ऋग्वेदः सूक्तं १०.११७

(ऋग्वेद: सूक्तं १०.११७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.११६ ऋग्वेदः - मण्डल १०
सूक्तं १०.११७
भिक्षुराङ्गिरसः।
सूक्तं १०.११८ →
दे. धनान्नदानं। त्रिष्टुप्, १-९ जगती।


न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।
उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥१॥
य आध्राय चकमानाय पित्वोऽन्नवान्सन्रफितायोपजग्मुषे ।
स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥२॥
स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय ।
अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥३॥
न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः ।
अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥४॥
पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् ।
ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥५॥
मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।
नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥६॥
कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः ।
वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥७॥
एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।
चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥८॥
समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते ।
यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः ॥९॥


सायणभाष्यम्

न वा ' इति नवर्चं पञ्चमं सूक्तम् । भिक्षुर्नामाङ्गिरस ऋषिः । प्रथमाद्वितीये जगत्यौ शिष्टाः सप्त त्रिष्टुभः । अत्र धनस्यान्नस्य च दानं स्तूयते । अतस्तद्दैवत्यमिदम् । तथा चानुक्रान्तं -- न वा उ भिक्षुर्धनान्नदानप्रशंसाद्ये जगत्यौ ' इति । गतो विनियोगः ॥


न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ ।

उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि॑न्दते ॥ १

न । वै । ऊं॒ इति॑ । दे॒वाः । क्षुध॑म् । इत् । व॒धम् । द॒दुः॒ । उ॒त । आशि॑तम् । उप॑ । ग॒च्छ॒न्ति॒ । मृ॒त्यवः॑ ।

उ॒तो इति॑ । र॒यिः । पृ॒ण॒तः । न । उप॑ । द॒स्य॒ति॒ । उ॒त । अपृ॑णन् । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥१

न । वै । ऊं इति । देवाः । क्षुधम् । इत् । वधम् । ददुः । उत । आशितम् । उप । गच्छन्ति । मृत्यवः ।

उतो इति । रयिः । पृणतः । न । उप । दस्यति । उत । अपृणन् । मर्डितारम् । न । विन्दते ॥१

भिक्षुः प्रथमं व्यतिरेकमुखेनान्नदानं प्रशंसति । “देवाः “वै देवाः खलु सर्वेषां “क्षुधं “न “ददुः न प्रायच्छन् । किंतु “वधम् “इत् वधमेव दत्तवन्तः । एतादृशीं वधरूपां क्षुधमन्नदानेन यः शमयति स दाता खलु। उ इति पूरणः । योऽदत्त्वा भुङ्क्ते तम् “आशितं भुञ्जानं पुरुषमपि “मृत्यवः मरणानि “उप “गच्छन्ति समीपे यान्ति ॥ ‘ आशितः कर्ता ' (पा. सू. ६. १. २०७ ) इत्याद्युदात्तत्वम् ॥ क्षुधार्त्तानां भोक्तॄणां च मरणं समानम् । किं दानेन धननाशरूपेण । अत आह । “उतो । उतशब्दोऽप्यर्थे। “पृणतः प्रयच्छतः पुरुषस्य “रयिः धनं “नोप “दस्यति नोपक्षीयते । ‘ दसु उपक्षये । दैवादिकः । ‘ पृण दाने'। तौदादिकः । तस्य शत्रन्तस्य ‘ शतुरनुमो नद्यजादी इति विभक्तेराद्युदात्तत्वम् ॥ दानप्रसङ्गेनादातारं दूषयति । “अपृणन् अप्रयच्छन् पुरुषस्तु “मर्डितारम् आत्मनः सुखयितारं “न “विन्दते । न कुत्रापि लभते । इह बन्धवोऽप्रदानान्न सुखयन्ति देवा अपि हविष्प्रदानाभावात् ॥


य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ ।

स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि॑न्दते ॥ २

यः । आ॒ध्राय॑ । च॒क॒मा॒नाय॑ । पि॒त्वः । अन्न॑ऽवान् । सन् । र॒फि॒ताय॑ । उ॒प॒ऽज॒ग्मुषे॑ ।

स्थि॒रम् । मनः॑ । कृ॒णु॒ते । सेव॑ते । पु॒रा । उ॒तो इति॑ । चि॒त् । सः । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥२

