ऋग्वेदः सूक्तं १०.२०
← सूक्तं १०.१९ | ऋग्वेदः - मण्डल १० सूक्तं १०.२० ऐन्द्रो विमदः, प्राजापत्यो वा,वासुक्रो वसुकृद्वा। |
सूक्तं १०.२१ → |
दे. अग्निः। गायत्री, १ एकपदा विराट्(एष मन्त्रः शान्त्यर्थं), २ अनुष्टुप्, ९ विराट्, १० त्रिष्टुप् |
भद्रं नो अपि वातय मनः ॥१॥
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् ।
यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः ॥२॥
यमासा कृपनीळं भासाकेतुं वर्धयन्ति ।
भ्राजते श्रेणिदन् ॥३॥
अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् ।
कविरभ्रं दीद्यानः ॥४॥
जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे ।
मिन्वन्सद्म पुर एति ॥५॥
स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति ।
अग्निं देवा वाशीमन्तम् ॥६॥
यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य ।
अद्रेः सूनुमायुमाहुः ॥७॥
नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः ।
अग्निं हविषा वर्धन्तः ॥८॥
कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् ।
हिरण्यरूपं जनिता जजान ॥९॥
एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः ।
गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥१०॥
सायणभाष्यम्
‘भद्रम्' इति दशर्चं चतुर्थं सूक्तम् । आद्यैकपदा दशाक्षरा विराट् । 'अग्निमीळे भुजाम्' इत्येषानुष्टुप् । नवमी विराट् दशमी त्रिष्टुप् मध्ये षट् गायत्र्यः । इदमादीनां सप्तसूक्तानामिन्द्रपुत्रः प्रजापतिपुत्रो वा विमद ऋषिर्वसुक्रपुत्रो वसुकृदाख्यो वा । इदमुत्तरं चाग्नेयम् । तथा चानुक्रान्तं -- ’सप्तोत्तराण्यैन्द्रो विमदः प्राजापत्यो वा वासुक्रो वसुकृद्वा भद्रं दशाग्नेयं तु गायत्रमाद्यैकपदा पाद एव वा शान्त्यर्थः परानुष्टुबन्त्ये विराट्त्रिष्टुभौ' इति । गतो विनियोगः ॥
भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥१
भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥१
भद्रम् । नः । अपि । वातय । मनः ॥१
हे अग्ने त्वं “नः अस्माकं “मनः “भद्रं शुभयुक्तम् “अपि “वातय । अपिरत्र धात्वर्थानुवादी ।। आगमय । त्वत्संबन्धिस्तोत्रकरणे प्रेरयेत्यर्थः ॥
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुं ।
यस्य॒ धर्म॒न्त्स्व१॒॑रेनीः॑ सप॒र्यंति॑ मा॒तुरूधः॑ ॥२
अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् ।
यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥२
अग्निम् । ईळे । भुजाम् । यविष्ठम् । शासा । मित्रम् । दुःऽधरीतुम् ।
यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः ॥२
“भुजां हविर्भुजां देवानां मध्ये "यविष्ठम् अहन्यहन्यग्निहोत्रादिकर्मार्थं जायमानत्वादतिशयेन युवानं “शासा अनुशासनेन “मित्रम् । यस्मादिदं कर्तव्यमिदं न कर्तव्यमिति सर्वमनुशास्ति तस्मात्सर्वस्य मित्रभूतमित्यर्थः । “दुर्धरीतुं दुर्धरणीयं संग्रामे शत्रुभिर्दुर्निवारणीयमेवंभूतम् “अग्निम् “ईळे स्तौमि । अपि च “यस्य अग्नेः “धर्मन् धर्मण्यग्निहोत्रादिके कर्मणि “स्वः द्युलोकमादित्यं सर्वं देवजातं वा “एनीः एन्यः प्रतिगन्त्र्य आहुतयः स्तुतयश्च “सपर्यन्ति परिचरन्ति सेवन्ते । यद्वा । स्वः सपर्यन्तीत्यनयोः सामानाधिकरण्यम् । अत्र स्वरित्ययं सर्वशब्दो निपातः । स्वः सर्वे देवाः एनीरात्मनः प्रतिगन्त्रीराहुतीः स्तुतीश्च सपर्यन्ति सेवन्ते । उपजीवन्तीत्यर्थः। तत्र दृष्टान्तः । लुप्तोपममेतत् । “मातुः गोः “ऊधः क्षीरोपसंहारस्थानं प्रति यथा वत्सा उपजीवन्ति तद्वत् । तमग्निमीळ इति पूर्वेण संबन्धः ॥
