प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.१७८

(ऋग्वेद: सूक्तं १०.१७८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१७७ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७८
अरिष्टनेमिस्तार्क्ष्यः
सूक्तं १०.१७९ →
दे. तार्क्ष्यः। त्रिष्टुप् ।
तार्क्ष्य साम Eagle chant


त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम ।
उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥२॥
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥३॥

सायणभाष्यम्

‘त्यमू षु' इति तृचं सप्तविंशं सूक्तं तार्क्ष्यपुत्रस्यारिष्टनेमेरार्षं त्रैष्टुभं तार्क्ष्यदेवताकम् । तथा चानुक्रान्तं - त्यमू ष्वरिष्टनेमिस्तार्क्ष्यस्तार्क्ष्यम्' इति । अहर्गणेषु द्वितीयादिष्वहःसु निष्केवल्यसूक्तानां पुरस्तादिदं सूक्तं शंसनीयम् । सूत्रितं च -- त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यमग्रे निष्केवल्यसूक्तानाम् ' ( आश्व. श्रौ. ७.१.१३ ) इति । विषुवति तु निष्केवल्यसूक्तानामन्त एव तत्सूक्तम् । सूत्र्यते हि - त्यमू ष्वितीह तार्क्ष्यमन्ततः' (आश्व. श्रौ. ८.६.१४) इति । महाव्रतेऽपि निष्केवल्य एतत् । तथैव पञ्चमारण्यके सूत्र्यते (ऐ. आ. ५. ३. १)॥


त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् ।

अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥१

त्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । स॒हऽवा॑नम् । त॒रु॒तार॑म् । रथा॑नाम् ।

अरि॑ष्टऽनेमिम् । पृ॒त॒नाज॑म् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । हु॒वे॒म॒ ॥१

त्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सहऽवानम् । तरुतारम् । रथानाम् ।

अरिष्टऽनेमिम् । पृतनाजम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । हुवेम ॥१

“त्यमु तं प्रसिद्धमेव "तार्क्ष्यं तृक्षपुत्रं सुपर्णम् ॥ तृक्षाद्यञ् । गर्गादिः ॥ "स्वस्तये क्षेमाय "इह अस्मिन् कर्मणि "हुवेम भृशमाह्वयेमहि ॥ ' बहुलं छन्दसि ' इति ह्वयतेः संप्रसारणम्। लिङ्याशिष्यङ् । यद्वा । प्रार्थनायां लिङि व्यत्ययेन शः ॥ कीदृशम् । "वाजिनं बलवन्तमन्नवन्तं वा "देवजूतं देवैः सोमाहरणाय प्रेरितम् ॥ जु इति गत्यर्थः सौत्रो धातुः । अस्मात् कर्मणि निष्ठा ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ यद्वा । देवैः प्रीयमाणं तर्प्यमाणम् । यदाह यास्कः - ‘ जूतिर्गतिः प्रीतिर्वा देवजूतं देवगतं देवप्रीतं वा' (निरु. १०. २८) इति । "सहावानं सहस्वन्तं बलवन्तमभिभवनवन्तं वा अत एव “रथानाम् अन्यदीयानां “तरुतारं संग्रामे जेतारम् । यद्वा । रंहणशीला इमे लोका रथाः । तान् सोमाहरणसमये शीघ्रं तरीतारम् । श्रूयते हि -- एष हीमाँल्लोकान्सद्यस्तरति ' ( ऐ.ब्रा. ४, २०) इति ॥ तरतेस्तृचि ‘ग्रसितस्कभित° ' इत्यादावुडागमो निपात्यते (पा. सू. ७. २. ३४ ) ॥ “अरिष्टनेमिम् अहिंसितरथम् । यद्वा । नेमिर्नमनशीलमायुधम् । अहिंसितायुधम् । अथवा । उपचाराज्जनके जन्यशब्दः । अरिष्टनेमेर्मम जनकम् । “पृतनाजं पृतनानां शत्रुसेनानां प्राजितारं प्रगमयितारं जेतारं वा ।' अज गतिक्षेपणयोः' । अस्मात्क्विप् । ‘बलादावार्धधातुके विकल्प इष्यते' ( का. २. ४. ५६. २) इति वचनाद्वीभावाभावः । जयतेर्वा डप्रत्ययः । "आशुं शीघ्रगामिनम् ॥


इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम ।

उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी॑रे॒ मा वा॒मेतौ॒ मा परे॑तौ रिषाम ॥२

इन्द्र॑स्यऽइव । रा॒तिम् । आ॒ऽजोहु॑वानाः । स्व॒स्तये॑ । नाव॑म्ऽइव । आ । रु॒हे॒म॒ ।

उर्वी॒ इति॑ । न । पृथ्वी॒ इति॑ । बहु॑ले॒ इति॑ । गभी॑रे॒ इति॑ । मा । वा॒म् । आऽइ॑तौ । मा । परा॑ऽइतौ । रि॒षा॒म॒ ॥२

इन्द्रस्यऽइव । रातिम् । आऽजोहुवानाः । स्वस्तये । नावम्ऽइव । आ । रुहेम ।

उर्वी इति । न । पृथ्वी इति । बहुले इति । गभीरे इति । मा । वाम् । आऽइतौ । मा । पराऽइतौ । रिषाम ॥२

