प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.५०

(ऋग्वेद: सूक्तं १०.५० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.४९ ऋग्वेदः - मण्डल १०
सूक्तं १०.५०
वैकुण्ठ इन्द्रः।
सूक्तं १०.५१ →
दे. इन्द्रः। जगती, ३, ४ अभिसारिणी, ७ त्रिष्टुप्


प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे ।
इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥१॥
सो चिन्नु सख्या नर्य इन स्तुतश्चर्कृत्य इन्द्रो मावते नरे ।
विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे ॥२॥
के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान् ।
के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥३॥
भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः ।
भुवो नॄँश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥४॥
अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः ।
असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥५॥
एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे ।
वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥६॥
ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्च दावने ।
प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यान्धसः ॥७॥


सायणभाष्यम्

‘प्र वो महे' इति सप्तर्चमष्टमं सूक्तम् । आदितो द्वे जगत्यौ । “के ते नरः' इत्यादिके द्वे अभिसारिण्यौ । आदितो द्वौ दशाक्षरौ ततो द्वौ द्वादशकौ साभिसारिणी । तदुक्तं - वैराजौ जागतौ चाभिसारिणी ' ( अनु. ९, ४ ) इति । ततस्त्रिष्टुबेका। ततो द्वे जगत्यौ । पूर्ववदृषिदेवते । तथा चानुक्रान्तं--- ‘ प्र वो महे सप्त द्विजगत्याद्यन्तं के तेऽभिसारिण्यौ ' इति । महाव्रते निष्केवल्य एतत्सूक्तं निविद्धानम् । सूत्रितं च - ‘ प्र वो महे मन्दमानायान्धस इति निविद्धानम् ' (ऐ. आ. ५. ३. १ ) इति ॥


प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।

इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑ः ॥१

प्र । वः॒ । म॒हे । मन्द॑मानाय । अन्ध॑सः । अर्च॑ । वि॒श्वान॑राय । वि॒श्व॒ऽभुवे॑ ।

इन्द्र॑स्य । यस्य॑ । सुऽम॑खम् । सहः॑ । महि॑ । श्रवः॑ । नृ॒म्णम् । च॒ । रोद॑सी॒ इति॑ । स॒प॒र्यतः॑ ॥१

प्र । वः । महे । मन्दमानाय । अन्धसः । अर्च । विश्वानराय । विश्वऽभुवे ।

इन्द्रस्य । यस्य । सुऽमखम् । सहः । महि । श्रवः । नृम्णम् । च । रोदसी इति । सपर्यतः ॥१

हे स्तोतः “वः त्वम्। पूजार्थं बहुवचनम्। “महे महते “अन्धसः । अन्धसेत्यर्थः । सोमेन “मन्दमानाय मोदमानाय “विश्वानराय सर्वस्य नेत्रे । 'नरे संज्ञायाम्' इति सांहितिको दीर्घः। “विश्वाभुवे सर्वस्य भावयित्रे मह्यमिन्द्राय “प्र “अर्च। अर्चतिः स्तुतिकर्मा । प्रोच्चारय । “यस्य मम “इन्द्रस्य "सुमखं सुष्ठु मंहनीयं “सहः बलं “महि महत् "श्रवः अन्नं “नृम्णं सुखं “च “रोदसी द्यावापृथिव्यौ “सपर्यतः पूजयतः । तस्मा इन्द्राय प्रार्चेति समन्वयः ॥


सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे॑ ।

विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मन्दसे ॥२

सः । चि॒त् । नु । सख्या॑ । नर्यः॑ । इ॒नः । स्तु॒तः । च॒र्कृत्यः॑ । इन्द्रः॑ । माऽव॑ते । नरे॑ ।

विश्वा॑सु । धूः॒ऽसु । वा॒ज॒ऽकृत्ये॑षु । स॒त्ऽप॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्ऽसु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥२

सः । चित् । नु । सख्या । नर्यः । इनः । स्तुतः । चर्कृत्यः । इन्द्रः । माऽवते । नरे ।

विश्वासु । धूःऽसु । वाजऽकृत्येषु । सत्ऽपते । वृत्रे । वा । अप्ऽसु । अभि । शूर । मन्दसे ॥२

“सो “चिन्नु स खलु “इन्द्रः “सख्या सखिभूतेन निमित्तेन “नर्यः नृभ्यो हितः “इनः सर्वस्येश्वरः “स्तुतः सर्वैरभिष्टुतः । सख्या स्तुत इति वा संबन्धः । “मावते मत्सदृशाय “नरे नराय “चर्कृत्यः पुनःपुनः कर्तव्यः। परिचरणीय इत्यर्थः । अथ प्रत्यक्षवादः । हे “सत्पते सतां पालकेन्द्र स त्वं “विश्वासु सर्वासु “धूर्षु वोढव्येषु कार्यभारेषु “वाजकृत्येषु च बलकृत्येषु च “वृत्रे “वाप्सु मेघे वर्तमानेषूदकेषु च निमित्तेषु हे "शूर त्वम् "अभि “मन्दसे अभिष्टूयसे ॥