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धयं॑ति ।
भ्राज॑ते॒ श्रेणि॑दन् ॥३
यम् । आ॒सा । कृ॒पऽनी॑ळम् । भा॒साऽके॑तुम् । व॒र्धय॑न्ति ।
भ्राज॑ते । श्रेणि॑ऽदन् ॥३
यम् । आसा । कृपऽनीळम् । भासाऽकेतुम् । वर्धयन्ति ।
भ्राजते । श्रेणिऽदन् ॥३
स्तोतारो यष्टारश्च “आसा स्तुतिहविर्लक्षणेनोपासनेन “यम् अग्निं “वर्धयन्ति । कीदृशम् । “कृपनीळं कर्मस्थानम् । कर्माधारमित्यर्थः । “भासाकेतुं ज्वालालक्षणज्ञापकं दीप्तेः कर्तारं वा । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । सोऽग्निः “श्रेणिदन् स्तोतृभ्यो यष्टृभ्योऽभीष्टफलसमूहप्रदः शत्रुभ्यो ज्वालापङ्क्तिप्रदो वा एवंभूतः सन् “भ्राजते भासते ॥
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अंता॑न् ।
क॒विर॒भ्रं दीद्या॑नः ॥४
अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् ।
क॒विः । अ॒भ्रम् । दीद्या॑नः ॥४
अर्यः । विशाम् । गातुः । एति । प्र । यत् । आनट् । दिवः । अन्तान् ।
कविः । अभ्रम् । दीद्यानः ॥४
“विशां यजमानमनुष्याणाम् “अर्यः गन्तव्यः “गातुः गमनशीलोऽग्निः “दीद्यानः दीप्यमानः “यत् यदा “एति ऊर्ध्वं गच्छति तदा “दिवः द्युलोकस्य “अन्तान् पर्यन्तान् “कविः मेधावी सोऽग्निः “प्र “आनट् प्रकर्षेण व्याप्नोति । “अभ्रं मेघोपलक्षितमन्तरिक्षं च व्याप्नोति ॥
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।
मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥५
जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे ।
मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥५
जुषत् । हव्या । मानुषस्य । ऊर्ध्वः । तस्थौ । ऋभ्वा । यज्ञे ।
मिन्वन् । सद्म । पुरः । एति ॥५
"मानुषस्य यजमानस्य “यज्ञे यजनीये यागे “हव्या हव्यानि हवींषि “जुषत् सेवमानोऽग्निः “ऋभ्वा उरुभूतो बहुज्वालोपेतः “ऊर्ध्वस्तस्थौ उत्तिष्ठति । ऊर्ध्वं ज्वलतीत्यर्थः । अपि चायमग्निः प्राग्वंशादारभ्य “सद्म सदनं सौमिकी वेदिं “मिन्वन् परिच्छिन्दन् “पुरः पुरस्तादुत्तरवेदिशालामुखीयात् प्रणीयमानः सन् “एति गच्छति ॥
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।
अ॒ग्निं दे॒वा वाशी॑मंतं ॥६
सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ ।
अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥६
सः । हि । क्षेमः । हविः । यज्ञः । श्रुष्टी । इत् । अस्य । गातुः । एति ।
अग्निम् । देवाः । वाशीऽमन्तम् ॥६
य उक्तगुणविशिष्टोऽग्निः । “हि इत्येतदवधारणे । “सः एवाग्निः “क्षेमः कुशलहेतुः । सर्वस्य परिपालनहेतुरित्यर्थः । “हविः पुरोडाशादिकं च स एव हविषस्तन्निमित्तत्वात् । “यज्ञः यागोऽपि स एव तस्यापि तद्धेतुत्वात् । किंच “श्रुष्टीत् क्षिप्रमेव “अस्य अग्नेः "गातुः गमनशीलोऽधिष्ठात्रात्मा “एति देवानामाह्वानार्थं गच्छति । गत्वा च प्रत्यागच्छन्तं “वाशीमन्तं स्तुतिलक्षणया वाचोपेतम् “अग्निं प्रति “देवाः अपि गच्छन्तीति शेषः ॥ ॥ २ ॥
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।
अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥७
य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य ।
अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥७
यज्ञऽसहम् । दुवः । इषे । अग्निम् । पूर्वस्य । शेवस्य ।
अद्रेः । सूनुम् । आयुम् । आहुः ॥७