“इन्द्रस्येव तार्क्ष्यस्य "रातिं दानम् "आजोहुवानाः पुनःपुनराह्वयन्तो वयं "स्वस्तये अविनाशाय "नावमिव नौर्यथा दुरवगाहं समुद्रं तारयति तथा दुःखस्य तारयित्रीं ताम् “आ “रुहेम आरूढा भूयास्म ॥ रुहेराशीर्लिंङि लिङयाशिष्यङ् ॥ हे “उर्वी उर्व्यौ विस्तीर्णे हे “पृथ्वी पृथिवी प्रथिते विख्याते हे "बहुले अनन्ते "गभीरे गाम्भीर्योपेते ईदृश्यौ हे द्यावापृथिव्यौ। नशब्दः संप्रत्यर्थे । संप्रति "वां युवयोः संबन्धिनि “एतौ तार्क्ष्यस्यागमे “परेतौ परागमने च वयं "मा “रिषाम हिंसिता मा भूम ॥ आङ्पराभ्यामुत्तरस्येणो भावे क्तिन् ।' तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् ॥


स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ ।

स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा॑ वरन्ते युव॒तिं न शर्या॑म् ॥३

स॒द्यः । चि॒त् । यः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒तान॑ ।

स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । अ॒स्य॒ । रंहिः॑ । न । स्म॒ । व॒र॒न्ते॒ । यु॒व॒तिम् । न । शर्या॑म् ॥३

सद्यः । चित् । यः । शवसा । पञ्च । कृष्टीः । सूर्यःऽइव । ज्योतिषा । अपः । ततान ।

सहस्रऽसाः । शतऽसाः । अस्य । रंहिः । न । स्म । वरन्ते । युवतिम् । न । शर्याम् ॥३

“यः "चित् योऽपि तार्क्ष्यः "सद्यः शीघ्रं "शवसा आत्मीयेन बलेन "अपः उदकानि अमृतलक्षणानि “ततान विस्तारितवान् "सूर्यइव यथा सूर्यः सर्वस्य प्रेरक आदित्यः "ज्योतिषा आत्मीयेन तेजसा वर्षर्तौ अपो विस्तारयति तद्वत् । कृष्टयो मनुष्याः । "पञ्च "कृष्टीः पञ्चविधान् कृष्टीन् मनुष्यान् प्रति । निषादपञ्चमांश्चतुरो वर्णनित्यर्थः । "अस्य तार्क्ष्यस्य "रंहिः गतिः "सहस्रसाः सहस्रसंख्यस्य धनस्य दात्री संभक्त्री वा भवति । तथा “शतसाः शतस्य च दात्री संभक्त्री वा भवति ॥ सनतेः सनोतेर्वा 'जनसनखन' इति विट् । ‘विड्वनोरनुनासिकस्यात्' इत्यात्वम् । “न "स्म न खल्वीदृशीं तार्क्ष्यस्य ते गतिं "वरन्ते के चन वारयन्ति । तत्र दृष्टान्तः । “शर्यां शरकाण्डमयीमिषुं धनुषो मुक्तां “युवतिं "न लक्ष्येण मिश्रीभवन्तीमिव । सा यथा दुर्निवारा तथैषा कैश्चिदपि वारयितुमशक्येत्यर्थः। अत्र निरुक्तं - सद्योऽपि यः शवसा बलेन तनोत्यपः सूर्यइव ज्योतिषा पञ्च मनुष्यजातानि सहस्रसानिनी शतसानिन्यस्य सा गतिर्न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम्' (निरु. १० २९ ) इति ॥ ॥ ३६ ॥

सम्पाद्यताम्

टिप्पणी

अरिष्टनेम्युपरि टिप्पणी

तार्क्ष्योपरि पौराणिकसंदर्भाः

तार्क्ष्योपरि टिप्पणी

तार्क्ष्योपरि शोधलेखः पृष्ठ १३८

त्यमूषु -- त्यं ऊँ सु। डा.
 
डाँ. फतहसिंह
फतहसिंहानुसारेण वेदे ओंकारस्य दौ रूपौ स्तः - ओ सु एवं मो सु। ओ सु सृजनात्मकः अस्ति, मो सु संहारकः।

सहावानं तरुतारं रथानाम् -- भविष्यपुराणे ३.३.१.२७ उल्लेखः अस्ति यत् कलियुगे सहदेवस्य जन्म देवसिंहरूपे भवति। अयं संकेतमस्ति यत् यदा सहसंज्ञकस्य बलस्य विकृतिः भवति, तदा तत् सिंहरूपे प्रकटयति।

अस्मात् सूक्तात् पूर्वतनं सूक्तं अपि द्रष्टव्यमस्ति। भागवतपुराणानुसारेण ६.६.२२ तार्क्ष्यस्य/कश्यपस्य चत्वार्यः भार्याः सन्ति - विनता, कद्रू, पतङ्गी एवं शलभा। पतङ्गीभार्यातः पतगानां सृष्टिः भवति।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१