यः । आध्राय । चकमानाय । पित्वः । अन्नऽवान् । सन् । रफिताय । उपऽजग्मुषे ।

स्थिरम् । मनः । कृणुते । सेवते । पुरा । उतो इति । चित् । सः । मर्डितारम् । न । विन्दते ॥२

“यः पुरुषः स्वयम् “अन्नवान् “सन् अपि “आध्राय । अधार्यतेऽसावित्याध्रो दुर्बलः । तस्मै “पित्वः पितूनन्नानि “चकमानाय कामयमानाय । चकमानः कान्तिकर्मा । “रफिताय । रफतिर्हिंसार्थः । दारिद्र्येण हिंसिताय “उपजग्मुषे गृहं प्रत्यागताय अतिथये “मनः आत्मीयमन्तःकरणम् अदाने “स्थिरं “कृणुते कुरुते । मनःस्थैर्थकरणेन तं क्लेशयतीत्यर्थः ॥ कृणुते । कृवि हिंसाकरणयोः'। धिन्विकृण्व्योरच्च' इत्युप्रत्ययः । करोतेर्वा व्यत्ययेन श्नुः । ‘ विकरणस्वरः सतिशिष्टोऽपि लसार्वधातुकस्वरं न बाधते ' (पा. म. ६. १. १५८, ११ ) इति लसार्वधातुकस्वरः । न केवलं क्लेशकरणम् अपि तु “पुरा तस्य पुरस्तादेव “सेवते भोगान् । “सः अपि “मर्डितारम् आत्मनः सुखयितारं “न “विन्दते । न कुत्रापि लभते ॥


स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ ।

अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥ ३

सः । इत् । भो॒जः । यः । गृ॒हवे॑ । ददा॑ति । अन्न॑ऽकामाय । चर॑ते । कृ॒शाय॑ ।

अर॑म् । अ॒स्मै॒ । भ॒व॒ति॒ । याम॑ऽहूतौ । उ॒त । अ॒प॒रीषु॑ । कृ॒णु॒ते॒ । सखा॑यम् ॥३

सः । इत् । भोजः । यः । गृहवे । ददाति । अन्नऽकामाय । चरते । कृशाय ।

अरम् । अस्मै । भवति । यामऽहूतौ । उत । अपरीषु । कृणुते । सखायम् ॥३

अन्वयमुखेन प्रशंसति । “स “इत् स एव “भोजः दाता खलु “यो “गृहवे ॥ ग्रहेर्मृगय्वादित्वात् कुप्रत्ययः ( उ. सू. १. ३८)॥ प्रतिग्रहीत्रे “अन्नकामाय अन्नं याचमानाय “चरते गृहमागतवते “कृशाय दारिद्र्येण एतादृशायातिथयेऽन्नं “ददाति प्रयच्छति ॥ ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ "यामहूतौ । यामा गन्तारो देवाः ॥ अत्र थातेः “ अर्तिस्तुसुहुसृ' ( उ. सू. १. १३९) इत्यादिना मन्प्रत्ययः ॥ त आहूयन्तेऽत्रेति यामहूतिर्यज्ञः । तस्मिन् “अस्मै दात्रे फलम् “अरम् अलं पर्याप्तं “भवति । कामप्रदानं भवतीत्यर्थः । “उत अपि च "अपरीषु ॥ ‘ केवलमामक° (पा. सू. ४.१.३०) इति ङीप् ॥ अन्यासु शात्रवीषु सेनासु “सखायं “कृणुते । तद्वदाचरतीत्यर्थः। तस्य सर्वे सखाय एव न शत्रव इत्यर्थः ॥


न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः ।

अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ॥ ४

न । सः । सखा॑ । यः । न । ददा॑ति । सख्ये॑ । स॒चा॒ऽभुवे॑ । सच॑मानाय । पि॒त्वः ।

अप॑ । अ॒स्मा॒त् । प्र । इ॒या॒त् । न । तत् । ओकः॑ । अ॒स्ति॒ । पृ॒णन्त॑म् । अ॒न्यम् । अर॑णम् । चि॒त् । इ॒च्छे॒त् ॥४

