ऋग्वेदः सूक्तं १०.११२
← सूक्तं १०.१११ | ऋग्वेदः - मण्डल १० सूक्तं १०.११२ वैरूपो नभ-प्रभेदनः |
सूक्तं १०.११३ → |
दे. इन्द्रः। त्रिष्टुप् |
इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः ।
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥१॥
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि ।
तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥२॥
हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व ।
अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥३॥
यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् ।
तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥४॥
यस्य शश्वत्पपिवाँ इन्द्र शत्रूननानुकृत्या रण्या चकर्थ ।
स ते पुरंधिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः ॥५॥
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो ।
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥६॥
वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते ।
अस्माकं ते मधुमत्तमानीमा भुवन्सवना तेषु हर्य ॥७॥
प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि ।
सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् ॥८॥
नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।
न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥९॥
अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम् ।
रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥१०॥
सायणभाष्यम्
इन्द्र पिब' इति दशर्चं त्रयोदशं सूक्तं त्रैष्टुभमैन्द्रम् । नभःप्रभेदनो नाम विरूपगोत्र ऋषिः ।। तथा चानुक्रम्यते - इन्द्र पिब नभःप्रभेदनः ' इति । गतो विनियोगः ॥
इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।
हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥१
इन्द्र॑ । पिब॑ । प्र॒ति॒ऽका॒मम् । सु॒तस्य॑ । प्रा॒तः॒ऽसा॒वः । तव॑ । हि । पू॒र्वऽपी॑तिः ।
हर्ष॑स्व । हन्त॑वे । शू॒र॒ । शत्रू॑न् । उ॒क्थेभिः॑ । ते॒ । वी॒र्या॑ । प्र । ब्र॒वा॒म॒ ॥१
इन्द्र । पिब । प्रतिऽकामम् । सुतस्य । प्रातःऽसावः । तव । हि । पूर्वऽपीतिः ।
हर्षस्व । हन्तवे । शूर । शत्रून् । उक्थेभिः । ते । वीर्या । प्र । ब्रवाम ॥१
हे “इन्द्र त्वं “प्रतिकामं ये ये कामास्तांस्तान्प्रति । अव्ययीभावसमासः । तस्य स्वरः । यथेच्छं “सुतस्य अभिषुतस्य यो भागस्तुभ्यं दातव्यस्तं “पिब ॥ आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ॥ “प्रातःसावः प्रातःसवनेऽभिषूयमाणः सोमः “तव “हि । तृतीयार्थे षष्ठी। त्वयैव “पूर्वपीतिः प्रथमत एव पातव्यः । यद्वा । प्रातःसावः । सप्तम्याः सुः । प्रातःसवने तवैव प्रथमपानं खलु । ऐन्द्रवायवग्रहे ह्यादित एवेन्द्रः पिबति ॥ तत्पुरुषे दासीभारादित्वात्पूर्वपदान्तोदात्तत्वम् । यद्वा बहुव्रीहिः ॥ ततो हे “शूर समर्थ त्वं “शत्रून् “हन्तवे हन्तुं “हर्षस्व हृष्टो भव । अथ “ते त्वदीयानि “वीर्या वृत्रहननादिलक्षणानि वीर्याणि “उक्थेभिः उक्थैः शस्त्रैः “प्र “ब्रवाम प्रकर्षेण वदाम ॥
यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि ।
तूय॒मा ते॒ हर॑य॒ः प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥२
यः । ते॒ । रथः॑ । मन॑सः । जवी॑यान् । आ । इ॒न्द्र॒ । तेन॑ । सो॒म॒ऽपेया॑य । या॒हि॒ ।
तूय॑म् । आ । ते॒ । हर॑यः । प्र । द्र॒व॒न्तु॒ । येभिः॑ । यासि॑ । वृष॑ऽभिः । मन्द॑मानः ॥२
