ऋग्वेदः सूक्तं १०.४५

(ऋग्वेद: सूक्तं १०.४५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.४४ ऋग्वेदः - मण्डल १०
सूक्तं १०.४५
वत्सप्रिर्भालन्दनः
सूक्तं १०.४६ →
दे. अग्निः। त्रिष्टुप्


दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।
तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥१॥
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ ॥२॥
समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् ।
तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥३॥
अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥४॥
श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥५॥
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः ।
वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥६॥
उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि ।
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥७॥
दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।
अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥८॥
यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥९॥
आ तं भज सौश्रवसेष्वग्न उक्थउक्थ आ भज शस्यमाने ।
प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥१०॥
त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः ॥११॥
अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥१२॥


सायणभाष्यम्

‘दिवस्परि' इति द्वादशर्चं तृतीयं सूक्तं भालन्दनस्य वत्सप्रेरार्षं त्रैष्टुभमाग्नेयम् । तथा चानुक्रान्तं - दिवस्परि द्वादश वत्सप्रिराग्नेयं तु ' इति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिके द्वे सूक्ते अस्य सूक्तस्यान्त्यां वर्जयित्वा । सूत्रितं च -’ दिवस्परीति सूक्तयोः पूर्वस्योत्तमामुद्धरेत्' (आश्व. श्रौ. ४. १३) इति । क्षामवत्याम् ' अक्रन्ददग्निः' इत्येषा याज्य। । सूत्रितं च--- अग्ने त्वमस्मद्युयोध्यमीवा अक्रन्ददग्निः स्तनयन्निव द्यौः ' ( आश्व. श्रौ. ३. १३ ) इति ॥


दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।

तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिंधा॑न एनं जरते स्वा॒धीः ॥१

दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः ।

तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥१

दिवः । परि । प्रथमम् । जज्ञे । अग्निः । अस्मत् । द्वितीयम् । परि । जातऽवेदाः ।

तृतीयम् । अप्ऽसु । नृऽमनाः । अजस्रम् । इन्धानः । एनम् । जरते । सुऽआधीः ॥१

“अग्निः “प्रथमं पूर्वं “दिवः द्युलोकस्य “परि उपरि आदित्यात्मना “जज्ञे जातः । “जातवेदाः जातप्रज्ञो जातधनो वाग्निः “द्वितीयम् “अस्मत् अस्माकं “परि उपरि पार्थिवात्मना जज्ञे । “नृमणाः नृषु मनुष्येष्वनुग्राहकतयासक्तचित्तोऽग्निः “तृतीयमप्सु अन्तरिक्षे वैद्युतात्मना जज्ञे । एवंविधम् “एनम् अग्निं “स्वाधीः सुप्रज्ञाता “अजस्रम् अनवरतम् “इन्धानः दीपयन् “जरते स्तौति । यद्वा । वाजसनेयकोक्तप्रकारेणास्य मन्त्रस्यार्थो द्रष्टव्यः । तद्यथा- दिवस्परि प्रथमं जज्ञे अग्निरिति । प्राणो वै द्यौः प्राणाद्वा एष प्रथममजायतास्मद्द्वितीयं परि जातवेदा इति यदेनमदो द्वितीयं पुरुषविधोऽजनयत्तृतीयमप्स्विति यदेनमदस्तृतीयमद्भ्योऽजनयन्नृमणा अजस्रमिति प्रजापतिर्वै नृमणा अग्निरजस्रमिन्धान एनं जरते स्वाधीरिति यो वा एनमिन्धे स एनं जनयते स्वाधीः ' (श. ब्रा. ६. ७. ४. ३) इति ॥


वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा ।

वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गंथ॑ ॥२

वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । विऽभृ॑ता । पु॒रु॒ऽत्रा ।

वि॒द्म । ते॒ । नाम॑ । प॒र॒मम् । गुहा॑ । यत् । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽज॒गन्थ॑ ॥२

