः॑ । आ । ग॒त॒ ॥४
युष्माकम् । बुध्ने । अपाम् । न । यामनि । विथुर्यति । न । मही । श्रथर्यति ।
विश्वऽप्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत ॥४
हे मरुतः "युष्माकं “बुध्ने परस्परसंघाते “अपां “न “यामनि प्रवृद्धानामुदकानां गमन इव “मही महती भूः “न “विथुर्यति न व्यथते । नापि “श्रथर्यति न विशीर्णा भवति । शीघ्रगतयोऽपि यूयमेनां न पीडयध्वमित्यर्थः । “विश्वप्सुः विश्वरूपः “अयं “यज्ञः यागसाधनं हविः “वः युष्माकम् “अर्वाक् अभिमुखं “सु सुष्ठु गच्छति । “प्रयस्वन्तो “न अन्नवन्तः परिष्कर्तार इव सुखप्रदाः सन्तः “सत्राचः सहाञ्चनाः “आ “गत आगच्छत । संघाकारेणागच्छतेत्यर्थः । ‘ सप्तगणा वै मरुतः । (तै. सं. २. २. ५. ७ ) इति श्रुतेः ॥
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुष॑ः ॥५
यू॒यम् । धूः॒ऽसु । प्र॒ऽयुजः॑ । न । र॒श्मिऽभिः॑ । ज्योति॑ष्मन्तः । न । भा॒सा । विऽउ॑ष्टिषु ।
श्ये॒नासः॑ । न । स्वऽय॑शसः । रि॒शाद॑सः । प्र॒वासः॑ । न । प्रऽसि॑तासः । प॒रि॒ऽप्रुषः॑ ॥५
यूयम् । धूःऽसु । प्रऽयुजः । न । रश्मिऽभिः । ज्योतिष्मन्तः । न । भासा । विऽउष्टिषु ।
श्येनासः । न । स्वऽयशसः । रिशादसः । प्रवासः । न । प्रऽसितासः । परिऽप्रुषः ॥५
हे मरुतः “यूयं “धूर्षु रथसंबन्धिनीषु “रश्मिभिः योक्त्रैः “प्रयुजः प्रयुक्ता बद्धा अश्वा इव “परिप्रुषः परितो गन्तारः स्थ। तथा “ज्योतिष्मन्तो “न तेजस्वन्त आदित्यादय इव “भासा युक्ता भवथ “व्युष्टिषु उषःसूदितासु । किंच “श्येनासो “न श्येना इव “स्वयशसः स्वायत्तयशसः ते यथा “रिशादसः रिशतामसितारस्तद्वद्रिशादसः स्वायत्तयशसश्च । किंच “प्रवासो “न प्रवासिन इव पथिका इव “प्रसितासः प्रसिद्धयानाः । उक्तरूपा मरुतः परिप्रुषः परितो गन्तारो भवथ ॥ ॥१०॥
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्व॑ः ।
वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेष॑ः सनु॒तर्यु॑योत ॥६
प्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ ।
वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥६
प्र । यत् । वहध्वे । मरुतः । पराकात् । यूयम् । महः । सम्ऽवरणस्य । वस्वः ।
विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत ॥६
हे “मरुतः “यूयं “यत् यदा “पराकात् अत्यन्तं दूरदेशात् “वहध्वे आगच्छथ तदानीं “महः महत् “संवरणस्य संवरणीयं “राध्यस्य संराधनीयं “वस्वः वसु धनं “विदानासः प्रयच्छन्तो हे “वसवः यूयम् “आराच्चित् दूरादेव "युयोत पृथक्कुरुत। कानिति उच्यते । “द्वेषः द्वेष्टॄन् । कीदृशान् । “सनुतः अन्तर्हितान् । निगूढानित्यर्थः । सनुतरित्यन्तर्हितनाम ॥
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥७
यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् ।
रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥७
यः । उत्ऽऋचि । यज्ञे । अध्वरेऽस्थाः । मरुत्ऽभ्यः । न । मानुषः । ददाशत् ।
रेवत् । सः । वयः । दधते । सुऽवीरम् । सः । देवानाम् । अपि । गोऽपीथे । अस्तु ॥७
“अध्वरेष्ठाः यागे सीदन् “मानुषः “यः यजमानः “यज्ञे “उदृचि सति । ऋक्शब्देन स्तोत्रमुपलक्ष्यते । यज्ञे समाप्तस्तुतिके सति संपूर्णे सति “मरुद्भ्यो “न मरुद्भ्य इवान्येषामध्वर्युभ्य ऋत्विगादिभ्यः “ददाशत् दद्यात् । यद्वा यज्ञ उदृच्युपक्रान्त इत्यर्थः । तस्मिन् यज्ञे मरुद्भ्य इवान्यस्मै इन्द्राय ददाशत् ददाति । “सः यजमानः “रेवत् धनवत् “सुवीरं शोभनपुत्राद्युपेतं “वयः अन्नं “दधते धारयति । व्यत्ययेनैकवचनम् । “स “देवानाम् इन्द्रादीनाम् “अपि “गोपीथे सोमपाने “अस्तु भवतु ॥
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥८
ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । आ॒दि॒त्येन॑ । नाम्ना॑ । शम्ऽभ॑विष्ठाः ।
ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒ऽतूः । म॒नी॒षाम् । म॒हः । च॒ । याम॑न् । अ॒ध्व॒रे । च॒का॒नाः ॥८
ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । आदित्येन । नाम्ना । शम्ऽभविष्ठाः ।
ते । नः । अवन्तु । रथऽतूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः ॥८
“ते “हि ते खलु “यज्ञेषु यागेषु “यज्ञियासः यज्ञार्हा यष्टव्याः “ऊमाः अवितारः “आदित्येन “नाम्ना आदित्यसंबन्धिनोदकेन “शंभविष्ठाः सुखस्य भावयितारः । यद्वा । आदित्याख्येन नाम्नादित्यनामकेन देवेन सह शंभविष्ठाः । “ते मरुतः “नः अस्मान् “अवन्तु । “रथतूः रथतुरो रथस्य यशगमनसाधनस्य त्वरयितारः सन्तः “मनीषां स्तुतिमवन्तु रक्षन्तु । कीदृशास्ते । “अध्वरे “यामन् यागगमने “महः महद्धविः “चकानाः कामयमानाः ॥ ॥ ११ ॥
टिप्पणी
मण्डल १० | ||||
---|---|---|---|---|