न । सः । सखा । यः । न । ददाति । सख्ये । सचाऽभुवे । सचमानाय । पित्वः ।

अप । अस्मात् । प्र । इयात् । न । तत् । ओकः । अस्ति । पृणन्तम् । अन्यम् । अरणम् । चित् । इच्छेत् ॥४

व्यतिरेकेण निन्दामाह । “सः पुरुषः “सखा “न भवति “यः पुरुषः “सचाभुवे सर्वदा सहभवनशीलाय “सचमानाय सेवमानायोपसर्जनीभूताय “सख्ये सखिजनाय “पित्वः पितूनन्नानि “न “ददाति न प्रयच्छति । स सुहृन्न भवतीत्यर्थः । “अस्मात् अदातुः सख्युः सः “अप “प्रेयात् अपगच्छेत् । यद्येनं परित्यज्य गच्छेत् ॥ ‘ इण् गतौ । लिङि यासुट् ॥ तर्हि “तदोकः निवासः सदनं “न “अस्ति न भवति । सदनं हि बन्धुभिः परिवृतम् । स गतः पुरुषः “पृणन्तम् अन्नादिकं प्रयच्छन्तम् “अन्यमरणं “चित् अर्यं स्वामिनमेव “इच्छेत् कामयेत ॥


पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी॑यांस॒मनु॑ पश्येत॒ पन्था॑म् ।

ओ हि वर्त॑न्ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ॥ ५

पृ॒णी॒यात् । इत् । नाध॑मानाय । तव्या॑न् । द्राघी॑यांसम् । अनु॑ । प॒श्ये॒त॒ । पन्था॑म् ।

ओ इति॑ । हि । वर्त॑न्ते । रथ्या॑ऽइव । च॒क्रा । अ॒न्यम्ऽअ॑न्यम् । उप॑ । ति॒ष्ठ॒न्त॒ । रायः॑ ॥५

पृणीयात् । इत् । नाधमानाय । तव्यान् । द्राघीयांसम् । अनु । पश्येत । पन्थाम् ।

ओ इति । हि । वर्तन्ते । रथ्याऽइव । चक्रा । अन्यम्ऽअन्यम् । उप । तिष्ठन्त । रायः ॥५

धनवन्तं पुरुषं दाने प्रेरयति । “तव्यान् तवीयान् धनैरतिशयेन प्रवृद्धः पुरुषः “नाधमानाय याचमानायातिथये “पृणीयादित् धनानि दद्यादेव ॥ ‘ पॄ पालनपूरणयोः ' । क्र्यादिः । प्वादीनां ह्रस्वः ॥ यदि दद्यात् "द्राघीयांसम् । दीर्घशब्दादीयसुनि ' प्रियस्थिर ' इत्यादिना द्राघीत्यादेशः॥ दीर्घतमं “पन्थां पन्थानं सुकृतमार्गम् “अनु “पश्येत अनुपश्येत् । व्यत्ययेनात्मनेपदम्। तत्र कारणमाह। “रायः धनानि “ओ “हि। आ उ। आ “वर्तन्ते एव खलु। एकत्र न तिष्ठन्तीत्यर्थः । तत्र दृष्टान्तः । “रथ्येव यथा रथ्यानि ॥ ‘ रथाद्यत् ' ( पा. सू. ४. ३. १२१ ) इति तस्येदम्' इत्यर्थे यत् ॥ रथसंबन्धीनि “चक्रा चक्राण्युपर्यधोभावेनावर्तन्ते तद्वदावृत्तिमेव दर्शयति । “अन्यमन्यं पुरुषं धनानि “उप “तिष्ठन्त उपतिष्ठन्ते । समवेतानि भवन्ति । उपाद्देवपूजासंगतिकरण ' (का. १. ३. २५. १) इत्यात्मनेपदम् ॥ तस्माद्धनानि देयानीति भावः ॥ ॥ २२ ॥


मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ ।

नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥ ६

मोघ॑म् । अन्न॑म् । वि॒न्द॒ते॒ । अप्र॑ऽचेताः । स॒त्यम् । ब्र॒वी॒मि॒ । व॒धः । इत् । सः । तस्य॑ ।

न । अ॒र्य॒मण॑म् । पुष्य॑ति । नो इति॑ । सखा॑यम् । केव॑लऽअघः । भ॒व॒ति॒ । के॒व॒ल॒ऽआ॒दी ॥६

