प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.१३२

(ऋग्वेद: सूक्तं १०.१३२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१३१ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३२
शकपूतो नार्मेधः
सूक्तं १०.१३३ →
दे. मित्रावरुणौ, १ द्युभूम्यश्विनः। विराड्रूपा, १ न्यङ्कुसारिणी, २, ६ प्रस्तारपङ्क्तिः, ७ महासतोबृहती।


ईजानमिद्द्यौर्गूर्तावसुरीजानं भूमिरभि प्रभूषणि ।
ईजानं देवावश्विनावभि सुम्नैरवर्धताम् ॥१॥
ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि ।
युवोः क्राणाय सख्यैरभि ष्याम रक्षसः ॥२॥
अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः ।
दद्वाँ वा यत्पुष्यति रेक्णः सम्वारन्नकिरस्य मघानि ॥३॥
असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा ।
मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक् ॥४॥
अस्मिन्स्वेतच्छकपूत एनो हिते मित्रे निगतान्हन्ति वीरान् ।
अवोर्वा यद्धात्तनूष्ववः प्रियासु यज्ञियास्वर्वा ॥५॥
युवोर्हि मातादितिर्विचेतसा द्यौर्न भूमिः पयसा पुपूतनि ।
अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥६॥
युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदम् ।
ता नः कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ॥७॥


सायणभाष्यम्

' ईजानम् ' इति सप्तर्चं चतुर्थं सूक्तं नृमेधपुत्रस्य शकपूतस्यार्षं मित्रावरुणदेवताकम् । आद्या तु लिङ्गोक्तद्युभूम्यश्विदेवताका न्यङ्कुसारिणी द्वितीयद्वादशकत्र्यष्टकवती । द्वितीयाषष्ठ्यौ प्रस्तारपङ्क्ती द्विद्वादशकद्व्यष्टकवती । सप्तमी महासतोबृहती त्र्यष्टकद्विद्वादशकवती । शिष्टास्तिस्रो विराड्रूपा एकादशिनस्त्रयोऽष्टकश्चेति लक्षणलक्षिताः । तथा चानुक्रान्तम् -' ईजानं शकपूतो नार्मेधो मैत्रावरुणं न्यङ्कुसारिण्याद्या लिङ्गोक्तदेवतान्त्या महासतोबृहत्युपाद्योपान्त्ये प्रस्तारपङ्क्ती शेषा विराड्रूपाः ' हति । गतो विनियोगः ।।


ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ ।

ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धताम् ॥ १

ई॒जा॒नम् । इत् । द्यौः । गू॒र्तऽव॑सुः । ई॒जा॒नम् । भूमिः॑ । अ॒भि । प्र॒ऽभू॒षणि॑ ।

ई॒जा॒नम् । दे॒वौ । अ॒श्विनौ॑ । अ॒भि । सु॒म्नैः । अ॒व॒र्ध॒ता॒म् ॥१

ईजानम् । इत् । द्यौः । गूर्तऽवसुः । ईजानम् । भूमिः । अभि । प्रऽभूषणि ।

ईजानम् । देवौ । अश्विनौ । अभि । सुम्नैः । अवर्धताम् ॥१

“गूर्तवसुः । गूर्तमुद्यतं स्तोतृभ्यो दानाय हस्ते धृतं वसु धनं यस्याः सा तथोक्ता ।। 'गुरी उद्यमने ' । निष्ठा । ' श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ' नसत्तनिषत्त० ' इत्यादिना निपातनान्निष्ठानत्वाभावः । ' अंन्येषामपि० इति सांहितिको दीर्घः । बहुव्रीहौ पूर्वंपदप्रकृतिस्वरत्वम् ।। ईदृशी “द्यौः द्युलोकाभिमानिनी देवता “ईजानम् “इत् यज्ञैः इष्टवन्तमेव पुरुषमभिवर्धयति । यजेलिटः कानच् । ' वचिस्वपि' इति संप्रसारणे द्विर्वचनम् । तथा “भूमिः च “प्रभूषणि प्रभवने यद्वा प्रकृष्टभूषणे अलंकारे निमित्तभूते सति “ईजानम् अभिवर्धयति । अपि च “देवौ दानादिगुणणयुक्तौ “अश्विनौ “ईजानम् इष्टवन्तं पुरुषं “सुम्नैः धनैः “अभि “अवर्धताम् अभिवर्धयतः । वृधेरन्तर्भावितण्यर्थात् छान्दसो लङ् ।।


ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि ।

यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षसः॑ ॥ २

ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ ।

यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥२

ता । वाम् । मित्रावरुणा । धारयत्क्षिती इति धारयत्ऽक्षिती । सुऽसुम्ना । इषितत्वता । यजामसि ।

युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः ॥२

हे “मित्रावरुणा मित्रावरुणौ “धारयत्क्षिती ध्रियमाणभूमिकौ । यद्वा क्षितिरिति मनुहयनाम । हवींषि धारयन्तः क्षितयो मनुष्या ययोः स्वभूतास्तथाविधौ । “सुषुम्ना सुषुम्नौ सुधनौ सुसुखौ वा “ता तौ “वां युवाम् “इषितत्वता इषितत्वेन । तृतीयैकवचने छान्दसस्तकारोपजनः । यद्वा । भावप्रत्ययान्तात् पुनरपि भावप्रत्ययो विकरणद्वयवत् । इषितव्यत्वेन प्राप्तव्यत्वेन । हेतौ तृतीया । यतो युवां देवेषु मध्ये प्राप्तव्यौ ततो हेतोः “यजामसि हविर्भिर्यजामः । इदन्तो मसि' इति मस इकारागमः । एवं च “युवोः युवयोः “सख्यैः सखित्वैः । सख्युर्यः । “क्राणाय कुर्वते यजमानाय । करोतेः शानचि छान्दसो विकरणस्य लुक् । तादर्थ्ये चतुर्थी । यजमानार्थं “रक्षसः यज्ञस्य बाधकान् राक्षसान् “अभि “ष्याम अभिभवेम । ' उपसर्गप्रादुर्भ्याम् (पा. सू. ८. ३. ८७ ) इत्यस्तेः सकारस्य षत्वम् ॥


अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः ।

द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥ ३

अध॑ । चि॒त् । नु । यत् । दिधि॑षामहे । वा॒म् । अ॒भि । प्रि॒यम् । रेक्णः॑ । पत्य॑मानाः ।

द॒द्वान् । वा॒ । यत् । पुष्य॑ति । रेक्णः॑ । सम् । ऊं॒ इति॑ । आ॒र॒न् । नकिः॑ । अ॒स्य॒ । म॒घानि॑ ॥३

अध । चित् । नु । यत् । दिधिषामहे । वाम् । अभि । प्रियम् । रेक्णः । पत्यमानाः ।

दद्वान् । वा । यत् । पुष्यति । रेक्णः । सम् । ऊं इति । आरन् । नकिः । अस्य । मघानि ॥३

हे मित्रावरुणौ “वां युवाभ्यां युवयोरर्थं “यत् यदा “दिधिषामहे हवींषि धारयामः । यद्वा । ‘ धिष शब्दे । वां युवां स्तुमहे । “अधा “चित् अनन्तरमेव “नु क्षिप्रं “प्रियम् अभीष्टं “रेक्णः । धननामैतत् । धनम् “अभि “पत्यमानाः अभिपतन्तोऽभिप्राप्नुवन्तो भवामः । “दद्वान् ददिवान् । ददातेर्लिटः क्वसुः । छन्दस्युभयथा ' इति वसोः सार्वधातुकत्वात् श्नाभ्यस्तयोरातः' इत्याकारलोपः। अत एवेडभावश्च । संहितायां नकारस्य दीर्घादटि समानपादे' इति रुत्वम्। ‘ आतोऽटि नित्यम् ' । इति सानुनासिक आकारः । वाशब्दश्चार्थे । हवींषि दत्तवांश्च “यत् यो यजमानः “रेक्णः धनं “पुष्यति वर्धयति “अस्य दत्तवतो यजमानस्य “मघानि धनानि “नकिः “सम् “आरन नैवापगच्छन्ति । किंतु तमेव सर्वदा भजन्ते । समित्येतत् अपेत्येतस्यार्थे । “उ इति पूरणः । अर्तेश्छान्दसे लुङि ‘सर्तिशास्त्यर्तिभ्यश्च ' इति च्लेरादेशः । ‘ ऋदृशोऽङि गुणः' ( पा. सू. ७. ४.१६ )।


अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ ।

मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ॥ ४

अ॒सौ । अ॒न्यः । अ॒सु॒र॒ । सू॒य॒त॒ । द्यौः । त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ ।