के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् ।

के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥३

के । ते । नरः॑ । इ॒न्द्र॒ । ये । ते॒ । इ॒षे । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् ।

के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वि॒रे॒ । के । अ॒प्ऽसु । स्वासु॑ । उ॒र्वरा॑सु । पौंस्ये॑ ॥३

के । ते । नरः । इन्द्र । ये । ते । इषे । ये । ते । सुम्नम् । सऽधन्यम् । इयक्षान् ।

के । ते । वाजाय । असुर्याय । हिन्विरे । के । अप्ऽसु । स्वासु । उर्वरासु । पौंस्ये ॥३

हे “इन्द्र “ते “के “नरः के मनुष्या इति प्रश्नः । ते महान्तो मया ज्ञातव्या इत्यभिप्रायः । प्रष्टव्यानाह। “ये नराः “ते तव “इषे अन्नाय प्रभवन्तीति शेषः । “ये च “ते “सुम्नं सुखं त्वदीयं “सधन्यं धनयुक्तम् “इयक्षान् गच्छन्ति । इयक्षतिर्गतिकर्मा । त्वदीयमन्नं सुखं धनं च ये लभन्ते ते के महात्मान इति । किंच “के “ते तव "असुर्याय असुरसंबन्धिने तेषां वधनिमित्ताय “वाजाय बलाय “हिन्विरे६ प्रेरयन्ति सोमादि हविः। “के वा “अप्सु “स्वासु स्वापेक्षितेषूदकेषु “उर्वरासु सर्वसस्याढ्यासु भूमिषु “पौंस्ये पुंस्त्वे चेति तेषु निमित्तभूतेषु हविः प्रेरयन्तीत्यनुवर्तते । उक्तविधा महान्तो दुर्लभा इति भावः ॥


‘भुवस्त्वमिन्द्र ' इति दर्शपूर्णमासयोर्माहेन्द्रस्य हविषो याज्या । सूत्रितं च - ‘ महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महान् ' ( आश्व. श्रौ. १. ६ ) इति । देवसुवां हविःष्विन्द्रस्य ज्येष्ठस्यैषैव याज्या। ‘भुवस्त्वमिन्द्र ब्रह्मणा महाननमीवास इळया ' ( आश्व. श्रौ. ४. ११) इति हि सूत्रितम् । एषैव भूनाम्न्येकाहे निष्केवल्ये सूक्तमुखीया। सूत्रितं च - ‘ शस्यमुक्तं बृहस्पतिसवेन त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्र ब्रह्मणा महान् ' ( आश्व. श्रौ. ९. ५) इति ॥

भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञिय॑ः ।

भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ विश्वचर्षणे ॥४

भुवः॑ । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ । विश्वे॑षु । सव॑नेषु । य॒ज्ञियः॑ ।

भुवः॑ । नॄन् । च्यौ॒त्नः । विश्व॑स्मिन् । भरे॑ । ज्येष्ठः॑ । च॒ । मन्त्रः॑ । वि॒श्व॒ऽच॒र्ष॒णे॒ ॥४

भुवः । त्वम् । इन्द्र । ब्रह्मणा । महान् । भुवः । विश्वेषु । सवनेषु । यज्ञियः ।

भुवः । नॄन् । च्यौत्नः । विश्वस्मिन् । भरे । ज्येष्ठः । च । मन्त्रः । विश्वऽचर्षणे ॥४

हे “इन्द्र “त्वं “ब्रह्मणा अस्मत्कृतेन परिवृढेन स्तोत्रेण “महान् “भुवः अभवः। भवतेर्लेटि ‘ भूसुवोस्तिङि ' इति गुणप्रतिषेध उवङादेशः । तथा “विश्वेषु सर्वेषु “सवनेषु “यज्ञियः यष्टव्यः “भुवः अभवः । तथा “विश्वस्मिन् सर्वस्मिन् “भरे संग्रामे “नॄन् नेतॄणां शत्रूणां “च्यौत्नः च्यावयिता भुवः । हे “विश्वचर्षणे सर्वस्य द्रष्टरिन्द्र “मन्त्रः मन्त्रयितव्यस्त्वं “ज्येष्ठश्च अभवः सर्वेषां मध्ये ॥


अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः ।

असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥५

अव॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हीम् । ते॒ । ओमा॑त्राम् । कृ॒ष्टयः॑ । वि॒दुः॒ ।

असः॑ । नु । क॒म् । अ॒जरः॑ । वर्धाः॑ । च॒ । विश्वा॑ । इत् । ए॒ता । सव॑ना । तू॒तु॒मा । कृ॒षे॒ ॥५

अव । नु । कम् । ज्यायान् । यज्ञऽवनसः । महीम् । ते । ओमात्राम् । कृष्टयः । विदुः ।

असः । नु । कम् । अजरः । वर्धाः । च । विश्वा । इत् । एता । सवना । तूतुमा । कृषे ॥५