अत्रैकवाक्यतायै यत्तच्छब्दावध्याहार्यौ । अपरार्धर्चः पूर्वं व्याख्येयः । “आयुं देवानामाह्वानार्थं दूत्येन गन्तारं यम् “अग्निम् “अद्रेः सूनुम् अश्मनः पुत्रम् “आहुः ‘त्वमद्भ्यस्त्वमश्मनस्परि' (ऋ. सं. २. १. १ ) इत्येवमादयो मन्त्रा वदन्ति । "यज्ञसहं यागस्य वोढारम् । धारयितारमित्यर्थः ।। तमग्निमभिलक्ष्य “दुवः परिचरणम् “इषे इच्छामि । किमर्थम् । “पूर्वस्य । अत्र पूर्वशब्द उत्कृष्टवाची । उत्कृष्टस्य “शेवस्य स्वर्गापवर्गलक्षणसुखस्य प्राप्त्यर्थमिति शेषः ॥
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ ।
अ॒ग्निं ह॒विषा॒ वर्धं॑तः ॥८
नरः॑ । ये । के । च॒ । अ॒स्मत् । आ । विश्वा॑ । इत् । ते । वा॒मे । आ । स्यु॒रिति॑ स्युः ।
अ॒ग्निम् । ह॒विषा॑ । वर्ध॑न्तः ॥८
नरः । ये । के । च । अस्मत् । आ । विश्वा । इत् । ते । वामे । आ । स्युरिति स्युः ।
अग्निम् । हविषा । वर्धन्तः ॥८
“नरः नेतारः “ये “के “च ये केचित् पुत्रपौत्रादयः “अस्मत् अस्माकं सन्ति । आकारः पूरकः । “ते पुत्रपौत्रादयः “वामे वननीये संभजनीये “विश्वेत् विश्वस्मिन्नेव पश्वादिधने “आ “स्युः आ समन्ताद्भवेयुः । उपविशेयुरित्याशास्महे । किं कुर्वन्तः । “अग्निम् अङ्गनादिगुणविशिष्टं देवं “हविषा पुरोडाशादिकेन “वर्धन्तः वर्धयन्तः ॥
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
हिर॑ण्यरूपं॒ जनि॑ता जजान ॥९
कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् ।
हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥९
कृष्णः । श्वेतः । अरुषः । यामः । अस्य । ब्रध्नः । ऋज्रः । उत । शोणः । यशस्वान् ।
हिरण्यऽरूपम् । जनिता । जजान ॥९
अत्र यच्छब्दमध्याहृत्य योज्यम् । “यामः । याति गच्छत्यस्मिन्निति यामो रथः प्रजापतिना निर्मितः । कीदृशः । “कृष्णः असितवर्णः “श्वेतः सितवर्णः “अरुषः आरोचमानः “ब्रध्नः महान् “ऋज्रः ऋजुगामी “उत अपि च “शोणः रक्तवर्णः “यशस्वान् कीर्तिमान् । यद्वा । यश इति धननाम् । हविर्लक्षणेन धनेन युक्तः। “हिरण्यरूपं सुवर्णसदृशं तं रथम् “अस्य अग्नेरर्थाय “जनिता सर्वस्य जगतो जनयिता प्रजापतिः “जजान जनयामास । अस्मै दत्तवानित्यर्थः । कथमेकस्यैव रथस्य कृष्णादिनानारूपत्वं संभवतीति चेत् अग्नेः सामर्थ्यातिशयेन संभवतीत्यर्थः । यद्वा । हिरण्यरूपमिति रथवाचिना शब्देन सह सामानाधिकरण्यात् कृष्णादिशब्दा द्वितीयान्तत्वेन योज्याः । अत्र सर्वगुणोक्तरथवत्तयाग्निः स्तूयत इत्यर्थः ॥
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ ।
गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥१०
ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ ।
गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥१०
एव । ते । अग्ने । विऽमदः । मनीषाम् । ऊर्जः । नपात् । अमृतेभिः । सऽजोषाः ।
गिरः । आ । वक्षत् । सुऽमतीः । इयानः । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥१०
एवमुक्तप्रकारेण हे “ऊर्जो “नपात् ओषधिवनस्पतिपितृभूतस्यान्नस्य पौत्र हे “अग्ने “अमृतेभिः अमृतैर्हविर्लक्षणैरन्नैः “सजोषाः संगतः “विमदः नामर्षिः “मनीषां प्रकृष्टां बुद्धिं कामयमानः सन् “ते तुभ्यं “गिरः स्तुतिलक्षणा वाचः “आ “वक्षत् आभिमुख्येनोक्तवान् । वक्तेश्छन्दसि लेटि रूपम् । ततस्त्वमेतज्ज्ञात्वा “सुमतीरियानः शोभनलक्षणा बुद्धीः संगमयन “इषम् अन्नम् “ऊर्ज़ं क्षीरादिकं रसं च “सुक्षितिं शोभननिवासम् । यद्वा । क्षितयो मनुष्याः । शोभनपुत्रपौत्रादिकं यत्किंचित् देयमस्ति तत् “विश्वं धनं च “आभाः तस्मै विमदायाहर देहि ॥ ॥ ३ ॥
मण्डल १० | ||||
---|---|---|---|---|