यः । ते । रथः । मनसः । जवीयान् । आ । इन्द्र । तेन । सोमऽपेयाय । याहि ।
तूयम् । आ । ते । हरयः । प्र । द्रवन्तु । येभिः । यासि । वृषऽभिः । मन्दमानः ॥२
हे “इन्द्र "मनसः अपि “जवीयान् अतिशयेन गन्ता “ते त्वदीयः “यः “रथः अस्ति “तेन रथेन “सोमपेयाय अस्मदीयं सोमं पातुम् “आ “याहि आगच्छ ॥ ‘पा पाने'। भावेऽचो यत् । ‘ ईंद्यति' इतीत्वम् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ तथा “ते त्वदीयाः “हरयः रथे संयुक्ता अश्वाः “तूयं क्षिप्रम् “आ आभिमुख्येन “प्र “द्रवन्तु प्रगच्छन्तु । “वृषभिः सेक्तृभिः “येभिः यैरश्वैः “मन्दमानः मोदमानः सन् “यासि गच्छसि। ‘ हरी इन्द्रस्य ' (नि. १. १५. १) इति वचनादिन्द्रस्य द्वावेवाश्वाविति न चोदनीयम् ' आ त्वा सहस्रमा शतम्' ( ऋ. सं. ८. १. २४ ) इत्यादिनिगमान्तरे दर्शनात् ॥
हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।
अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥३
हरि॑त्वता । वर्च॑सा । सूर्य॑स्य । श्रेष्ठैः॑ । रू॒पैः । त॒न्व॑म् । स्प॒र्श॒य॒स्व॒ ।
अ॒स्माभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒ऽसद्य॑ ॥३
हरित्वता । वर्चसा । सूर्यस्य । श्रेष्ठैः । रूपैः । तन्वम् । स्पर्शयस्व ।
अस्माभिः । इन्द्र । सखिऽभिः । हुवानः । सध्रीचीनः । मादयस्व । निऽसद्य ॥३
हे “इन्द्र “हरित्वता ॥ हरिच्छब्दान्मतुपः ‘झयः' (पा. सू. ८.२.१०) इति वत्वम्॥ हरिद्वर्णयुक्तेन “सूर्यस्य “वर्चसा तेजसा तत्सदृशैः “श्रेष्ठैः प्रशस्यतमैरात्मीयैः “रूपैः “तन्वम् आत्मीयं शरीरं मदीयं वा । यद्वा । तायत इति तनूर्यज्ञः । तं “स्पर्शयस्व । तेजोयुक्तं कुरु । किंच “सध्रीचीनः । ‘ विभाषाञ्चेरदिक्स्त्रियाम्' इति खप्रत्ययः ॥ मरुद्भिः सहाञ्चनस्त्वं “सखिभिः सखिभूतैः “अस्माभिः “हुवानः आहूयमानः सन् “निषद्य यज्ञे निषण्णो भूत्वा “मादयस्व । सोमपानेन हृष्टो भव ॥
यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् ।
तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥४
यस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् ।
तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥४
यस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् ।
तत् । ओकः । आ । हरिऽभिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्रियम् । अन्नम् । अच्छ ॥४
हे “इन्द्र “इमे "मही महत्यौ “रोदसी द्यावापृथिव्यौ “यस्य “ते तव सोमपानेन जनितेषु “मदेषु संभूतं “त्यत् तं “महिमानं “न “अविविक्तां न पृथकुरुतः किंतु यस्य महिम्न्येव तिष्ठतः ।। ‘ विचिर् पृथग्भावे' । जौहोत्यादिकः । लङि ‘ संज्ञापूर्वको विधिरनित्यः' इत्यभ्यासस्य गुणाभावः । यद्योगादनिघातः ॥ “प्रियेभिः प्रियतमैः रथे “युक्तैः “हरिभिः अश्वैः “प्रियं प्रीणनकरम् “अन्नं सोमलक्षणम् "अच्छ अभिलक्ष्य “तदोकः अस्मदीयं यज्ञसदनम् “आ “याहि आगच्छ ॥
यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोम॑ः ॥५
यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ ।
सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥५
यस्य । शश्वत् । पपिऽवान् । इन्द्र । शत्रून् । अननुऽकृत्या । रण्या । चकर्थ ।
सः । ते । पुरम्ऽधिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः ॥५