मू॒र्धा । रथ॑स्य । चा॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥४

असौ । अन्यः । असुर । सूयत । द्यौः । त्वम् । विश्वेषाम् । वरुण । असि । राजा ।

मूर्धा । रथस्य । चाकन् । न । एतावता । एनसा । अन्तकऽध्रुक् ॥४

हे “असुर तमसः क्षेपक । यद्वा असवः प्राणाः । तान् ददाति मनुष्येभ्यः स्वोदयेन प्रयच्छतीत्यसुरः । ईदृश हे मित्र “द्यौः द्युलोको देवनशीलादितिर्वा “अन्यः । ‘ सुपां सुलुक्' इति द्वितीयायाः स्वादेशः । वरुणापेक्षया अन्यम् “असौ अमुं नभसि दृश्यमानं त्वां “सूयत असूत ॥ 'षूङ् प्राणिप्रसवे'। छान्दसोऽडभावः ।। हे “वरुण “त्वं च “विश्वेषां सर्वेषां प्राणिनां “राजा “असि ईश्वरो भवसि । तादृशयोर्युवयोः “रथस्य “मूर्धा शिरः “चाकन् अस्मद्यज्ञं कामयते । यद्वा । रथस्य रंहणशीलस्य यज्ञस्य मूर्धा न मूर्धेव प्रधानः सोमश्चाकन् युवां कामयते ॥ ‘कन दीप्तिकान्तिगतिषु' । अस्माद्यङ्लुगन्ताच्छान्दसो लङ् ।। यत एवमतः कारणात् “अन्तकध्रुकु अन्तकस्य हननशीलस्य राक्षसादेर्यमस्यैव वा द्रोग्धा । 'द्रुह जिघांसायाम् ' । ‘ सत्सूद्विष इत्यादिना क्विप् । 'वा द्रुहमुहष्णुहष्णिहाम्' (पा. सू. ८. २. ३३ ) इति घत्वम् । भष्भावः । ईदृशः स यज्ञः “एतावता “एनसा इयत्परिमाणेनापि पापलेशेनापि “न युज्यते ॥


अ॒स्मिन्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् ।

अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥ ५

अ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एनः॑ । हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् ।

अ॒वोः । वा॒ । यत् । धात् । त॒नूषु॑ । अवः॑ । प्रि॒यासु॑ । य॒ज्ञिया॑सु । अर्वा॑ ॥५

अस्मिन् । सु । एतत् । शकऽपूते । एनः । हिते । मित्रे । निऽगतान् । हन्ति । वीरान् ।

अवोः । वा । यत् । धात् । तनूषु । अवः । प्रियासु । यज्ञियासु । अर्वा ॥५

योऽयं शकपूताख्य ऋषिः “अस्मिन् “शकपूते स्थितम् “एतत् “एनः पापं शत्रूणां पापकरमायुधं वा “मित्रे देवे “हिते हिताचरणपरेऽनुकूले सति “निगतान् निगन्तव्यान् हननार्थं नियमेन प्राप्तव्यान् “वीरान् शत्रोः पुत्रादीन् “सु सुष्ठु “हन्ति हिनस्ति । अस्मिन्नृषौ समवेतं यत्पापं तन्मित्रस्य प्रसादेन तदीयेषु शत्रुषु स्वकार्यं दुःखं जनयतीत्यर्थः । निगतान् । निपूर्वाद्गमेः कर्मणि निष्ठा । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । कदेत्यत आह । “अवोः हविर्भिस्तर्पयितुः । अवतेरौणादिक उप्रत्ययः । तस्य यजमानस्य “यज्ञियासु यज्ञार्हासु क्रियासु “तनूषु शरीरेषु “अर्वा अभिगन्ता मित्रो वरुणो वा “यत् यदा “अवः रक्षणं “धात् दधाति निदधाति स्थापयति । यद्वा । यदा अर्वा अभिगन्ता स ऋषिः अवितुः रक्षितुर्मित्रस्य वरुणस्य वा यागार्हासु प्रियासु तनूषु शरीरेषु अवो हविर्लक्षणमन्नं धात् धारयति । तदानीं मित्रे वरुणे चानुकूले सति तदेनो वीरान् हन्तीत्यर्थः ।।


यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ ।

अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभिः॑ ॥ ६

यु॒वोः । हि । मा॒ता । अदि॑तिः । वि॒ऽचे॒त॒सा॒ । द्यौः । न । भूमिः॑ । पय॑सा । पु॒पू॒तनि॑ ।

