प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.१५५

(ऋग्वेद: सूक्तं १०.१५५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१५४ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५५
शिरिम्बिठो भारद्वाजः
सूक्तं १०.१५६ →
दे. अलक्ष्मीघ्नम्, २-३ ब्रह्मणस्पतिः, ५ विश्वे देवाः। अनुष्टुप्


अरायि काणे विकटे गिरिं गच्छ सदान्वे ।
शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥१॥
चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी ।
अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि ॥२॥
अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम् ।
तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥३॥
यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥४॥
परीमे गामनेषत पर्यग्निमहृषत ।
देवेष्वक्रत श्रवः क इमाँ आ दधर्षति ॥५॥


सायणभाष्यम्

' अरायि ' इति पञ्चर्चं चतुर्थं सूक्तं भरद्वाजपुत्रस्य शिरिम्बिठस्यार्षमानुष्टुभम् । जपहोमादिभिरिदं सूक्तमश्रीनाशकरम् । तत्राद्योपान्त्ययोस्तादृशोऽर्थ एव देवता । द्वितीयातृतीये ब्राह्मणस्पत्ये । पञ्चमी वैश्वदेवी । अनुक्रम्यते हि-' अरायि शिरिम्बिठो भारद्वाजोऽलक्ष्मीघ्नं द्वितीयातृतीये ब्राह्मणस्पत्ये अन्त्या वैश्वदेवी ' इति । गतो विनियोगः ।।


अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे ।

शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥ १

अरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ ।

शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥१

अरायि । काणे । विऽकटे । गिरिम् । गच्छ । सदान्वे ।

शिरिम्बिठस्य । सत्वऽभिः । तेभिः । त्वा । चातयामसि ॥१

हे “अरायि अदायिनि दानविरोधिनि हे “काणे कुत्सितशब्दकारिणि कुत्सितदर्शने वा हे “विकटे विकृतगमने विस्ताङ्गि वा हे सदान्वे सदानोनुवे सर्वदाक्रोशकारिणि दुर्भिक्षादिदेवते “गिरिं पर्वतं निर्जनं देशं “गच्छ । अस्मान् मा बाधिष्ठाः । “शिरिम्बिठस्य। पीपरिस्थिव्स्य । बिठमन्तरिक्षम् । शीर्यते विठेऽन्तरिक्ष इति शिरिम्बिठो मेघः । तस्य “सत्वभिः अन्तर्वर्तमानैरुदकैः “तेभिः तैः “त्वा त्वां “चातयामसि चातयामः विनाशयामः । यद्वा । शिरिम्बिठस्यैतत्संज्ञकस्य भरद्वाजपुत्रस्व तेभिस्तैः अनुष्ठितैः सत्वभिः कर्मभिर्हे अलक्ष्मि त्वां विनाशयामः । इतस्त्वमेव शीघ्रं गिरिं गच्छ ।।


च॒त्तो इ॒तश्च॒त्तामुतः॒ सर्वा॑ भ्रू॒णान्या॒रुषी॑ ।

अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥ २

च॒त्तो इति॑ । इ॒तः । च॒त्ता । अ॒मुतः॑ । सर्वा॑ । भ्रू॒णानि॑ । आ॒रुषी॑ ।

अ॒रा॒य्य॑म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । तीक्ष्ण॑ऽशृङ्ग । उ॒त्ऽऋ॒षन् । इ॒हि॒ ॥२

चत्तो इति । इतः । चत्ता । अमुतः । सर्वा । भ्रूणानि । आरुषी ।

अराय्यम् । ब्रह्मणः । पते । तीक्ष्णऽशृङ्ग । उत्ऽऋषन् । इहि ॥२

सालक्ष्मीः “इतः अस्माल्लोकात् “चत्तः चत्तैवास्माभिर्नाशितैव “अमुतः अमुष्मादपि लोकात् “चत्ता हिंसिता भवतु । यालक्ष्मीः “सर्वा सर्वाणि “भ्रूणानि गर्भजातानि सर्वासामोषधीनामङ्कुराणि या दुर्भिक्षाधिदेवता “आरुषी आहन्त्री भवति “अराय्यम् अदात्रीं दानविरोधिनीं तां हे “ब्रह्मणस्पते मन्त्रस्य पालयितर्देव हे “तीक्ष्णशृङ्ग तीक्ष्णतेजस्क “उदृषन् अस्मात्स्थानादुद्गमयन् “इहि गच्छ ।।


अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः॑ पा॒रे अ॑पूरु॒षम् ।

तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥ ३

अ॒दः । यत् । दारु॑ । प्लव॑ते । सिन्धोः॑ । पा॒रे । अ॒पु॒रु॒षम् ।

तत् । आ । र॒भ॒स्व॒ । दु॒र्ह॒नो॒ इति॑ दुःऽहनो । तेन॑ । ग॒च्छ॒ । प॒रः॒ऽत॒रम् ॥३

अदः । यत् । दारु । प्लवते । सिन्धोः । पारे । अपुरुषम् ।

तत् । आ । रभस्व । दुर्हनो इति दुःऽहनो । तेन । गच्छ । परःऽतरम् ॥३

“अदः विप्रकृष्टदेशे वर्तमानम् “अपूरुषं निर्मात्रा पुरुषेण रहितं “यद्दारु दारुमयं पुरुषोत्तमाख्यं देवताशरीरं “सिन्धोः “पारे समुद्रतीरे “प्लवते जलस्योपरि वर्तते “तत् दारू हे “दुर्हणो दुःखेन हननीय केनापि हन्तुमशक्य हे स्तोतः “आ “रभस्व आलम्बस्व । उपास्स्वेत्यर्थः । “तेन दारुमयेण देवेनोपास्यमानेन “परस्तरम् अतिशयेन तरणीयमुत्कृष्टं वैष्णवं लोकं “गच्छ । अपर आह । हे दुर्हणो दुःखेन हननीये दुष्टहनुयुक्ते वा हे अलक्ष्मि सिन्धोः पारे समुद्रतीरप्रान्तेऽपूरुषं पुरुषैर्जनैर्वियुक्तमदोऽस्मत्तो दूरे देशे वर्तमानं यद्दारु दारुमयी नौः प्लवते तद्दारु आ रभस्व परिगृहाण । गृहीत्वा च तेन दारुणा परस्तरमतिशयेन तरणीयं ब्रह्मणस्पतिना प्रेरिता सती द्वीपान्तरं गच्छ ।।


षष्ठेऽहनि तृतीयसवने ब्रह्मशस्त्रे ' यद्ध प्राचीः ' इत्येषा । सूत्रितं च - ' कपृन्नरो यद्ध प्राचीरजगन्तेति चैते ' ( आश्व. श्रौ. ८. ३) इति ।।

यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः ।

ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥ ४

यत् । ह॒ । प्राचीः॑ । अज॑गन्त । उरः॑ । म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ ।

ह॒ताः । इन्द्र॑स्य । शत्र॑वः । सर्वे॑ । बु॒द्बु॒दऽया॑शवः ॥४

यत् । ह । प्राचीः । अजगन्त । उरः । मण्डूरऽधाणिकीः ।

हताः । इन्द्रस्य । शत्रवः । सर्वे । बुद्बुदऽयाशवः ॥४

हे “मण्डूरधाणिकीः मण्डूरवत् कुत्सितशब्दकारिण्यो मन्दनस्य धनस्य धारयित्र्यो वालक्ष्म्यः उरः ।। उर्वी हिंसार्थः । अस्मात्क्विपि ' राल्लोपः ' इति वलोपः । ततो जसि रूपमेतत् ।। हिंसित्र्यो यूयं “प्राची प्रकर्षेणाञ्चन्त्यः प्रकृष्टगमनाः सत्यो “यद्ध यदा खलु “अजगन्त अगच्छत ।। गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः । ' तप्तनप्तनथनाश्च ' इति तस्य तबादेशः । अत एव ङित्त्वाभावादनुनासिकलोपो न भवति ।। तदानीमेव “सर्वे “इन्द्रस्य “शत्रवः “बुद्बुदयाशयः । यान्ति गच्छन्तीति याः । अश्नुवत इत्याशवः । याश्च त आशवश्च याशवः । बुद्बुदवद्यातारो व्यापनशीलाश्च सन्तः “हताः नष्टा आसन् ।।


परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत ।

दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ॥ ५

परि॑ । इ॒मे । गाम् । अ॒ने॒ष॒त॒ । परि॑ । अ॒ग्निम् । अ॒हृ॒ष॒त॒ ।

दे॒वेषु॑ । अ॒क्र॒त॒ । श्रवः॑ । कः । इ॒मान् । आ । द॒ध॒र्ष॒ति॒ ॥५

परि । इमे । गाम् । अनेषत । परि । अग्निम् । अहृषत ।

देवेषु । अक्रत । श्रवः । कः । इमान् । आ । दधर्षति ॥५

“इमे विश्वे देवाः “गाम् । जात्यभिप्रायमेकवचनम् । पणिभिरपहृताः सर्वा देवगवीः “परि “अनेषत पर्यनयन् । यष्टॄनङ्गिरसः परिप्रापयन् । ततः “अग्निं च “परि “अहृषत परितो व्यहरन् । यागार्थं तत्र तत्र गार्हपत्यादिरूपेण स्थापितवन्त इत्यर्थः । एवं कृत्वा “देवेषु यष्टव्येष्विन्द्रादिषु “श्रवः अन्नम् “अक्रत अकृषत । “कः शत्रुरसुरादिः “इमान् विश्वान् देवान् “आ “दधर्षति अभिभवितुं शक्नोति । न कश्चिदित्यर्थः ।। ।। १३ ।।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१