हे “इन्द्र “पपिवान् ॥ पिबतेः क्वसौ ‘वस्वेकाजाद्धसाम्' इतीडागमः ॥ सोमं पीतवांस्त्वम् “अनानुकृत्या अनुकरणरहितेन सकृत्प्रहारेण शत्रुहननसमर्थेन “रण्या सांयुगीनेनायुधेन। रणशब्दात् साध्वर्थे प्राग्घितीयो यत् ॥ “यस्य यजमानस्य “शत्रून् “शश्वत् बहुवारं “चकर्थ हतवानसि ॥ ‘ कृञ् हिंसायाम् । लिटि थलि यद्योगादनिघाते लित्स्वरः ॥ “सः यष्टा “ते त्वदर्थं “तविषीं महतीं “पुरंधिं बह्वीं स्तुतिम् “इयर्ति प्रेरयति ॥ ‘ऋ गतौ ' । जौहोत्यादिकः । ‘अर्तिपिपर्त्योः' इत्यभ्यासस्येत्वम्। 'अभ्यासस्यासवर्णे' इतीयङ् ॥ हे “इन्द्र “सुतः अभिषुतः “सः “सोमः “ते “मदाय समर्थो भवति । यद्वा । स यष्टा सुतः सोमः । सुब्व्यत्ययः । अभिषुतं सोमं त्वन्मदाय प्रेरयति ॥ ॥ १२ ॥
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।
पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥६
इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥६
इदम् । ते । पात्रम् । सनऽवित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इति शतऽक्रतो ।
पूर्णः । आऽहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभिऽहर्यन्ति । देवाः ॥६
हे “इन्द्र “ते त्वदर्थं “पात्रं चमसादिकं “सनवित्तम् । अस्माभिश्चिरादेव लब्धम्। ‘ विद्लृ लाभे ' । कर्मणि निष्ठा । हे “शतक्रतो बहुकर्मन्निन्द्र “एना एनेन पात्रेण “सोमं “पिब । यतः “मदिरस्य मदकरस्य “मध्वः मधुनः सोमस्य “आहावः पानस्थानीयपात्रविशेषः “पूर्णः पूरितोऽभूत् ॥ ह्वेञ् स्पर्धायाम्'। ‘ निपानमाहावः' (पा. सू. ३. ३.७४) इति निपातितः । स्तुतिभिराहूयमाना देवा अत्र सोमं पिबन्तीति । थाथादिस्वरः ॥ “यम् “इत् यमाहावमेव “विश्वे सर्वे “देवा: “अभिहर्यन्ति अभिकामयन्ते । ‘ हर्य गतिकान्त्योः । भौवादिकः । यद्योगात्तिङो निघाताभावे ‘ तिङि चोदात्तवति' इति गतेर्निघातः ॥
वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते ।
अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्सव॑ना॒ तेषु॑ हर्य ॥७
वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते ।
अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥७
वि । हि । त्वाम् । इन्द्र । पुरुधा । जनासः । हितऽप्रयसः । वृषभ । ह्वयन्ते ।
अस्माकम् । ते । मधुमत्ऽतमानि । इमा । भुवन् । सवना । तेषु । हर्य ॥७
हे “इन्द्र “वृषभ कामानां वर्षक “हितप्रयसः । प्रय इत्यन्ननाम प्रीणनकारित्वात्। संभृतहविष्काः “जनासः जनाः “पुरुधा बहुधा । हिरवधारणे । “त्वाम् एव “वि “ह्वयन्ते विविधमाह्वयन्ति ॥ ‘ह्वेञ् स्पर्धायाम् । “निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् । “अस्माकं स्वभूतानि “इमा इमानि “सवना सवनानि “ते त्वदर्थं “मधुमत्तमानि अतिशयेन सोमवन्ति “भुवन् अभवन् । तस्मात्त्वं “तेषु सवनेषु “हर्य सोमान् कामयस्व ॥
प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ ।
स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ॥८
प्र । ते॒ । इ॒न्द्र॒ । पू॒र्व्याणि॑ । प्र । नू॒नम् । वी॒र्या॑ । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ ।
स॒ती॒नऽम॑न्युः । अ॒श्र॒थ॒यः॒ । अद्रि॑म् । सु॒ऽवे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म॑णे । गाम् ॥८
प्र । ते । इन्द्र । पूर्व्याणि । प्र । नूनम् । वीर्या । वोचम् । प्रथमा । कृतानि ।
सतीनऽमन्युः । अश्रथयः । अद्रिम् । सुऽवेदनाम् । अकृणोः । ब्रह्मणे । गाम् ॥८