अव॑ । प्रि॒या । दि॒दि॒ष्ट॒न॒ । सूरः॑ । नि॒नि॒क्त॒ । र॒श्मिऽभिः॑ ॥६

युवोः । हि । माता । अदितिः । विऽचेतसा । द्यौः । न । भूमिः । पयसा । पुपूतनि ।

अव । प्रिया । दिदिष्टन । सूरः । निनिक्त । रश्मिऽभिः ॥६

हे “विचेतसा विशिष्टज्ञानौ मित्रावरुणौ “युवोर्हि युवयोः खलु “माता जननी “अदितिः अदीना अखण्डनीया वा भवति । सैव भूमिः । ' इयं वा अदितिः' (तै. सं २.२.६.१) इति श्रुतेः । “द्यौर्न यथा द्युलोकः “पयसा वृष्ट्युदकेन सर्वं जगत् पुनाति एवमेषा सा “भूमिः पयसा आत्मीयेन रसेन हविरात्मना परिणतेन पुपूतनि परिपवने यजमानानां पापस्य शोधने हेतुर्भवतीत्यर्थः ।। पूतशब्दादाचारे क्विबन्तादौणादिकः कनिप्रत्ययः। छान्दसं द्विर्वचनम् । तौ युवामतिदिश्य यूयं “प्रिया प्रियाणि धनानि “अव “दिदिष्टन अवाङ्मुखमस्मदभिमुखं दिशत दत्त ।। ' दिश अतिसर्जने ' । अस्माल्लोटि छान्दसः शपः श्लुः । ' तप्तनप्तनथनाश्च ' इति तशब्दस्य तनादेशः ।। अपि च “सूरः सूर्यस्य “रश्मिभिः किरणैः “निनिक्त अस्मान् शोधयत पोषयत वा । ' णिजिर् शौचपोषणयोः' । जौहोत्यादिकः । ' संज्ञापूर्वको विधिरनित्यः ' इति ' निजां त्रयाणां' ( पा. सू ७.४.७५) इत्यभ्यासस्य गुणो न क्रियते ।।


यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षद॑म् ।

ता नः॑ कणूक॒यन्ती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥ ७

यु॒वम् । हि । अ॒प्न॒ऽराजौ॑ । असी॑दतम् । तिष्ठ॑त् । रथ॑म् । न । धूः॒ऽसद॑म् । व॒न॒ऽसद॑म् ।

ताः । नः॒ । क॒णू॒क॒ऽयन्तीः॑ । नृ॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः । सु॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः ॥७

युवम् । हि । अप्नऽराजौ । असीदतम् । तिष्ठत् । रथम् । न । धूःऽसदम् । वनऽसदम् ।

ताः । नः । कणूकऽयन्तीः । नृऽमेधः । तत्रे । अंहसः । सुऽमेधः । तत्रे । अंहसः ॥७

हे मित्रावरुणौ “युवं “हि युवां खलु “अप्नराजौ अप्नसा कर्मण प्रवर्षणप्रकाशनादिना राजमानौ दीप्यमानौ सन्तौ असीदतं स्वकीये स्थाने निषीदथः आसाथे ।। अप्न इति कर्मनाम । ' आपः कर्माख्यायां ह्रस्वो नुट्च वा ' ( उ. सू. ४.२०७) इत्याप्नोतेः असुन् तस्य नुडागमो धातोर्ह्रस्वश्च । तस्मिन्नुपपदे राजतेः 'सत्सूद्विष इत्यादिना क्विप् । ' पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः '( पा. म. ६. ३.१०९. ६) इत्यप्नसः सकारलोपः ।। तौ मित्रावरुणौ “कणूकयन्तीः । कणतिः शब्दार्थः । कणनमाक्रोशरूपं शब्दनमिच्छन्तीः “ताः प्रसिद्धाः शात्रवीः प्रजा अभिभवितुम् । “न संप्रत्यर्थे । संप्रति “रथं “तिष्ठत् अभितिष्ठताम् । तिष्ठतेर्लेट्यडागमः । ' इतश्च लोपः' इतीकारलोपः । प्रत्येकाभिप्रायेणैकवचनम् । कीदृशं रथम् । “धूर्षदं धुर्यश्वयोर्वहनदेशे सीदन्तं “वनर्षदं वनेषूद्यानेषु क्रीडार्थं निषीदन्तम् । यद्वा । वनमित्युदकनाम । समुद्रमध्ये हि वरुणो निवसति । वने समुद्रोदके निषीदन्तम् । उभयत्रापि पूर्ववत् क्विप् । वनसदमित्यत्र छान्दसः सांहितिको रेफोपजनः । हे मित्रावरुणौ युवाभ्यां “नृमेधः. मम पिता “अंहसः पापात् “तत्रे ररक्षे रक्षितो बभूव । ' त्रैङ् पालने ' इत्यस्मात् कर्मणि लिट् । यद्वा उपचाराज्जन्ये जनकशब्दः । नृमेधस्य पुत्रः शकपूतोऽहं पापात् युवाभ्यां तत्रे रक्षितोऽस्मि । “सुमेधः अन्योऽपि सुयज्ञो यजमानः अंहसः पापात् “तत्रे युवाभ्यामेवारक्ष्यत । भीत्रार्थानाम् ' ( पा. सू १ .४.२५) इत्यंहसोऽपादानसंज्ञा ।। ।।२ ०।।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१