ऋग्वेदः सूक्तं १०.५७

(ऋग्वेद: सूक्तं १०.५७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.५६ ऋग्वेदः - मण्डल १०
सूक्तं १०.५७
बन्धुः श्रुतबन्धुर्विप्रबन्धुर्गौपायनाः
सूक्तं १०.५८ →
दे. विश्वे देवाः। गायत्री


मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्त स्थुर्नो अरातयः ॥१॥
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतं नशीमहि ॥२॥
मनो न्वा हुवामहे नाराशंसेन सोमेन ।
पितॄणां च मन्मभिः ॥३॥
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक्च सूर्यं दृशे ॥४॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥५॥
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥६॥


सायणभाष्यम्

मा प्र गाम ' इति षडृचं पञ्चदशं सूक्तं गायत्रं वैश्वदेवम् । ऐक्ष्वाकोऽसमातिर्नाम राजा । तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चेति चत्वारः पुरोहिता आसन् । ते च गौपायनाः । स च राजा तांस्त्यक्त्वान्यौ मायाविनावृषी पुरोहितत्वेनावृणीत । ततो बन्ध्वादयः क्रुद्धाः सन्त इमं राजानमभिचरितवन्तः । एतज्ज्ञात्वा मायाविनौ पुरोहितावेषामन्यतमं सुबन्धुं प्राणैर्वियोजितवन्तौ । मृतस्यास्य भ्रातरो बन्धुः श्रुतबन्धुर्विप्रबन्धुरित्येतेऽविनाशप्राप्तिहेतुभूतमिदं दृष्ट्वा जपन्ति स्म । अतस्तेऽस्य सूक्तस्यर्षयः । प्रतिपाद्यत्वादावर्तमानं मनो देवता । तथा चानुक्रान्तम् - अथ हैक्ष्वाको राजासमातिर्गौपायनान्बन्ध्वादीन्पुरोहितांस्त्यक्त्वान्यौ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे । तमितरे क्रुद्धा अभिचेरुः । अथ तौ मायाविनौ सुबन्धोः प्राणानाचिक्षिपतुरथ हास्य भ्रातरस्त्रयः । म प्र गामेति षट्कं गायत्रं स्वस्त्ययनं जप्त्वा ' इति । अग्निसमीपाद्देशान्तरगमनसमय इदं सूक्तं जप्यम् । सूत्रितं च -- ‘ प्रव्रजेदनपेक्षमाणो मा प्र गामेति सूक्तं जपन्' (आश्व. श्रौ.. २.५.४) इति । महापितृयज्ञेऽप्येतदृत्विग्भिर्जप्यम् । सूत्रितं च -- ‘ मा प्र गामाग्ने त्वं न इति जपन्तः' (आश्व. श्रौ. २.१९.३६) इति । निविदः स्थानातिपत्ताविदं सूक्तं शस्त्वा सूक्तान्तरे निवित्प्रक्षेप्तव्या । सूत्रितं च -- ‘ स्थानं चेन्निविदोऽतिहरेन्मा प्र गामेति पुरस्तात्सूक्तं शस्त्वा ' ( आश्व. श्रौ. ६.६.१८ ) इति ।


मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिन॑ः ।

मान्तः स्थु॑र्नो॒ अरा॑तयः ॥१

मा । प्र । गा॒म॒ । प॒थः । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिनः॑ ।

