ऋग्वेदः सूक्तं १०.१९१
← सूक्तं १०.१९० | ऋग्वेदः - मण्डल १० सूक्तं १०.१९१ संवनन आङ्गिरसः |
अग्निः, २-४ संज्ञानम् । अनुष्टुप्, ३ त्रिष्टुप्। |
संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।
इळस्पदे समिध्यसे स नो वसून्या भर ॥१॥
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥३॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥४॥
सायणभाष्यम्
‘ संसम्' इति चतुर्ऋचं चत्वारिंशं सूक्तं संवननस्यार्षम् । ‘ समानो मन्त्रः' इति तृतीया त्रिष्टुप् शिष्टास्तिस्रोऽनुष्टुभः । प्रथमाया अग्निर्देवता । शिष्टानां संज्ञानम् । अनुक्रम्यते ----- संसं चतुष्कं संवननः संज्ञानमाद्याग्नेयी तृतीया त्रिष्टुप् तृतीया त्रिष्टुप् ' इति । 'आनुष्टुभं तु ' इति पूर्वमुक्तत्वादवशिष्टानामनुष्टुप्त्वम् । सूक्तविनियोगो लैङ्गिकः ॥
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥१
सम्ऽस॑म् । इत् । यु॒व॒से॒ । वृ॒ष॒न् । अग्ने॑ । विश्वा॑नि । अ॒र्यः । आ ।
इ॒ळः । प॒दे । सम् । इ॒ध्य॒से॒ । सः । नः॒ । वसू॑नि । आ । भ॒र॒ ॥१
सम्ऽसम् । इत् । युवसे । वृषन् । अग्ने । विश्वानि । अर्यः । आ ।
इळः । पदे । सम् । इध्यसे । सः । नः । वसूनि । आ । भर ॥१
हे “वृषन् कामानां वर्षितः “अग्ने “अर्यः ईश्वरस्त्वम् ।' अर्यः स्वामिवैश्ययोः' (पा. सू. ३. १. १०३) इति यत्प्रत्ययान्तो निपातितः । ‘ अर्यः स्वाम्याख्यायाम् ' ( फि. सू. १. १८) इत्यन्तोदात्तत्वम् । स त्वं “विश्वानि सर्वाणि भूतजातानि “संसम् । ‘प्रसमुपोदः पादपूरणे' (पा. सू. ८. १. ६) इति समो द्विर्वचनम् । इच्छब्दोऽवधारणे । “आ समन्तात् सं “युवसे मिश्रयसि । देवेषु मध्ये त्वमेव सर्वाणि भूतजातानि वैश्वानरात्मना व्याप्नोषि। नान्य इत्यर्थः । किंच “इळः इडायाः पृथिव्याः “पदे स्थाने उत्तरवेदिलक्षणे । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः ' ( ऐ. ब्रा. १.२८) इति ब्राह्मणम् । तत्र त्वं “समिध्यसे ऋत्विग्भिः संदीप्यसे । “सः तादृशस्त्वं “नः अस्माकं “वसूनि धनानि “आ “भर आहर ॥
सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।
दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥२
सम् । ग॒च्छ॒ध्व॒म् । सम् । व॒द॒ध्व॒म् । सम् । वः॒ । मनां॑सि । जा॒न॒ता॒म् ।
दे॒वाः । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒नाः । उ॒प॒ऽआस॑ते ॥२
सम् । गच्छध्वम् । सम् । वदध्वम् । सम् । वः । मनांसि । जानताम् ।
देवाः । भागम् । यथा । पूर्वे । सम्ऽजानानाः । उपऽआसते ॥२