विद्म । ते । अग्ने । त्रेधा । त्रयाणि । विद्म । ते । धाम । विऽभृता । पुरुऽत्रा ।

विद्म । ते । नाम । परमम् । गुहा । यत् । विद्म । तम् । उत्सम् । यतः । आऽजगन्थ ॥२

हे “अग्ने “ते तव “त्रेधा त्रिषु स्थानेषु पृथिव्यन्तरिक्षद्युलोकेषु स्थितानि “त्रयाणि अग्निवाय्वादित्याख्यानि त्रीणि रूपाणि “विद्म वयं जानीमः। किंच हे अग्ने “ते तव “धाम धामानि स्थानानि “विभृता विभृतानि “पुरुत्रा बहुधा बहूनि वा गार्हपत्याहवनीयान्वाहार्यपचनादीनि “विद्म । किंच “ते तव “गुहा गूढम् अवेदविद्भिरविज्ञातं “परमम् उत्कृष्टं वेदे प्रसिद्धं “यत् “नाम अस्ति तत् “विद्म वेदविदो वयं विजानीमः । किंच त्वं “यतः यस्मात् “आजगन्थ आगतवानसि । उत्पन्नवानित्यर्थः । “तम् “उत्सम् उत्स्यन्दयितारमुत्पादयितारं कारणात्मानं “विद्म जानीमः ॥


स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्वं१॒॑तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।

तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥३

स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनाः॑ । अ॒प्ऽसु । अ॒न्तः । नृ॒ऽचक्षाः॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् ।

तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒ऽवांस॑म् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥३

समुद्रे । त्वा । नृऽमनाः । अप्ऽसु । अन्तः । नृऽचक्षाः । ईधे । दिवः । अग्ने । ऊधन् ।

तृतीये । त्वा । रजसि । तस्थिऽवांसम् । अपाम् । उपऽस्थे । महिषाः । अवर्धन् ॥३

हे “अग्ने “समुद्रे महोदधौ जायमानम् “अप्स्वन्तः अपां मध्ये वडवात्मना स्थितं “त्वा त्वां “नृमणाः नृषु मनुष्येष्वनुग्राहकतयासक्तचित्तो वरुणः “ईधे संदीपितवान् । किंच “नृचक्षाः नृणां प्रत्यक्षेण द्रष्टादित्यः “दिवः द्युलोकस्य संबन्धिनि “ऊधन् ऊधसि ऊधःस्थानीय आदित्यमण्डले यज्ञे वा “ईधे संदीपितवान् । किंच “तृतीये त्रयाणां पूरके “अपां वृष्ट्युदकानाम् “उपस्थे स्थाने “रजसि अन्तरिक्षलोके “तस्थिवांसं विद्युद्रूपेणावस्थितं “त्वा त्वां “महिषाः महान्तो माध्यमिका देवगणा मरुदादयः स्तोतारः अवर्धन् स्तुतिभिरवर्धयन् । यद्वा । वाजसनेयकोक्तप्रकारेणार्थो द्रष्टव्यः । तद्यथा-’ समुद्रे त्वा नृमणा अप्स्वन्तरिति । प्रजापतिर्वै नृमणा अप्सु त्वा प्रजापतिरित्येतन्नृचक्षा ईधे दिवो अग्र ऊधन्निति प्रजापतिर्वे नृचक्षा आपो दिव ऊधस्तृतीये त्वा रजसि तस्थिवांसमिति द्यौर्वे तृतीयं रजोऽपामुपस्थे महिषा अवर्धन्निति प्राणा वै महिषा दिवि त्वा प्राणा अवर्धन्नित्येतत् ' (श. ब्रा. ६. ७. ४. ५) इति ॥


अक्रं॑दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ समं॒जन् ।

स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्यं॒तः ॥४

अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् ।

स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥४

अक्रन्दत् । अग्निः । स्तनयन्ऽइव । द्यौः । क्षाम । रेरिहत् । वीरुधः । सम्ऽअञ्जन् ।

सद्यः । जज्ञानः । वि । हि । ईम् । इद्धः । अख्यत् । आ । रोदसी इति । भानुना । भाति । अन्तरिति ॥४

