ऋग्वेदः सूक्तं १०.१५८
← सूक्तं १०.१५७ | ऋग्वेदः - मण्डल १० सूक्तं १०.१५८ चक्षुः सौर्यः |
सूक्तं १०.१५९ → |
दे. सूर्यः। गायत्री, २ स्वराट्। |
सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् ।
अग्निर्नः पार्थिवेभ्यः ॥१॥
जोषा सवितर्यस्य ते हरः शतं सवाँ अर्हति ।
पाहि नो दिद्युतः पतन्त्याः ॥२॥
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः ॥३॥
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।
सं चेदं वि च पश्येम ॥४॥
सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।
वि पश्येम नृचक्षसः ॥५॥
सायणभाष्यम्
‘सूर्यः' इति पञ्चर्चं सप्तमं सूक्तं सूर्यपुत्रस्य चक्षुःसंज्ञस्यार्षं सूर्यदेवत्यं गायत्रम् । तथा चानुक्रान्तं-- सूर्यो नश्चक्षुः सौर्यः सौर्यं गायत्रम्' इति । आश्विनशस्त्रे सूर्योदयादुत्तरकाले सौर्यकाण्ड इदं सूक्तम् । सूत्रितं च --- सूर्यो नो दिव उदु त्यं जातवेदसमिति नव' ( आश्व. श्रौ. ६. ५) इति । दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे ‘सूर्यो नः' इत्येषा। सूत्रितं च-- सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः' ( आश्व. श्रौ. १. ४ ) इति ॥
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
अ॒ग्निर्न॒ः पार्थि॑वेभ्यः ॥१
सूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् ।
अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥१
सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ।। १ ।।
“सूर्यः सर्वस्य प्रेरकः शोभनीयो वा देवः “दिवः द्युलोकात् द्युलोकवर्तिनो जनात् “नः अस्मान् “पातु रक्षतु । “वातः वायुश्च “अन्तरिक्षात् मध्यमस्थानगताद्बाधकादस्मान् रक्षतु । तथा पृथिवीस्थानः “अग्निः च “पार्थिवेभ्यः पृथिव्यां वर्तमानेभ्यः शत्रुभ्यः “नः अस्मान् रक्षतु ।।
जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
पा॒हि नो॑ दि॒द्युत॒ः पत॑न्त्याः ॥२
जोष॑ । स॒वि॒तः॒ । यस्य॑ । ते॒ । हरः॑ । श॒तम् । स॒वान् । अर्ह॑ति ।
पा॒हि । नः॒ । दि॒द्युतः॑ । पत॑न्त्याः ॥२
जोष । सवितः । यस्य । ते । हरः । शतम् । सवान् । अर्हति ।
पाहि । नः । दिद्युतः । पतन्त्याः ॥२
हे “सवितः सर्वस्य प्रेरक सूर्य “जोष अस्मत्स्तुत्यादिकं सेवस्व । “यस्य “ते तव “हरः रसहरणशीलं तेजः “शतं “सवान् बहून् यज्ञान् प्रति “अर्हति योग्यं भवति । यद्वा । प्रकाशनादिद्वारा पूजयति । स त्वं “नः अस्मान् “पतन्याःह निपतन्त्याः शत्रुभिरस्मासु क्षिप्यमाणायाः “दिद्युतः । वज्रनामैतत् । द्योतमानायाः शक्तेरायुधात् “पाहि रक्ष ।।
चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
चक्षु॑र्धा॒ता द॑धातु नः ॥३
चक्षुः॑ । नः॒ । दे॒वः । स॒वि॒ता । चक्षुः॑ । नः॒ । उ॒त । पर्व॑तः ।
चक्षुः॑ । धा॒ता । द॒धा॒तु॒ । नः॒ ॥३
चक्षुः । नः । देवः । सविता । चक्षुः । नः । उत । पर्वतः ।
चक्षुः । धाता । दधातु । नः ॥३
“सविता प्रेरकः “देवः “नः अस्माकं “चक्षुः प्रकाशकमिन्द्रियमिन्द्रियानुग्राहकं तेजो वा “दधातु । “उत अपि च “पर्वतः इन्द्रसहचरः पर्वताख्योऽपि देवः “नः अस्माकं “चक्षुः विदधातु । “धाता सर्वस्य विधातादित्यानामन्यतमश्च “नः अस्माकं “चक्षुः विदधातु ।।
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
सं चे॒दं वि च॑ पश्येम ॥४
चक्षुः॑ । नः॒ । धे॒हि॒ । चक्षु॑षे । चक्षुः॑ । वि॒ऽख्यै । त॒नूभ्यः॑ ।
सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥४
चक्षुः । नः । धेहि । चक्षुषे । चक्षुः । विऽख्यै । तनूभ्यः ।
सम् । च । इदम् । वि । च । पश्येम ॥४
“नः अस्माकं “चक्षुषे रूपोपलब्धिकारणायेन्द्रियाय “चक्षुः प्रकाशकं तदनुग्राहकं तेजो हे सूर्य “धेहि विधेहि कुरु । यद्वा । न इति व्यत्ययेन बहुवचनम् । चक्षुषे चक्षुःसंज्ञाय नो मह्यं चक्षुरिन्द्रियं वा तेजो वा हे सूर्य धेहि प्रयच्छ । “तनूभ्यः अस्माकं शरीरेभ्यस्तनयेभ्यो वा “विख्यै विख्यानाय प्रकाशनाय “चक्षुः त्वदीयं प्रकाशं विधेहि । यत एवं तस्मात्कारणात् त्वदीयेन तेजसा वयं “च “इदं सर्वं जगत् “सं “पश्येम । सम्यग्द्रष्टारो भवेम । “वि पश्येम “च । विविधं च सविशेषं द्रष्टारो भवेम ।।
सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।
वि प॑श्येम नृ॒चक्ष॑सः ॥५
सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ।
वि । प॒श्ये॒म॒ । नृ॒ऽचक्ष॑सः ॥५
सुऽसन्दृशम् । त्वा । वयम् । प्रति । पश्येम । सूर्य ।
वि । पश्येम । नृऽचक्षसः ॥५
हे “सूर्य “सुसंदृशं सुष्ठु संद्रष्टारं “त्वा त्वां “वयं “प्रति “पश्येम प्रत्येकं द्रष्टारो भूयास्म । तथा “नृचक्षसः नृभिर्मनुष्यैरस्माभिर्द्रष्टव्यान् पदार्थान् “वि “पश्येम विद्रष्टारो भवेम । यद्वा । नृचक्षसो नृणां शत्रुमनुष्याणां हिंसकाः सन्तो वयं विशिष्टज्ञाना भवेम ।। ।।१ ६ ।।
मण्डल १० | ||||
---|---|---|---|---|