ऋग्वेदः सूक्तं १०.४१
← सूक्तं १०.४० | ऋग्वेदः - मण्डल १० सूक्तं १०.४१ सुहस्त्यो घौषेयः |
सूक्तं १०.४२ → |
दे. अश्विनौ। जगती |
समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् ।
परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥१॥
प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् ।
विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥२॥
अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् ।
विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥३॥
सायणभाष्यम्
'समानम्' इति तृचं द्वादशं सूक्तं घोषायाः पुत्रस्य सुहस्त्यस्यार्षं जागतमाश्विनम् । अनुक्रान्तं च - समानं तृचं सुहस्त्यो घौषेयः' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतं ।
परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥१
स॒मा॒नम् । ऊं॒ इति॑ । त्यम् । पु॒रु॒ऽहू॒तम् । उ॒क्थ्य॑म् । रथ॑म् । त्रि॒ऽच॒क्रम् । सव॑ना । गनि॑ग्मतम् ।
परि॑ऽज्मानम् । वि॒द॒थ्य॑म् । सु॒वृ॒क्तिऽभिः॑ । व॒यम् । विऽउ॑ष्टौ । उ॒षसः॑ । ह॒वा॒म॒हे॒ ॥१
समानम् । ऊं इति । त्यम् । पुरुऽहूतम् । उक्थ्यम् । रथम् । त्रिऽचक्रम् । सवना । गनिग्मतम् ।
परिऽज्मानम् । विदथ्यम् । सुवृक्तिऽभिः । वयम् । विऽउष्टौ । उषसः । हवामहे ॥१
हे अश्विनौ युवयोः “समानमु साधारणमेव “त्यं तं पुरुहूतं बहुभिराहूतम् “उक्थ्यं प्रशस्यं “त्रिचक्रं “सवना सवनानि यज्ञान् “गनिग्मतं प्रतिगच्छन्तं “परिज्मानं परितो गन्तारं “विदथ्यं यज्ञहितं “रथम् “उषसः “व्युष्टौ "सुवृक्तिभिः सुष्ठु दोषवर्जिताभिः स्तुतिभिः वयं “हवामहे आह्वयामः ॥
प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथं॑ ।
विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मंतमश्विना ॥२
प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् ।
विशः॑ । येन॑ । गच्छ॑थः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥२
प्रातःऽयुजम् । नासत्या । अधि । तिष्ठथः । प्रातःऽयावानम् । मधुऽवाहनम् । रथम् ।
विशः । येन । गच्छथः । यज्वरीः । नरा । कीरेः । चित् । यज्ञम् । होतृऽमन्तम् । अश्विना ॥२
हे "नासत्या नासत्यभूतौ सत्यस्य प्रणेतारौ वा “नरा नेतारावश्विनौ युवां “प्रातर्युजं प्रातःकालेऽश्वैर्युज्यमानं "प्रातर्यावाणं प्रातर्गन्तारं “मधुवाहनं मधुनोऽमृतस्य वाहकं तं “रथम् “अधि “तिष्ठथः। आरोहतमित्यर्थः । “यज्वरीः यजनशीलाः “विशः प्रजाः "येन रथेन “गच्छथः । “येन च "कीरेश्चित् स्तोतुरपि “होतृमन्तम् ऋषियुक्तं “यज्ञं गच्छथः ॥
अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसं ।
विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥३
अ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् ।
विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ ॥३
अध्वर्युम् । वा । मधुऽपाणिम् । सुऽहस्त्यम् । अग्निधम् । वा । धृतऽदक्षम् । दमूनसम् ।
विप्रस्य । वा । यत् । सवनानि । गच्छथः । अतः । आ । यातम् । मधुऽपेयम् । अश्विना ॥३
हे अश्विनौ युवां “मधुपाणिं सोमपाणिम् “अध्वर्युं “वा “सुहस्त्यं सुहस्त्यनामानमृषिं मां “धृतदक्षं धृतबलं “दमूनसं दानमनसम् “अग्निधं “वा ऋत्विग्विशेषं समायातम् । तदेव दर्शयति । “यत् यद्यपि “विप्रस्य अन्यस्य मेधाविनः “सवनानि यज्ञान् “गच्छथः तथापि “अतः तेभ्यो यज्ञेभ्यः "मधुपेयम् अस्माकं सोमात्मकं पेयम् “आ "यातम् अन्वागच्छतम् ॥ ॥ २१ ॥
मण्डल १० | ||||
---|---|---|---|---|