मोघम् । अन्नम् । विन्दते । अप्रऽचेताः । सत्यम् । ब्रवीमि । वधः । इत् । सः । तस्य ।

न । अर्यमणम् । पुष्यति । नो इति । सखायम् । केवलऽअघः । भवति । केवलऽआदी ॥६

अदातारं दूषयति । “अप्रचेताः अप्रकृष्टज्ञानः दाने चेतो मनो यस्य न भवति “सः “मोघं व्यर्थमेव “अन्नं “विन्दते लभते ॥ ‘ विद्लृ लाभे' । तौदादिकः । ‘शे मुचादीनाम्' इति नुमागमः ॥ इदं “सत्यं यथार्थमेवेति “ब्रवीमि । ऋषिरहं वदामि । न केवलं व्यर्थं किंतु “तस्य पुरुषस्य “सः “वध “इत् वध एवान्नं परामृशतः ॥ तच्छब्दस्य वधसामानाधिकरण्यात् पुँल्लिङ्गता । यथा “ णेरणौ° ( पा. सू. १. ३. ६७ ) इत्यत्र यत् कर्म स एव कर्तेति ॥ अथवा स निरर्थको वध एव यः पुरुषः “अर्यमणम् । उपलक्षणमिदम् । सर्वान् देवानर्यमादीन् “न “पुष्यति हविष्प्रदानेन न पोषयति “नो नापि “सखायं समानख्यानमभ्यागतमतिथिं मित्रवर्गं च न पोषयति ॥ ‘ पुष पुष्टौ ' । दैवादिकः । यच्छब्दाध्याहारादनिघातः ॥ अत एव “केवलादी ।। अदेः सुप्यजातौ' (पा. सू. ३. २. ७८) इति णिनिः । अत उपधालक्षणा वृद्धिः ।। केवलमसाक्षिकमन्नं भुञ्जानः सः “केवलाघो “भवति । केवलपापवान् भवति । अघमेव केवलं तस्य शिष्यते । नैहिकं नामुष्मिकमिति । तस्माद्यथाकथंचिद्दातव्यमित्यभिप्रायः ।।


कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृङ्क्ते च॒रित्रैः॑ ।

वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या॑त् ॥ ७

कृ॒षन् । इत् । फालः॑ । आशि॑तम् । कृ॒णो॒ति॒ । यन् । अध्वा॑नम् । अप॑ । वृ॒ङ्क्ते॒ । च॒रित्रैः॑ ।

वद॑न् । ब्र॒ह्मा । अव॑दतः । वनी॑यान् । पृ॒णन् । आ॒पिः । अपृ॑णन्तम् । अ॒भि । स्या॒त् ॥७

कृषन् । इत् । फालः । आशितम् । कृणोति । यन् । अध्वानम् । अप । वृङ्क्ते । चरित्रैः ।

वदन् । ब्रह्मा । अवदतः । वनीयान् । पृणन् । आपिः । अपृणन्तम् । अभि । स्यात् ॥७

“कृषन् कृर्षि कुर्वन् “फालः “आशितं कर्षकं भोक्तारं “कृणोति करोति । तथा “अध्वानं मार्गं “यन् ।। इणः शतरि नुमागमः । गच्छन् पुरुषः “चरित्रैः आत्मीयैर्गमनैः “अप “वृङ्क्ते । स्वामिनो धनमावर्जयति ।। वृजी वर्जने' । आदादिकः । अनुदात्तेत् ॥ “वदन् शास्त्रार्थं ब्रुवाणः “ब्रह्मा ब्राह्मणः “अवदतः शास्त्रार्थमब्रुवाणाज्जनात् "वनीयान् संभक्तृतमः प्रियकरो भवति ।। वनतेस्तृजन्तस्येयसुनि “ तुरिष्ठेमेयःसु ' इति तृचो लोपः । ते यथा स्वकर्मणि प्रवर्तमानाः परेषामुपकारकाः तथा “पृणन् दाता पुरुषः “अपृणन्तम् अदातारं जनम् “अभि अभिलक्ष्य “आपिः “स्यात् बन्धुर्भवेत् ॥


एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् ।

चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे स॒म्पश्य॑न्प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ॥ ८

