ऋग्वेदः सूक्तं १०.१३५

(ऋग्वेद: सूक्तं १०.१३५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१३४ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३५
कुमारो यामायनः
सूक्तं १०.१३६ →
दे. यमः। अनुष्टुप्


यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः ।
अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥१॥
पुराणाँ अनुवेनन्तं चरन्तं पापयामुया ।
असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥२॥
यं कुमार नवं रथमचक्रं मनसाकृणोः ।
एकेषं विश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि ॥३॥
यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि ।
तं सामानु प्रावर्तत समितो नाव्याहितम् ॥४॥
कः कुमारमजनयद्रथं को निरवर्तयत् ।
कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥५॥
यथाभवदनुदेयी ततो अग्रमजायत ।
पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम् ॥६॥
इदं यमस्य सादनं देवमानं यदुच्यते ।
इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥७॥


सायणभाष्यम्

‘यस्मिन्' इति सप्तर्चं सप्तमं सूक्तं यमगोत्रस्य कुमारस्यार्षमानुष्टुभं यमदेवत्यम्। तथा चानुक्रान्तं- यस्मिन् कुमारो यामायनो याममानुष्टुभं तु ' इति ॥


यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः ।

अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥१

यस्मि॑न् । वृ॒क्षे । सु॒ऽप॒ला॒शे । दे॒वैः । स॒म्ऽपिब॑ते । य॒मः ।

अत्र॑ । नः॒ । वि॒श्पतिः॑ । पि॒ता । पु॒रा॒णान् । अनु॑ । वे॒न॒ति॒ ॥१

यस्मिन् । वृक्षे । सुऽपलाशे। देवैः । सम्ऽपिबते । यमः ।

अत्र । नः । विश्पतिः । पिता । पुराणान् । अनु । वेनति ॥ १ ॥

"वृक्षे । लुप्तोपममेतत् । वृक्षवत् सुपलाशे शोभनपलाशोपेते शोभनोद्यानसहिते। यद्वा। शोभनपर्णोपेते वृक्षे । तादृशस्य वृक्षस्य मूलं यथौष्ण्यजनितश्रमापनोदनेन सुखकरं भवति तद्वत् सुखकरे “यस्मिन् स्थाने “देवैः परिजनभूतैः “यमः नियन्ता वैवस्वतः संपिबते सह भुङ्क्ते पिबतीत्यर्थः । “विश्पतिः विशां प्रजानामधिपतिः “पिता “नः । व्यत्ययेन बहुवचनम्। मम नचिकेतसो जनको वाजश्रवसः “अत्र अस्मिन् यमस्य स्थाने “पुराणान् पुरातनान् अत्र चिरकालं निवसतः पितॄन् अनु तेषां पश्चात् तत्समीपे निवसत्वयमिति “वेनति मां कामयते । नचिकेता नाम कुमारो वाजश्रवसेन पित्रा यमलोकं प्रस्थापितः सन् यमं दृष्ट्वा प्रसाद्य पुनरपीमं लोकमाजगाम । अयमर्थं इदमादिकैर्मन्त्रैः प्रतिपाद्यते । यद्वा । कुमारो नाम नचिकेतसोऽन्यः कश्चिदृषिः । यच्छतीति यम आदित्यः । तमनेन सूक्तेन तुष्टाव । सुपलाशे वृक्ष इव यस्मिन् शोभने स्थाने यम आदित्यो देवैः। दीव्यन्तीति देवा रश्मयः । तैः संपिबते संगच्छते । उपसर्गवशात् पिबतिरत्र गत्यर्थः । व्यत्ययेना स्मनेपदम् । अत्र अस्मिन् स्थाने स्थितो विश्पतिर्विशां प्रजानां प्रकाशनप्रवर्षणादिना पालयित प्राणात्मना सर्वेषां जनकः स आदित्यः पुराणांश्चिरंतनान् स्तोतॄन् नोऽस्मानपि वेनति अनुग्राह्यत्वेन कामयते । यद्वा । अत्र स्थाने स्थितान् नोऽस्माकं पुराणान् पूर्वपुरुषाननु वेनति अनुक्रमेण कामयते।


पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या ।

अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑ ॥२

पु॒रा॒णान् । अ॒नु॒ऽवेन॑न्तम् । चर॑न्तम् । पा॒पया॑ । अ॒मु॒या ।

अ॒सू॒यन् । अ॒भि । अ॒चा॒क॒श॒म् । तस्मै॑ । अ॒स्पृ॒ह॒य॒म् । पुन॒रिति॑ ॥२

पुराणान् । अनुऽवेनन्तम् । चरन्तम् । पापया । अमुया ।

असूयन् । अभि । अचाकशम् । तस्मै । अस्पृहयम् । पुनरिति ॥२

“पुराणान् पुरातनान् पितॄन् “अनुवेनन्तं मामनुगतं कामयमानम् “अमुया अनया “पापया निकृष्टाया बुद्ध्या सह “चरन्तं वर्तमानं पितरं वाजश्रवसम् “असूयन् सुखेन जीवन्तं मां मृत्युसमीपं प्रेहीत्युक्तवानिति मानसेनोपतापेन युक्तः सन् प्रथमम् “अभ्यचाकशम् । अयं पश्यतिकर्मा। अभ्यपश्यम्' । ' असुञ् मानस उपतापे ' । कण्ड्वादिः । “पुनः पश्चात् “तस्मा “अस्पृहयं पितुराज्ञया तं मृत्युं प्राप्तुमैच्छम् । ' स्पृह ईप्सायाम् । चुरादिरदन्तः । ' स्पृहेरीप्सितः' ( पा. सू. १.४.३६) इति संप्रदानसंज्ञायां तच्छब्दाच्चतुर्थी । यद्वा । पुराणान् चिरंतनान् स्तोतॄन् पूर्वपुरुषान् पितॄन् वा अनुवेनन्तमनुक्रमेण कामयमानं चरन्तम् उदयास्तमयाभ्यां दिवि परिवर्तमानमनया पापया निकृष्टया स्तोतुमसमर्थया बुद्ध्या असूयन् । गुणेषु दोपाविष्करणमसूया । परकीयगुणेषु दोपानाविष्कुर्वन्नभ्यचाकशम् । अयमपि कश्चिदिति सामान्यरूपेणाभ्यपश्यम् । इदानी तु पुनस्तस्यादित्यस्य माहात्म्यं जानन् तस्मा अस्पृहयम् । तमेवादित्यं स्तुतिभिः परिचरणात्मकैः कर्मभिश्च प्राप्तुमैच्छम् ।।


यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः ।

एके॑षं वि॒श्वत॒ः प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥३

यम् । कु॒मा॒र॒ । नव॑म् । रथ॑म् । अ॒च॒क्रम् । मन॑सा । अकृ॑णोः ।

एक॑ऽईषम् । वि॒श्वतः॑ । प्राञ्च॑म् । अप॑श्यन् । अधि॑ । ति॒ष्ठ॒सि॒ ॥३

यम् । कुमार । नवम् । रथम् । अचक्रम् । मनसा । अकृणोः ।

एकऽईषम् । विश्वतः । प्राञ्चम् । अपश्यन् । अधि । तिष्ठसि ॥३

नचिकेतःसंज्ञं कुमारं यमोऽनयोत्तरया च प्रलोभयति । हे “कुमार “नवम् अभिनवमितः पूर्वमदृष्टम् । अभिनवत्वमेव व्यनक्ति । “अचक्रं चक्ररहितं तम् “एकेषम् एकेषा यस्य तादृशं तथापि “विश्वतः सर्वतः “प्राञ्चं प्रकर्षेणाञ्चन्तं गच्छन्तं “यं “रथं “मनसाकृणोः मत्समीपं प्रतिगमनाय अध्य- वसायात्मकमीदृशं यं रथमकरोः कृत्वा च “अपश्यन् कर्तव्याकर्तव्यविभागमजानन् “अधि “तिष्ठसि रथमारोहसि । यद्वा । स्तोतारं कुमाराख्यमृषिमादित्यः प्रत्यक्षः सन् देहात्मनोर्विवेकं बोधयति । हे कुमार ऋषे चक्ररहितम् एकेषम् । एकः प्राण ईषास्थानीयो यस्य । ईदृशमभिनवं सर्वतो गच्छन्तं शरीरात्मकं यं रथं मनसान्तःकरणेन अकृणोः अकरोः । संकल्पात्मकेन मनसा हि कामो जायते । सत्यां हि कामनायां पुण्थपापात्मकं कर्म क्रियते । तेन च भोगप्रदानायेदं शरीरमारभ्यत इति परंपरया मनसः शरीरनिष्पादकत्वम् । तं शरीरात्मकं रथमपश्यन्नजानन् । ' लक्षणहेत्वोः ( पा. सू. ३.२.१२६) इति हेतौ शतृप्रत्ययः । मत्स्वरूपापरिज्ञानाद्धेतोरधितिष्ठसि । भोगायतनत्वेन स्वीकरोषि।।


यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ ।

तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ॥४

यम् । कु॒मा॒र॒ । प्र । अव॑र्तयः । रथ॑म् । विप्रे॑भ्यः । परि॑ ।

तम् । साम॑ । अनु॑ । प्र । अ॒व॒र्त॒त॒ । सम् । इ॒तः । ना॒वि । आऽहि॑तम् ॥४

यम् । कुमार । प्र । अवर्तयः । रथम् । विप्रेभ्यः । परि ।

तम् । साम । अनु । प्र । अवर्तत । सम् । इतः । नावि । आऽहितम् ॥४

हे “कुमार नचिकेतः “यं पूर्वोक्तमधिष्ठितं “रथं “प्रावर्तयः मत्समीपं प्रत्यगमयः “विप्रेभ्थः मेधाविभ्यः “परि उपरि भूलोके वर्तमानानां मेधाविनां बान्धवानामुपरिष्टात् । अन्तरिक्ष इत्यर्थः । ' पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । “तं रथं “साम पित्रा कृतं सान्त्वनं यमसमीपं गत्वा एवमेव त्वया वक्तव्यमिति प्रत्यागमनकारणमुपायोपदेशनम् “अनु “प्रावर्तत । “इतः अस्माल्लोकादन्वगच्छत् । कथंभूतम्। “नावि नौवत्तरणसाधनायां बुद्धौ “सम् “आहितं सम्यग्धृतम् । यद्वा । हे कुमार ऋषे यं शरीरात्मकं रथमधिष्ठितं प्रावर्तयः संसारे प्रवर्तितवानसि मेधाविनां मध्ये तं रथमनु साम । उपलक्षणमेतत् । ऋक्सामादिसाध्यं स्तोत्रं नावि नौवत्तारयित्र्यां वाचि वेदात्मिकायां समाहितं सम्यक्प्रतिपाद्यत्वेन हितं कर्म च इतः अस्माल्लोकात् प्रावर्तत प्रवृत्तमभूत् । इत्थमात्मस्वरूपापरिज्ञानेन शरीरबन्धनं तेन कर्तव्यं व्यवहारजातं चोक्तम् । अथ तु सत्यज्ञानादिस्वरूपमकर्तारं परमात्मानं यदि स्वात्मतया साक्षात्करोति तदोक्तं च संभवतीत्यभिप्रायः ।।


कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् ।

कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥५

कः । कु॒मा॒रम् । अ॒ज॒न॒य॒त् । रथ॑म् । कः । निः । अ॒व॒र्त॒य॒त् ।

कः । स्वि॒त् । तत् । अ॒द्य । नः॒ । ब्रू॒या॒त् । अ॒नु॒ऽदेयी॑ । यथा॑ । अभ॑वत् ॥५

कः । कुमारम् । अजनयत् । रथम् । कः । निः । अवर्तयत् ।

कः । स्वित् । तत् । अद्य । नः । ब्रूयात् । अनुऽदेयी । यथा । अभवत् ॥५

“कः पुरुषः इमं “कुमारमजनयत् । अधिक्षेपे किंशब्दः । ईदृशम् बालं यमसमीपं प्रहिण्वन् कथं पिता समीचीनः स्यात्। तत्तावदास्ताम् । “कः वा पुरुषोऽस्य बालस्य यमसमीपं प्रतिगमनाय तं “रथं “निरवर्तयत् निर्वर्तितवान् । सोऽपि मूर्ख इत्यर्थः । “यथा येन प्रकारेणायं कुमारः “अनुदेयी अनुदातव्यः “अभवत् भवति “तत् तदनुगुणं वचनमुपायकथनम् “अद्य अस्मिन् काले “नः अस्माकं “कः “स्वित् को नाम “ब्रूयात् अभिदध्यात् । प्रथमं यमसमीपं गत्वा पश्चात् ततो निर्गमनोपायं ब्रुवन्नपि न प्राज्ञ इत्यर्थः । अथवा । कुमाराख्य ऋषिरात्मनः सार्वात्म्यमवगच्छन् स्वव्यति- रिक्तस्यान्यस्यासंभवं किंशब्देनाक्षेपवाचिना दर्शयति । कुमारं मां कः पिताजनयत् । न कोऽपि । ' अजो नित्यः शाश्वतः ' ( क. उ. २. १८) इति श्रुत्युक्तरूपोऽहं भवामि । कश्च शरीरात्मकं रथं निरवर्तयत् निर्वर्तयति । मद्व्यतिरिक्तस्य निर्वर्तयितुरभावात् तथा निर्वर्त्यस्यान्यस्यासंभवाच्च । अद्य अस्मिन् काले सार्वात्म्यानुभवदशायां तं तं प्रकारं कः स्वित् को नाम नोऽस्माकं ब्रूयात् यथा येन प्रकारेण अनुदेयी अनुदातव्या मद्व्यतिरिक्तान्यपदार्थसत्ता अभवत् भवतिं । स प्रकारोऽपि दुर्वचन इत्यर्थः ।।


यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत ।

पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ॥६

यथा॑ । अभ॑वत् । अ॒नु॒ऽदेयी॑ । ततः॑ । अग्र॑म् । अ॒जा॒य॒त॒ ।

पु॒रस्ता॑त् । बु॒ध्नः । आऽत॑तः । प॒श्चात् । निः॒ऽअय॑नम् । कृ॒तम् ॥६

यथा । अभवत् । अनुऽदेयी । ततः । अग्रम् । अजायत ।

पुरस्तात् । बुध्नः । आऽततः । पश्चात् । निःऽअयनम् । कृतम् ॥६

“अनुदेयी अनुदातव्यः “यथा येन प्रकारेण पितरमनुलक्ष्य अयं कुमारो यमेन दत्तः “अभवत् भवति तथा “ततः तस्माद्वाजश्रवसात् पितुः “अग्रं यमसमीपं गच्छेति वचनस्याग्रतो वर्तमानं नचिकेतसा यमेन सह वदितव्यं ' तं वै प्रवसन्तं गन्तासीति होवाच ' ( तै. व्रा. ३१ १.८ .२) इत्यादिकं ब्राह्मणान्तरोक्तम् “अजायत प्रादुरभवत् । पितोपदिष्टवानित्यर्थः । “पुरस्तात् ततः पूर्वं “बुध्नः उक्तस्याग्रस्य मूलभूतं यमस्य गृहं प्रतिगच्छ इति वचनम् “आततः अतिविस्तृतमासीत् । अतः तदशक्यपरिहारमिति “पश्चात् क्रोधं परित्यज्य “निरयणं तस्माद्यमान्निर्गमनोपाय “कृतं पित्राचरितम् । यद्वा । अनुदेयी आत्मानमनु दातव्यात्मस्वरूपव्यतिरिक्तान्यपदार्थसत्ता यथाभवत् भवति तदनुगुणं ततस्तस्मान्मायाविशिष्टादात्मनोऽग्रं स्रष्टव्यस्य विकारजातस्यायं मनस्तत्त्वं सिसृक्षाकारणमजायत उदपद्यत । पुरस्तात् सृष्टेः प्रागवस्थायां बुध्नो मूलमव्याकृतं मायात्मकं कारणमेवाततः । आ समन्तात् ततं विस्तृतमासीत् । पश्चात्तमस उत्पत्त्यनन्तरं निरयणं तद्गतानां कार्याणां तस्मात् कारणान्निर्गमनं घटपटादिभेदेन स्वरूपालम्भनं कृतम्। ब्रह्मणा निर्मितम् । तथा मृद्विकारो घटादिर्मृदोऽन्यो न भवति । आदित्यानुग्रहात् ब्रह्मभावं प्राप्तस्य मम विकारः प्रपञ्चो मदन्यो न भवतीति व्यतिरिक्तस्य पित्रादेराक्षेपः पूर्वोक्तः समर्थितः ॥


इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ ।

इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥७

इ॒दम् । य॒मस्य॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒च्यते॑ ।

इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒ऽभिः । परि॑ऽकृतः ॥७

इदम् । यमस्य । सदनम् । देवऽमानम् । यत् । उच्यते ।

इयम् । अस्य । धम्यते । नाळीः । अयम् । गी:ऽभिः । परिऽकृतः ।। ७ ।।

“इदं “यमस्य नियन्तुरादित्यस्य वैवस्वतस्य वा “सदनं स्थानम् । छान्दसः सांहितिको दीर्घः। “यत् सदनं “देवमानं देवैर्निर्मितमिति “उच्यते सर्वत्र अभिधीयते । यद्वा । देवानां रश्मीनां निर्माणसाधनमिति गीयते । “अस्य यमस्य प्रीणनाय "इयं “नाळीः वाद्यविशेषो वेणुः “धम्यते वाद्यते । यद्वा । नाळीति वाङ्नाम । इयं स्तुतिरूपा वागस्य प्रीणनाय धम्यते उच्चार्यते । एवं सति “अयं यमः “गीर्भिः स्तुतिभिः “परिष्कृतः अलंकृतोऽभूत् । ‘संपर्युपेभ्यः' इति सुडागमः । ‘परिनिविभ्यः । इति षत्वम् । “ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ २३ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१३५&oldid=215852" इत्यस्माद् प्रतिप्राप्तम्