ऋग्वेदः सूक्तं १०.१६८

(ऋग्वेद: सूक्तं १०.१६८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१६७ ऋग्वेदः - मण्डल १०
सूक्तं १०.१६८
अनिलो वातायनः
सूक्तं १०.१६९ →
दे. वायुः। त्रिष्टुप् ।


वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः ।
दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥१॥
सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः ।
ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥२॥
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः ।
अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥३॥
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः ।
घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥४॥


सायणभाष्यम्

‘वातस्य' इति चतुर्ऋचं सप्तदशं सूक्तं वातगोत्रस्यानिलाख्यस्यार्षं त्रैष्टुभं वायुदेवताकम् । तथा चानुक्रान्तं -- वातस्यानिलो वातायनो वायव्यम् ' इति । गतो विनियोगः ॥


वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोषः॑ ।

दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥१

वात॑स्य । नु । म॒हि॒मान॑म् । रथ॑स्य । रु॒जन् । ए॒ति॒ । स्त॒नय॑न् । अ॒स्य॒ । घोषः॑ ।

दि॒वि॒ऽस्पृक् । या॒ति॒ । अ॒रु॒णानि॑ । कृ॒ण्वन् । उ॒तो इति॑ । ए॒ति॒ । पृ॒थि॒व्या । रे॒णुम् । अस्य॑न् ॥१

वातस्य । नु । महिमानम् । रथस्य । रुजन् । एति । स्तनयन् । अस्य । घोषः ।

दिविऽस्पृक् । याति । अरुणानि । कृण्वन् । उतो इति । एति । पृथिव्या । रेणुम् । अस्यन् ॥१

“वातस्य वायोः "रथस्य रंहणशीलस्य "महिमानं माहात्म्यं नु क्षिप्रं प्रब्रवीमि । "अस्य वायोः “घोषः शब्दः “स्तनयन् गिरिगह्वरादिषु विविधं शब्दमुत्पादयन् "रुजन् सर्वं स्थावरजङ्गमजातं भञ्जन् “एति गच्छति । स च वायुः "दिविस्पृक् दिवमाकाशं स्पृशन् व्याप्नुवन् "अरुणानि अरूणवर्णानि विकृतरूपाणि दिगन्तराणि "कृण्वन् कुर्वन् “याति प्राप्नोति । “उतो अपि च “पृथिव्या भूमेः "रेणुं पांसुम् "अस्यन् गृहीत्वा सर्वत्र विक्षिपन् "एति गच्छति । अत एव अरुणानि कृण्वन् इत्युक्तम् ॥


सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषाः॑ ।

ताभिः॑ स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥२

सम् । प्र । ई॒र॒ते॒ । अनु॑ । वात॑स्य । वि॒ऽस्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम॑नम् । न । योषाः॑ ।

ताभिः॑ । स॒ऽयुक् । स॒ऽरथ॑म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥२

सम् । प्र । ईरते । अनु । वातस्य । विऽस्थाः । आ । एनम् । गच्छन्ति । समनम् । न । योषाः ।

ताभिः । सऽयुक् । सऽरथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा ॥२

“विष्ठाः विशेषणावस्थिताः पर्वताद्याः “वातस्य वायोरनुगुणं “सं "प्रेरते संप्रगच्छन्ति । यदभिमुखो वायुर्वर्तते तदभिमुखाः प्रकम्पन्त इत्यर्थः । “समनं “न संग्राममिव “एनं वायुं “योषाः अश्वयोषितो वडवाः “आ “गच्छन्ति । “ताभिः वडवाभिः "स्वयुक् स्वयमेव युज्यमानं "सरथं समानमेकं रथमारुह्य “देवः दीप्यमानः वायुः “ईयते गच्छति । ' ईङ् गतौ ' । “अस्य “विश्वस्य सर्वस्य “भुवनस्य द्वितीयविकारभाजो भूतजातस्य “राजा स्वामी भवति । यद्वा । समनं धृष्टं पुरुषं योषाः कामिन्य इव एवं वायुं तरुगुल्मादिरूपाः स्त्रियोऽभिगच्छन्ति । ताभिः सरथं सहरथं देव ईयत इति ।।


अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ ।

अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥३

अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । ईय॑मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति॑ ।

अ॒पाम् । सखा॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । क्व॑ । स्वि॒त् । जा॒तः । कुतः॑ । आ । ब॒भू॒व॒ ॥३

अन्तरिक्षे । पथिऽभिः । ईयमानः । न । नि । विशते । कतमत् । चन । अहरिति ।

अपाम् । सखा । प्रथमऽजाः । ऋतऽवा । क्व । स्वित् । जातः । कुतः । आ । बभूव ॥३

“अन्तरिक्षे नभसि विद्यमानैः “पथिभिः मार्गैः “ईयमानः गच्छन् वायुः “कतमच्चनाहः एकमपि दिनं “न “नि “विशते नोपविशति । किंतु सर्वदैव गच्छति । ' नेर्विशः ' ( पा. सू. १. ३. १७) इत्यात्मनेपदम् । अपि च “अपाम् उदकानां “सखा । ' वायुर्वै वृष्ट्या ईशे ' ( तै. सं. २ .४. ९. १) इति श्रुतेः । “प्रथमजाः सर्वेभ्यः प्राणिभ्यः पूर्वोत्पन्न एव “ऋतावा सत्यवान् यज्ञवान् वा एवंभूतो वायुः “क्व “स्वित् कुत्र खलु देशे “जातः उत्पन्नः “कुतः कस्माच्च देशान्निष्क्रम्य “आ “बभूव इदं सर्वं जगद्व्याप्नोत् । सर्वदा सर्वत्र वर्तमानत्वादस्योत्पत्तिर्व्याप्तिप्रकारश्च न केनापि ज्ञातुं शक्यत इत्यर्थः ।।


आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः ।

घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥४

आ॒त्मा । दे॒वाना॑म् । भुव॑नस्य । गर्भः॑ । य॒था॒ऽव॒शम् । च॒र॒ति॒ । दे॒वः । ए॒षः ।

घोषाः॑ । इत् । अ॒स्य॒ । शृ॒ण्वि॒रे॒ । न । रू॒पम् । तस्मै॑ । वाता॑य । ह॒विषा॑ । वि॒धे॒म॒ ॥४

आत्मा । देवानाम् । भुवनस्य । गर्भः । यथाऽवशम् । चरति । देवः । एषः ।

घोषाः । इत् । अस्य । शृण्विरे । न । रूपम् । तस्मै । वाताय । हविषा । विधेम ॥४

अयं वायुः “देवानाम् इन्द्रादीनामपि “आत्मा जीवरूपेण तेष्ववस्थानात् “भुवनस्य अपि भूतजातस्य “गर्भः गर्भवत्प्राणरूपेणान्तर्वर्तमानः “एषः ईदृशः “देवः “यथावशं यथाकामं यथेच्छं “चरति वर्तते । अनिवारितगतिः सन् क्वचिच्छीघ्रं गच्छति क्वचिच्छनैर्गच्छति कुतश्चिच्छरीरान्निष्क्रामति अन्यच्च शरीरं प्रविशतीत्येवं यथेच्छं वर्तत इत्यर्थः । “अस्य वायोरागच्छतः “घोषा “इत् शब्दा एव “शृण्विरे श्रूयन्ते । “रूपं स्वरूपं तु “न दृश्यते नीरूपत्वात् । अदृग्विषयत्वेन शब्देनैवानुमीयत इत्यर्थः । “तस्मै “वाताय वायवे “हविषा चरुपुरोडाशादिलक्षणेन “विधेम परिचरेम ।। ।। २६ ।।

टिप्पणी

१०.१६८.१ वातस्य नु महिमानमिति

रेणुका उपरि टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६८&oldid=339340" इत्यस्माद् प्रतिप्राप्तम्