एक॑ऽपात् । भूयः॑ । द्वि॒ऽपदः॑ । वि । च॒क्र॒मे॒ । द्वि॒ऽपात् । त्रि॒ऽपाद॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।

चतुः॑ऽपात् । ए॒ति॒ । द्वि॒ऽपदा॑म् । अ॒भि॒ऽस्व॒रे । स॒म्ऽपश्य॑न् । प॒ङ्क्तीः । उ॒प॒ऽतिष्ठ॑मानः ॥८

एकऽपात् । भूयः । द्विऽपदः । वि । चक्रमे । द्विऽपात् । त्रिऽपादम् । अभि । एति । पश्चात् ।

चतुःऽपात् । एति । द्विऽपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । पङ्क्तीः । उपऽतिष्ठमानः ॥८

अत्र पादशब्दो भागवचनः । “एकपात् एकभागधनः पुरुषः “द्विपदः द्विगुणधनस्य मार्गं “भूयः । तृतीयायाः सुः । भूयसा कालेन “वि “चक्रमे विविधं गच्छति ।। वेः पादविहरणे' (पा. सू. १. ३. ४१ ) इत्यात्मनेपदम् ।। तथा “द्विपात् पुरुषः “त्रिपादं त्रिभागधनं पुरुषं “पश्चात् “अभ्येति अभिगच्छति । “चतुष्पात् चतुर्भागधनस्तु “द्विपदाम् । बहुवचनादेकपादादय उपलक्ष्यन्ते । एकपादधनादीनां “पङ्क्तीः “अभिस्वरे अभिगमने “संपश्यन् सम्यगीक्षमाणः सन् “उपतिष्ठमानः “एति गच्छमानो भवति । अन्योन्यापेक्षया सर्वं उत्तमाधमाः । तस्मात्त्वम् अहमेव धनवानिति न मन्येः किंत्वतिथिभ्यो धनानि ददस्वेत्यर्थः ।।


स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते ।

य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ॥ ९

स॒मौ । चि॒त् । हस्तौ॑ । न । स॒मम् । वि॒वि॒ष्टः॒ । स॒म्ऽमा॒तरा॑ । चि॒त् । न । स॒मम् । दु॒हा॒ते॒ इति॑ ।

य॒मयोः॑ । चि॒त् । न । स॒मा । वी॒र्या॑णि । ज्ञा॒ती इति॑ । चि॒त् । सन्तौ॑ । न । स॒मम् । पृ॒णी॒तः॒ ॥९

समौ । चित् । हस्तौ । न । समम् । विविष्टः । सम्ऽमातरा । चित् । न । समम् । दुहाते इति ।

यमयोः । चित् । न । समा । वीर्याणि । ज्ञाती इति । चित् । सन्तौ । न । समम् । पृणीतः ॥९

अतिथिभ्यो धनमप्रयच्छन्नपि मम भ्राता दास्यतीति चेत् तत्र हेतुमाह। “समौ “चिद्धस्तौ समावपि “समं समानं “न “विविष्टः कार्यं न व्याप्नुतः ।। ‘ विष्लृ व्याप्तौ ' । जौहोत्यादिकः । संज्ञापूर्वकस्य विधेरनित्यत्वादभ्यासस्य गुणाभावः ।। तथा “संमातरा वत्सस्य मातरौ धेनू समे अपि “समं समानं पयः “न “दुहाते । 'यमयोश्चित् सहजातयोः पुत्रयोरपि “समा समानि “वीयाँणि ”न सन्ति । तस्मात् “ज्ञाती “चित् एकस्मिन् कुले “सन्तौ जातावपि “समं “न “पृणीतः न प्रयच्छतः। तस्माद्यस्य धनमस्ति स एव दद्यादित्यर्थः ।।।। २३ ।।


भाष्यम्

न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः.
उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते.. (१)
देवों ने सभी प्राणियों को क्षुधा के रूप में मृत्यु ही प्रदान की है. भोजन करने पर भी तो प्राणियों की मृत्यु होती है. देने वाले का धन समाप्त नहीं होता. दान न करने वाले को कोई भी सुखी नहीं बना सकता है. (१)