मा । अ॒न्तरिति॑ । स्थुः॒ । नः॒ । अरा॑तयः ॥१

मा । प्र । गाम । पथः । वयम् । मा । यज्ञात् । इन्द्र । सोमिनः ।

मा । अन्तरिति । स्थुः । नः । अरातयः ॥१

अत्रोक्ताख्याने शाट्यायनकम् - असमातिं राथप्रौष्ठं गौपायना अभ्यगमंस्ते खाण्डवे सत्रमासताथ हासमातौ राथप्रौष्ठे किलाताकुली ऊषतुरसुरमायौ तं ह स्मानग्नौ निधायौदनं पचतोऽग्नौ मांसमथासुरान्नं दग्ध्वेक्ष्वाकवः पराबभूवुः । तमसमातिं राथप्रौष्ठं गौपायनानामाहुतयोऽभ्यतपन् सोऽब्रवीदिमौ किलाताकुली इमा वै मा गौपायनानामाहुतयोऽभितपन्तीति तावब्रूतां तस्य वा आवामेव भिषजौ स्व आवां प्रायश्चित्तिरावां तथा करिष्यावो यथा न्वेता नाभितपन्तीति । तौ परेत्य सुबन्धोर्गौपायनस्य स्वपतः प्रमत्तस्यासुमाहुत्यान्तःपरिधि न्यधत्ताम् ' इत्यादि । तं सुबन्धोरसुमादातुं खाण्डवादसमातिं प्रतिगच्छन्तो गौपायना वदन्ति । हे “इन्द्र “वयं गौपायनाः “पथः समीचीनान्मार्गात् “मा “प्र “गाम मा परागच्छाम । असमातिगृहमेव गच्छाम । “मा च "सोमिनः असमातेः “यज्ञात् मा प्र गाम । “मा “स्थुः मा तिष्ठन्तु “नः अस्माकम् “अन्तः मार्गमध्ये “अरातयः शत्रवः । यद्वा । सोमिनः सोमवतो यागान्मा प्र गाम ॥


यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः ।

तमाहु॑तं नशीमहि ॥२

यः । य॒ज्ञस्य॑ । प्र॒ऽसाध॑नः । तन्तुः॑ । दे॒वेषु॑ । आऽत॑तः ।

तम् । आऽहु॑तम् । न॒शी॒म॒हि॒ ॥२

यः । यज्ञस्य । प्रऽसाधनः । तन्तुः । देवेषु । आऽततः ।

तम् । आऽहुतम् । नशीमहि ॥२

“यः अयमग्न्याख्यः “तन्तुः आहवनीयादिरूपेण विस्तृतः “यज्ञस्य “प्रसाधनः प्रकर्षेण साधयिता “देवेष्वाततः देवैः स्तोतृभिर्ऋत्विग्भिर्विस्तारितो वर्तते वेद्यां “तमाहुतं सर्वतो हूयमानं “नशीमहि प्राप्नुयाम । नशतिर्व्यप्तिकर्मा ॥


पिण्डपितृयज्ञे 'मनो न्वा हुवामहे ' इति तृचेन पिण्डाभिमानिनः पितर उपस्थेयाः । सूत्रितं च --- मनो न्वा हुवामह इति च तिसृभिरथैनान्प्रवाहयेत्' (आश्व. श्रौ. २. ७ ) इति ॥

मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे॑न ।

पि॒तॄ॒णां च॒ मन्म॑भिः ॥३

मनः॑ । नु । आ । हु॒वा॒म॒हे॒ । ना॒रा॒शं॒सेन॑ । सोमे॑न ।

पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः ॥३

मनः । नु । आ । हुवामहे । नाराशंसेन । सोमेन ।

पितॄणाम् । च । मन्मऽभिः ॥३

वयं बन्धुश्रुतबन्ध्वादयः “मनः सुबन्धोः संबन्धि मायाविभिरपहृतं “नु क्षिप्रम् "आ “हुवामहे आह्वयामहे । केन साधनेनेति तदुच्यते । “नाराशंसेन नराशंसचमसगतेन “सोमेन । नरैः शस्यन्त इति नराशंसाः पितरः । तेषां चमसानां कम्पनमेव होमः । तथाविधेन सोमेन “पितॄणाम् अङ्गिरसां “मन्मभिः “च मननीयैः स्तोत्रैश्च ॥


आ त॑ एतु॒ मन॒ः पुन॒ः क्रत्वे॒ दक्षा॑य जी॒वसे॑ ।

ज्योक्च॒ सूर्यं॑ दृ॒शे ॥४

आ । ते॒ । ए॒तु॒ । मनः॑ । पुन॒रिति॑ । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ ।

ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥४

आ । ते । एतु । मनः । पुनरिति । क्रत्वे । दक्षाय । जीवसे ।

ज्योक् । च । सूर्यम् । दृशे ॥४

हे सुबन्धो “ते “मनः “पुनः “आ “एतु अभिचरतः सकाशात् पुनरागच्छतु । किमर्थमिति उच्यते । “क्रत्वे कर्मणे लौकिकवैदिकविषयाय “दक्षाय बलाय च । यद्वा । क्रत्वे अपानाय दक्षाय प्राणाय । 'प्राणो वै दक्षोऽपानः क्रतुः' इति हि श्रुतिः । “जीवसे जीवनाय च “ज्योक् चिरकालं “सूर्यं “च “दृशे सूर्यं द्रष्टुम् । अत्यन्तं चिरजीवनायेत्यर्थः ॥


पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जन॑ः ।

जी॒वं व्रातं॑ सचेमहि ॥५

पुनः॑ । नः॒ । पि॒त॒रः॒ । मनः॑ । ददा॑तु । दैव्यः॑ । जनः॑ ।

जी॒वम् । व्रात॑म् । स॒चे॒म॒हि॒ ॥५

पुनः । नः । पितरः । मनः । ददातु । दैव्यः । जनः ।

जीवम् । व्रातम् । सचेमहि ॥५

“नः अस्माकं “पितरः पितृभूता अङ्गिरसः “जनः । तेषां संघ इत्यर्थः। स च “जीवं “व्रातं प्राणादीन्द्रियसंघातं “पुनः “ददातु । तथा “दैव्यो जनः । जनशब्दः संघवचनः । देवानां संघोऽपि जीवं व्रातं च ददातु । वयं च तदुभयं “सचेमहि प्राप्नुयाम ॥


व॒यं सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः ।

प्र॒जाव॑न्तः सचेमहि ॥६

व॒यम् । सो॒म॒ । व्र॒ते । तव॑ । मनः॑ । त॒नूषु॑ । बिभ्र॑तः ।

प्र॒जाऽव॑न्तः । स॒चे॒म॒हि॒ ॥६

वयम् । सोम । व्रते । तव । मनः । तनूषु । बिभ्रतः ।

प्रजाऽवन्तः । सचेमहि ॥६

हे “सोम देव “वयं बन्ध्वादयः “तव “व्रते त्वदीये कर्मणि । व्रतमिति कर्मनाम । तव “तनूषु त्वदीयेष्वङ्गेषु च मनः “बिभ्रतः तात्पर्ययुक्तां बुद्धिं धारयन्तः.”प्रजावन्तः प्रजाभिः पुत्रपौत्रादिभिर्युक्ताः सन्तः “सचेमहि संगच्छेमहि । जीवं व्रातं चेति शेषः ॥ ॥ १९ ॥


टिप्पणी

द्र. ऋग्वेदः ५.२४, शुक्लयजुर्वेदः ३.२५-२८, जैब्रा ३.१६८

बृहद्देवता ७.८४

अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। - ऐब्रा ३.११.१५

प्रवत्स्यन्संप्रेष्यत्य...ज्वलत उपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यम् । अन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादित्यन्वाहार्यपचनम् । पशून्मे शंस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयम् ६ मम नाम प्रथमं जातवेद इति च ७ वाग्यतोऽभिप्रव्रजति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तःस्थुर्नो अरातयः । - आप.श्रौ.सू. ६.२४

बन्धुः

बध्नन्ति फलेन संयोजयन्तीति बन्धवः कर्माणि - ऋ. ३.६०.१ सायण भाष्यम् । शब्दकल्पद्रुमे -- स्नेहेन मनो बध्नाति यः इति । अतएव, किं किलात-आकुली असुरौ कर्मबन्धस्य प्रतीकौ स्तः, अन्वेषणीयः।

सुबन्धुः -

पूषा सुबन्धुर्दिव आ पृथिव्याः - ऋ. ६.५८.४,

प्रपथे पथामजनिष्ट पूषा ३ प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर्दिव आ पृथिव्याः ।तैब्रा २.८.५.४

कथासरित्सागरे १.५.११५ सुबन्धोः विप्रस्य उल्लेखमस्ति यः श्राद्धस्य धुरि वोळ्ढुमिच्छति । पिृतॄणां श्राद्धकृत्ये एकः विप्रः पितॄणां आह्वानकर्ता भवति, यथा आधुनिककाले लोके प्लानचिटः। धुरिवोढनस्य अयं तात्पर्यमस्ति, अयं प्रतीयते।

ऋग्वेदः खिलसूक्ते ४.५.२० एका ऋचा सबन्धुश्चासबन्धुश्च इति अस्ति यस्य पुनरावृत्तयः अथर्ववेदस्य मन्त्रेषु सन्ति। सबन्धु एवं सुबन्धु शब्दयोर्मध्ये कः तादात्म्यमस्ति, अन्वेषणीयः।

१०.५७.३ मनो न्वाहुवामहे नराशंसेन सोमेन --

द्र. नराशंसोपरि टिप्पणी

मन उपरि टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५७&oldid=269697" इत्यस्माद् प्रतिप्राप्तम्