हे इन्द्र त्वं “ज्यायान् प्रशस्यतरस्त्वं “यज्ञवनसः संभक्तयज्ञान् स्तोतॄन् “नु “कं क्षिप्रम् “अव रक्ष । अध्येतारो नु कमिति पदद्वयं कुर्वन्ति तथापि हिकं नुकमित्यादीनि नवोत्तराणि पदानीत्युक्तवान् यास्काचार्यः (नि. ३. १२ ) । अतः केवलानां हिकं नुकमित्येवमादीनां यावानर्थः स एव विशिष्टानामपि । तैत्तिरीया ( तै. सं. १,२,१३.३ ) अप्येकमेव पदं कुर्वन्ति । अवेत्युक्तम् । इन्द्रस्यावनप्रसिद्धिं दर्शयति । हे इन्द्र “ते तव “ओमात्रां रक्षणं “महीं महत् “विदुः “कृष्टयः मनुष्या ऋषयः । ओमात्राम् । अम गत्यादिषु । औणादिक आत्रन्प्रत्ययः । छान्दस उमादेशः । किंच त्वम् “अजर जरारहितः “असः भव । “नु “कं क्षिप्रं “वर्धाश्च वर्धस्व च हविराज्यादिना । किंच “विश्वेत् सवण्यपि “एता एतानि “सवना सवनानि “तूतुमा तूर्णानि “कृषे करोषि ।। कृषे । छान्दसे लिटि ‘ छन्दसि वा ' इति द्विर्वचनाभावः ॥


ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे ।

वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वच॑ः ॥६

ए॒ता । विश्वा॑ । सव॑ना । तू॒तु॒मा । कृ॒षे॒ । स्व॒यम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यानि॑ । द॒धि॒षे ।

वरा॑य । ते॒ । पात्र॑म् । धर्म॑णे । तना॑ । य॒ज्ञः । मन्त्रः॑ । ब्रह्म॑ । उत्ऽय॑तम् । वचः॑ ॥६

एता । विश्वा । सवना । तूतुमा । कृषे । स्वयम् । सूनो इति । सहसः । यानि । दधिषे ।

वराय । ते । पात्रम् । धर्मणे । तना । यज्ञः । मन्त्रः । ब्रह्म । उत्ऽयतम् । वचः ॥६

हे इन्द्र “एता एतानि “विश्वा सर्वाणि “सवना सवनानि “तूतुमा तूर्णानि “कृषे करोषि । एतानीत्युक्तं कानीति तत्राह । हे “सहसः बलस्य “सूनो पुत्र । बलवन्नित्यर्थः । “स्वयं “यानि “दधिषे धारयसि । हे इन्द्र “ते तव “वराय शत्रूणां वारकाय ते तव स्वभूतं “पात्रं रक्षणं भवत्वस्माकम् । किंच “धर्मणे धारणाय “तना धनं भवत्विति शेषः । किंच तुभ्यं “यज्ञो मन्त्रः । इज्यतेऽनेनेति यज्ञकरणसाधनभूतो मन्त्रः । यजुरित्यर्थः । “ब्रह्म परिवृढम् । शस्त्रमित्यर्थः । तदुभयात्मकं “वचः “उद्यतं भवतीति शेषः ॥


ये ते॑ विप्र ब्रह्म॒कृत॑ः सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ ।

प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ॥७

ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । वसू॑नाम् । च॒ । वसु॑नः । च॒ । दा॒वने॑ ।

प्र । ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भु॒व॒न् । मदे॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः ॥७

ये । ते । विप्र । ब्रह्मऽकृतः । सुते । सचा । वसूनाम् । च । वसुनः । च । दावने ।

प्र । ते । सुम्नस्य । मनसा । पथा । भुवन् । मदे । सुतस्य । सोम्यस्य । अन्धसः ॥७

हे “विप्र मेधाविन्निन्द्र “ते तुभ्यं “ये “ब्रह्मकृतः स्तोत्रकर्तारो हविष्कर्तारो वा स्तोतारः “सचा संघीभूताः “सुते सोमेऽभिषुते “वसूनां बहूनां धनानां “वसुनश्च एकस्य निवासयोग्यस्य धनस्य च “दावने दानाय परिचरन्तीति शेषः । अत्र वसूनामिति बहुवचनेन ऐहिकभोगसाधनानि धनानि अभिप्रेतानि । एकवचनान्तेन च निवासयोग्यं स्वर्गाख्यं धनमभिप्रेतमित्यवगन्तव्यम् । “ते अनुष्ठातारः “सुम्नस्य सुखस्य लाभाय “मनसा “पथा मनोमार्गेण । स्तोत्रवर्त्मनेत्यर्थः । “प्र “भुवन् प्रभवन्तु । उक्तवसुदानाय योग्या भवन्त्वित्यर्थः। कति उच्यते। “सुतस्य अभिषुतस्य “सोम्यस्य सोमसंबन्धिनः “अन्धसः अन्नस्य “मदे सति ॥ ॥ ९ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५०&oldid=202261" इत्यस्माद् पुनः प्राप्तिः