य आध्राय चकमानाय पित्वोऽन्नवान्त्सन्रफितायोपजग्मुषे.
स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विदन्ते.. (२)
जो अन्न वाला व्यक्ति भूखे भीख मांगने वाले को सामने पाकर भी अपने मन को कठोर रखता है एवं उसके सामने भोजन करता है, उसे कोई भी सुख पहुंचाने वाला नहीं मिल सकता. (२)

स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय.
अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम्.. (३)
जो दुर्बल व्यक्ति अन्न की अभिलाषा से घूमता है, उसे अन्न देने वाला ही दाता है. उसी को यज्ञ का पर्याप्त फल मिलता है तथा वह शत्रुओं में भी मित्र खोज लेता है. (३)

न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्व:.
अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत्.. (४)
जो व्यक्ति सदा साथ रहने वाले एवं सेवा करने वाले मित्र को भी अन्न नहीं देता, वह व्यक्ति मित्र नहीं है. ऐसे व्यक्ति के पास से दूर चला जाना ही उत्तम है. उसका घर घर नहीं है, उसी समय अन्य धनी दाता के यहां चले जाना चाहिए. (४)

पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम्.
ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः.. (५)
याचना करने वाले के लिए धनी को धन अवश्य देना चाहिए. वह धर्मरूपी लंबा मार्ग प्राप्त करता है. जिस प्रकार रथ का पहिया ऊपर-नीचे होता रहता है, उसी प्रकार धन भी एक व्यक्ति के पास से दूसरे के पास जाता है. (५)

मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य.
नायमणं पुष्यति नो सखायं केवलाघो भवति केवलादी.. (६)
मन में दान की भावना न रखने वाला व्यक्ति व्यर्थ ही अन्न प्राप्त करता है. ऐसे व्यक्ति का भोजन उसकी मृत्यु के समान है. जो न देवताओं को पुष्ट बनाता है और न सखा को खिलाता है, ऐसा स्वयं भोजन करने वाला व्यक्ति केवल पापी होता है. (६)

कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः.
वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात्.. (७)
हल खेती का काम करता हुआ अन्न उत्पन्न करता है. वह मार्गों पर चलता हुआ अपने कार्यों से अन्न उत्पन्न करता है. जिस प्रकार मंत्र बोलने वाला मंत्र न बोलने वाले से श्रेष्ठ है, उसी प्रकार दान देने वाला दान न देने वाले से उत्तम है. (७)

एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्.
चतुष्पादेति द्विपदामभिस्वरे संपश्यन्पङ्क्तीरुपतिष्ठमानः.. (८)
संपत्ति का एक भाग रखने वाला संपत्ति के दो भागों के स्वामी के पास मांगने जाता है. इसके बाद दो भाग संपत्ति रखने वाला तीन भाग संपत्ति रखने वाले के पास जाता है. चार भाग संपत्ति रखने वाला अपने से दूने के पास जाता है. इसी प्रकार पंक्तिबद्धरूप में छोटा बड़े के पास मांगने जाता है. (८)

समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते.
यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः.. (९)
हमारे समान रूप वाले दोनों हाथों की धारण शक्ति समान नहीं है. एक ही माता से उत्पन्न गाएं बराबर दूध नहीं देती. जुड़वां भाइयों का पराक्रम एक जैसा नहीं होता. एक परिवार में जन्म लेने वाले दो व्यक्ति बराबर दान नहीं करते. (९)

टिप्पणी

भिक्षा/भिक्षु उपरि पौराणिकसंदर्भाः

भिक्षा उपरि वैदिकसंदर्भाः

किं वेदे भिक्षुः भिषक्तुल्यः अस्ति, अयं अन्वेषणीयः।


१०.११७.१ न वा उ देवा क्षुधमित् इति

क्षुधोपरि पौराणिकसंदर्भाः

क्षुधोपरि वैदिकसंदर्भाः

रयिरुपरि टिप्पणी


१०.११७.६ मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः इति--

ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु । याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।। बृहद्देवता १.४९ ।।


१०.११७.८ एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे इति--

भिक्षा उपरि वैदिकसंदर्भाः

पादोपरि पौराणिकसंदर्भाः

पादोपरि टिप्पणी

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११७&oldid=219288" इत्यस्माद् प्रतिप्राप्तम्