हे “इन्द्र “ते त्वदीयानि “प्रथमा आदितः “कृतानि “पूर्व्याणि पुरातनानि च “वीर्या वीर्याणि “नूनम् इदानीं “प्र “वोचं प्रकर्षेण वदामि। एकः प्रशब्दः पूरणः ॥ वोचम् । लुङि ब्रुवो वचिः । च्लेरङ् । कानि तानि । “सतीनमन्युः । सतीनमित्युदकनाम । उदकाभिवर्षणबुद्धियुक्तस्त्वम् “अद्रिं मेघम् “अश्रथयः वज्रेणाहिँसीः । “ब्रह्मणे बृहस्पतये “गां पणिभिरपहृतां “सुवेदनां सुष्ठु ज्ञापनीयाम् “अकृणोः अकरोरित्यादीनि ॥
नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥९
नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् ।
न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥९
नि । सु । सीद । गणऽपते । गणेषु । त्वाम् । आहुः । विप्रऽतमम् । कवीनाम् ।
न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघऽवन् । चित्रम् । अर्च ॥९
हे “गणपते त्वं “गणेषु स्तोतृगणेषु “सु सुष्ठु “नि “षीद । स्तुतिश्रवणार्थं निषण्णो भव । यतः “कवीनां क्रान्तप्रज्ञानां मध्ये “त्वां “विप्रतमम् अतिशयेन मेधाविनमिति “आहुः । किंच “त्वत् “ऋते ।। ‘ अन्यारादितरर्ते• ' (प, सू, २, ३, २९ ) इति पञ्चमी ॥ त्वां वर्जयित्वा “किं “चन कर्म “आरे दूरे समीपे वा “न क्रियते । तस्मान्निषीद । ततो हे “मघवन् धनवन्निन्द्र “महां महान्तम् “अर्कम् अर्चनीयमस्मदीयं त्रिवृत्पञ्चदशादिलक्षणं स्तोमं “चित्रं नानारूपं कृत्वा “अर्च पूजय । विधेहि ॥ ‘ अर्च पूजायाम् । भौवादिकः ॥
अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् ।
रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥१०
अ॒भि॒ऽख्या । नः॒ । म॒घ॒ऽव॒न् । नाध॑मानान् । सखे॑ । बो॒धि । व॒सु॒ऽप॒ते॒ । सखी॑नाम् ।
रण॑म् । कृ॒धि॒ । र॒ण॒ऽकृ॒त् । स॒त्य॒ऽशु॒ष्म॒ । अभ॑क्ते । चि॒त् । आ । भ॒ज॒ । रा॒ये । अ॒स्मान् ॥१०
अभिऽख्या । नः । मघऽवन् । नाधमानान् । सखे । बोधि । वसुऽपते । सखीनाम् ।
रणम् । कृधि । रणऽकृत् । सत्यऽशुष्म । अभक्ते । चित् । आ । भज । राये । अस्मान् ॥१०
हे “मघवन् धनवन्निन्द्र “नाधमानान् ॥ ‘ नाधृ नाथृ याञ्चोपतापैश्वर्याशीःषु । भौवादिकः । अनुदात्तेत् ॥ याचमानान् “नः अस्मान् “अभिख्या अभिख्यापनेन तेजसा युक्तान कुरु। प्रसिद्धान् वा कुरु। । हे “सखे धनदानेन हे “वसुपते वसूनां स्वामिन् त्वं “सखीनां स्तोतृत्वेन सखिभूतानामस्माकं स्वभूतानि स्तोत्राणि “बोधि बुध्यस्व ॥ ‘ बुध अवगमने'। भौवादिकः । लोटि छान्दसः शपो लुक्। छन्दस्युभयथा इति हेरार्धधातुकरत्वेनाङित्त्वात् ' अङितिश्च ' इति हेर्धिभावः। अत एव गुणः। सार्वधातुकत्वेन ङित्त्वादन्तोदात्तत्वम् । वर्णलोपष्छान्दसः ॥ हे “रणकृत् शत्रुभिः सह युद्धकर्तः अत एव हे “सत्यशुष्म यथार्थबलोपेत त्वं “रणं “कृधि कुरु । शत्रून् जहि ॥ करोतेर्लोटि ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिः ।। किंच “अभक्ते “चित् असंभजनीये स्थानेऽपि “अस्मान् “राये धनाय “आ “भज भागिनः कुरु । ' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । ॥ १३॥ ॥९॥
टिप्पणी
इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम्। केन सहेति। सूर्येनेति। तथेत्य् अब्रूताम्। तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्। तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम् । तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति। तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्। यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋ. १०.११२.१]>इत्य् ऋचाभ्यनूक्तम् - गोब्रा. २.३.१४
मण्डल १० | ||||
---|---|---|---|---|