ऋग्वेदः सूक्तं १०.१५६
← सूक्तं १०.१५५ | ऋग्वेदः - मण्डल १० सूक्तं १०.१५६ केतुराग्नेयः। |
सूक्तं १०.१५७ → |
दे. अग्निः । गायत्री |
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
तेन जेष्म धनंधनम् ॥१॥
यया गा आकरामहे सेनयाग्ने तवोत्या ।
तां नो हिन्व मघत्तये ॥२॥
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् ।
अङ्धि खं वर्तया पणिम् ॥३॥
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।
दधज्ज्योतिर्जनेभ्यः ॥४॥
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
बोधा स्तोत्रे वयो दधत् ॥५॥
सायणभाष्यम्
‘ अग्निं हिन्वन्तु नः' इति पञ्चर्चं पञ्चमं सूक्तमग्निपुत्रस्य केतुनाम्न आर्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तम्- अग्नि केतुराग्नेय आग्नेयं गायत्रम्' इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदं शस्यम् । सूत्रितं च---‘अग्निं हिन्वन्तु नः प्राग्नये वाचमिति सूक्ते' (आश्व. श्रौ. ४.१३) इति ॥
अ॒ग्निं हि॑न्वंतु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ ।
तेन॑ जेष्म॒ धनं॑धनं ॥१
अ॒ग्निम् । हि॒न्व॒न्तु॒ । नः॒ । धियः॑ । सप्ति॑म् । आ॒शुम्ऽइ॑व । आ॒जिषु॑ ।
तेन॑ । जे॒ष्म॒ । धन॑म्ऽधनम् ॥१
अग्निम् । हिन्वन्तु । नः । धियः । सप्तिम् । आशुम्ऽइव । आजिषु ।
तेन । जेष्म । धनम्ऽधनम् ॥१
“नः अस्माकं “धियः कर्माणि स्तुतयो' वा “अग्निं “हिन्वन्तु प्रेरयन्तु । योगार्थमुद्योजयन्तु वर्धयन्तु वा । ‘ हि गतौ वृद्धौ च । तत्र दृष्टान्तः । आजिषु संग्रामेषु “आशुमिव यथा आशुं शीघ्रगामिनं “सप्तिं सर्पणशीलमश्वं योद्धारः प्रेरयन्ति तद्वत् । “तेन अग्निना “धनंधनं सर्वं धनं “जेष्म वयं जयेम ॥
यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या ।
तां नो॑ हिन्व म॒घत्त॑ये ॥२
यया॑ । गाः । आ॒ऽकरा॑महे । सेन॑या । अ॒ग्ने॒ । तव॑ । ऊ॒त्या ।
ताम् । नः॒ । हि॒न्व॒ । म॒घत्त॑ये ॥२
यया । गाः । आऽकरामहे । सेनया । अग्ने । तव । ऊत्या ।
ताम् । नः । हिन्व । मघत्तये ॥२
हे “अग्ने “सेनया इनेन सह वर्तमानया सेनारूपया वा “यया “तव “ऊत्या रक्षया “गाः “आकरामहे आभिमुख्येन कुर्महे । लभामह इत्यर्थः। “ताम् ऊतिं “नः अस्मान् “हिन्व गमय । किमर्थम् । “मघत्तये धनस्य दानार्थम् । अस्माकं धनलाभायेत्यर्थः ॥
आभिप्लविकेषूक्थ्येषु प्रशास्तुः शस्त्रे ‘आग्ने स्थूरम्' इति तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च-’ आ ते वत्सो मनो यमदाग्ने स्थूरं रयिं भर' (आश्व. श्रौ. ७. ८) इति ॥
आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोमं॑तम॒श्विनं॑ ।
अं॒ग्धि खं व॒र्तया॑ प॒णिं ॥३
आ । अ॒ग्ने॒ । स्थू॒रम् । र॒यिम् । भ॒र॒ । पृ॒थुम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
अ॒ङ्ग्धि । खम् । व॒र्तय॑ । प॒णिम् ॥३
आ । अग्ने । स्थूरम् । रयिम् । भर । पृथुम् । गोऽमन्तम् । अश्विनम् ।
अङ्ग्धि । खम् । वर्तय । पणिम् ॥३
हे “अग्ने “स्थूरं स्थूलं वृद्धं “पृथुं विस्तीर्णं “गोमन्तं गोभिर्युक्तम् “अश्विनम् अश्वैश्चोपेतं “रयिं धनम् “आ “भर अस्मभ्यमाहर । प्रयच्छ । “खम् अन्तरिक्षम् “अङ्धि वृष्ट्युदकैः सिञ्च । यद्वा । आत्मीयैस्तेजोभिर्व्यञ्जय प्रकाशय । “पणिं वणिजमदातारमसुरं वा “वर्तय इतो निर्गमय । यद्वा । दाने प्रवर्तय ॥
अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि ।
दध॒ज्ज्योति॒र्जने॑भ्यः ॥४
अग्ने॑ । नक्ष॑त्रम् । अ॒जर॑म् । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
दध॑त् । ज्योतिः॑ । जने॑भ्यः ॥४
अग्ने । नक्षत्रम् । अजरम् । आ । सूर्यम् । रोहयः । दिवि ।
दधत् । ज्योतिः । जनेभ्यः ॥४
हे “अग्ने “नक्षत्रम् ॥ नक्षति सततं गच्छतीति नक्षत्रः। ‘ नक्षि गतौ'। ‘ अमिनक्षि°' इत्यादिनात्रन्प्रत्ययः ॥ सततं गन्तारम् “अजरं जरारहितं “सूर्यं सर्वस्य प्रेरकमादित्यं “दिवि अन्तरिक्षे “आ “रोहयः उपर्यवस्थापितवानसि । यद्वा । नक्षत्रं कृत्तिकादिकं सूर्यं च दिव्यारोहयः । किं कुर्वन् । “जनेभ्यः सर्वेभ्यः प्राणिभ्यो व्यवहारार्थं “ज्योतिः प्रकाशं “दधत् विदधत् कुर्वन् । यथा सर्वेषां प्रकाशो भवति तथोन्नते देशे सूर्यमगमय इत्यर्थः ॥
अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् ।
बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ॥५
अग्ने॑ । के॒तुः । वि॒शाम् । अ॒सि॒ । प्रेष्ठः॑ । श्रेष्ठः॑ । उ॒प॒स्थ॒ऽसत् ।
बोध॑ । स्तो॒त्रे । वयः॑ । दध॑त् ॥५
अग्ने । केतुः । विशाम् । असि । प्रेष्ठः । श्रेष्ठः । उपस्थऽसत् ।
बोध । स्तोत्रे । वयः । दधत् ॥५
हे “अग्ने “विशां प्रजानां यजमानानां “केतुः केतयिता “असि ज्ञापयिता भवसि। अत एव “प्रेष्ठः प्रियतमः “श्रेष्ठः प्रशस्यतमश्च भवसि । स त्वम् “उपस्थसत् उपस्थाने यज्ञगृहे निषीदन् “बोध अस्मदीयं स्तोत्रमवगच्छ । किं कुर्वन् । “स्तोत्रे स्तुवते जनाय “वयः अन्नं “दधत् विदधत् कुर्वन् प्रयच्छन् ॥ ॥१४॥
टिप्पणी
अयं वा अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिः - माश ८.२.१.४
केतु उपरि संदर्भाः एवं टिप्पणी
अग्निं हिन्वन्तु इति तृच् यद्यपि सामवेदे १५२७ प्रकटयति, किन्तु विनियोगाः विरलाः सन्ति।
मण्डल १० | ||||
---|---|---|---|---|