हे स्तोतारः यूयं “सं “गच्छध्वम् । संगताः संभूता भवत” ॥ ‘समो गम्यृच्छि” इत्यादिना गमेरात्मनेपदम् ॥ तथा “सं “वदध्वं सह वदत । परस्परं विरोधं परित्यज्यैकविधमेव वाक्यं ब्रूतेति यावत् । ‘ व्यक्तवाचां समुच्चारणे ' ( पा. सू. १. ३. ४८) इति वदेरात्मनेपदम्। “वः युष्माकं “मनांसि “सं “जानताम् । समानमेकरूपमेवार्थमवगच्छन्तु ॥ ‘ संप्रतिभ्यामनाध्याने ' (पा. सू. १. ३. ४६ ) इति जानातेरात्मनेपदम् ॥ “यथा “पूर्वे पुरातनाः “देवाः “संजानानाः ऐकमत्यं प्राप्ता हविर्भागम् "उपासते यथास्वं स्वीकुर्वन्ति तथा यूयमपि वैमत्यं परित्यज्य धनं स्वीकुरुतेति शेषः ॥
स॒मा॒नो मन्त्र॒ः समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम् ।
स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥३
स॒मा॒नः । मन्त्रः॑ । सम्ऽइ॑तिः । स॒मा॒नी । स॒मा॒नम् । मनः॑ । स॒ह । चि॒त्तम् । ए॒षा॒म् ।
स॒मा॒नम् । मन्त्र॑म् । अ॒भि । म॒न्त्र॒ये॒ । वः॒ । स॒मा॒नेन॑ । वः॒ । ह॒विषा॑ । जु॒हो॒मि॒ ॥३
समानः । मन्त्रः । सम्ऽइतिः । समानी । समानम् । मनः । सह । चित्तम् । एषाम् ।
समानम् । मन्त्रम् । अभि । मन्त्रये । वः । समानेन । वः । हविषा । जुहोमि ॥३
पूर्वोऽर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः । “एषाम् एकस्मिन् कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा “मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणं वा “समानः एकविधोऽस्तु । तथा “समितिः प्राप्तिरपि “समानी एकरूपास्तु ॥ ‘ केवलमामक° इत्यादिना समानशब्दात् ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तथा “मनः मननसाधनमन्तःकरणं चैषां “समानम् एकविधमप्यस्तु । “चित्तं विचारजं ज्ञानं तथा “सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु । अहं च “वः युष्माकं “समानम् एकविधं “मन्त्रम् “अभि “मन्त्रये । ऐकविध्याय संस्करोमि । तथा “वः युष्माकं स्वभूतेन “समानेन साधारणेन “हविषा चरुपुरोडाशादिना अहं “जुहोमि ॥ तृतीया च होश्छन्दसि’ (पा. सू. २. ३. ३) इति कर्मणि कारके तृतीया ॥ वषट्कारेण हविः प्रक्षेपयामीत्यर्थः ॥
स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒ः सुस॒हास॑ति ॥४
स॒मा॒नी । वः॒ । आऽकू॑तिः । स॒मा॒ना । हृद॑यानि । वः॒ ।
स॒मा॒नम् । अ॒स्तु॒ । वः॒ । मनः॑ । यथा॑ । वः॒ । सुऽस॑ह । अस॑ति ॥४
समानी । वः । आऽकूतिः । समाना । हृदयानि । वः ।
समानम् । अस्तु । वः । मनः । यथा । वः । सुऽसह । असति ॥४
हे ऋत्विग्यजमानाः “वः युष्माकम् “आकूतिः संकल्पोऽध्यवसायः “समानी एकविधोऽस्तु । तथा “वः युष्माकं “हृदयानि “समाना समानान्येकविधानि सन्तु । तथा “वः युष्माकं “मनः अन्तःकरणम् । प्रत्येकापेक्षयैकवचनम् । तदपि “समानमस्तु । “यथा “वः युष्माकं “सुसह शोभनं साहित्यम् “असति भवति तथा समानमस्त्वित्यन्वयः ॥ अस्तेर्लटि ‘बहुलं छन्दसि' इति शपो लुगभावः ॥ ॥ ४९ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टकेऽष्टमोऽध्यायः संपूर्णः ।
॥ इति दशमं मण्डलं समाप्तम् ।।
।। ऋग्वेदसंहिता समाप्ता ।।
मण्डल १० | ||||
---|---|---|---|---|