दावरूपोऽग्निः स्तूयते । “अग्निः दावाग्निः “स्तनयन्निव “द्यौः यथा दीप्तो विद्युद्रूपः पर्जन्यो महान्तं शब्दं करोति तद्वत् “अक्रन्दत् महान्तं शब्दं करोति । किं कुर्वन्नित्यत्राह। “क्षाम क्षामां पृथिवीं “रेरिहत् आस्वादयन् “वीरुधः ओषधीश्च “समञ्जन् म्रक्षयन् । संतापयन्नित्यर्थः। किंच “सद्यः तत्क्षणे समाने काले “जज्ञानः जायमानः “इद्धः दीप्तः “ईम् इदं स्वेन दग्धं वस्तुजातं “वि “अख्यत् विविधं पश्यति । “हि इति पादपूरणः । किंच “रोदसी द्यावापृथिव्यौ “अन्तः अन्तरेण “भानुना स्वदीप्त्या “भाति प्रकाशते । यद्वा । वाजसनेयकोक्तार्थो द्रष्टव्यः । तद्यथा--' अक्रन्ददग्निः स्तनयन्निव द्यौरिति । क्रन्दतीव हि पर्जन्यः स्तनयन् क्षामा रेरिहद्वीरुधः समञ्जन्निति क्षामा वै रेरिह्यमाणो वीरुधः समनक्ति सद्यो जज्ञानो वि हीमिद्धो अख्यदिति सद्यो वा एष जज्ञान इदं सर्वं विख्यापयत्या रोदसी भानुना भात्यन्तरितीमे वै द्यावापृथिवी रोदसी ते एष भानुना भात्यन्तः । (श. ब्रा. ६. ७. ३. २ ) इति वैद्युतस्य स्तुतिः । यद्वा । इयं दावाग्नेः स्तुतिरिति ॥


श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः ।

वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥५

श्री॒णाम् । उ॒त्ऽआ॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणा॑म् । प्र॒ऽअर्प॑णः । सोम॑ऽगोपाः ।

वसुः॑ । सू॒नुः । सह॑सः । अ॒प्ऽसु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः ॥५

श्रीणाम् । उत्ऽआरः । धरुणः । रयीणाम् । मनीषाणाम् । प्रऽअर्पणः । सोमऽगोपाः ।

वसुः । सूनुः । सहसः । अप्ऽसु । राजा । वि । भाति । अग्रे । उषसाम् । इधानः ॥५

“श्रीणां विभूतीनाम् “उदारः उद्गमयिता दाता “रयीणां धनानां “धरुणः धारकः “मनीषाणाम् ईप्सितार्थानां “प्रार्पणः प्रापयिता “सोमगोपाः सोमस्य गोपा “वसुः सर्वस्य लोकस्य वासकः “सहसः बलस्य “सूनुः “अप्सु उदकेषु स्थितः “राजा सर्वस्येश्वरः “उषसाम् “अग्रे प्रभातकाले “इधानः अग्निहोत्रार्थं समिध्यमानोऽग्निः “वि “भाति प्रकाशते ।।


विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।

वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यंजना॒ यद॒ग्निमय॑जंत॒ पंच॑ ॥६

विश्व॑स्य । के॒तुः । भुव॑नस्य । गर्भः॑ । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ।

वी॒ळुम् । चि॒त् । अद्रि॑म् । अ॒भि॒न॒त् । प॒रा॒ऽयन् । जनाः॑ । यत् । अ॒ग्निम् । अय॑जन्त । पञ्च॑ ॥६

विश्वस्य । केतुः । भुवनस्य । गर्भः । आ । रोदसी इति । अपृणात् । जायमानः ।

वीळुम् । चित् । अद्रिम् । अभिनत् । पराऽयन् । जनाः । यत् । अग्निम् । अयजन्त । पञ्च ॥६

“विश्वस्य सर्वस्य “केतुः प्रज्ञापकः “भुवनस्य उदकस्य “गर्भः गर्भभूतोऽग्निः “जायमानः प्रादुर्भवन्नेव “रोदसी द्यावापृथिव्यौ “आ “अपृणात् आपूरयति । “परायन् परागच्छन् "वीळुं “चित् दृढमपि “अद्रिं मेघम् “अभिनत् भिनत्ति च । कदेत्यत्राह । “यत् यदा “पञ्च “जनाः मनुष्याः “अग्निमयजन्त यजन्ते ॥ ॥ २८ ॥


उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।

इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥७

उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।

इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥७

उशिक् । पावकः । अरतिः । सुऽमेधाः । मर्तेषु । अग्निः । अमृतः । नि । धायि ।

इयर्ति । धूमम् । अरुषम् । भरिभ्रत् । उत् । शुक्रेण । शोचिषा । द्याम् । इनक्षन् ॥७

“उशिक् हवींषि कामयमानः “पावकः सर्वस्य लोकस्य शोधकः “अरतिः गन्ता भूतानामारथिता वा “सुमेधाः सुप्रज्ञः “अमृतः मरणधर्मरहितः “अग्निः “मर्तेषु मनुष्येषु “नि “धायि निहितः । सोऽयमग्निः “धूमम् “इयर्ति प्रेरयति । किंच “अरुषम् आरोचमानं रूपं “भरिभ्रत् धारयन् "शुक्रेण शुक्लेन “शोचिषा रोचिषा “द्यां दिवम् “इनक्षन् व्याप्नुवन् गच्छतीति शेषः ॥


दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः ।

अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेताः॑ ॥८

दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ।

अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥८

दृशानः । रुक्मः । उर्विया । वि । अद्यौत् । दुःऽमर्षम् । आयुः । श्रिये । रुचानः ।

अग्निः । अमृतः । अभवत् । वयःऽभिः । यत् । एनम् । द्यौः । जनयत् । सुऽरेताः ॥८

“दृशानः प्रत्यक्षेण दृश्यमानः “रुक्मः रोचमानोऽग्निः “उर्विया उरु अत्यन्तं “व्यद्यौत् विद्योतते । किंच “आयुः गन्ता स सर्वतोऽयमग्निः “श्रिये “विभूत्यै “दुर्मर्षं दुरभिभवं यथा भवति तथा “रुचानः रोचमानो भवति । सोऽयम् अग्निः “वयोभिः अन्नैर्वनस्पतिभिः “अमृतः मरणरहितः “अभवत् । “यत यस्मात् कारणात् “एनम् अग्निं “सुरेताः शोभनरेतस्कः “द्यौः प्राण आदिस्यो वा “जनयत् जनयति ।।


यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तवं॑तमग्ने ।

प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥९

यः । ते॒ । अ॒द्य । कृ॒णव॑त् । भ॒द्र॒ऽशो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽव॑न्तम् । अ॒ग्ने॒ ।

प्र । तम् । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । अ॒भि । सु॒म्नम् । दे॒वऽभ॑क्तम् । य॒वि॒ष्ठ॒ ॥९

यः । ते । अद्य । कृणवत् । भद्रऽशोचे । अपूपम् । देव । घृतऽवन्तम् । अग्ने ।

प्र । तम् । नय । प्रऽतरम् । वस्यः । अच्छ । अभि । सुम्नम् । देवऽभक्तम् । यविष्ठ ॥९

हे “भद्रशोचे कल्याणदीप्ते हे "देव द्योतमान “यविष्ठ युवतम “अग्ने “ते तुभ्यं “यः यजमानः “अद्य अस्मिन्नहनि “घृतवन्तं घृतेन युक्तम् “अपूपं पुरोडाशं “कृणवत् करोति “प्रतरं प्रकृष्टतरं यजमानं “वस्यः वसीयः “अच्छ प्रति “प्र “नय अत्यर्थं प्रापय । तथा “देवभक्तं स्तुतिभिर्हविर्भिश्च देवानां संभक्तारं सेवितारं “तं यजमानं “सुम्नं सुखम् “अभि “प्रति “प्र “नय ॥


आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।

प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥१०

आ । तम् । भ॒ज॒ । सौ॒श्र॒व॒सेषु॑ । अ॒ग्ने॒ । उ॒क्थेऽउ॑क्थे । आ । भ॒ज॒ । श॒स्यमा॑ने ।

प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन॑ । भि॒नद॑त् । उत् । जनि॑ऽत्वैः ॥१०

आ । तम् । भज । सौश्रवसेषु । अग्ने । उक्थेऽउक्थे । आ । भज । शस्यमाने ।

प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । उत् । जातेन । भिनदत् । उत् । जनिऽत्वैः ॥१०

हे “अग्ने त्वं “सौश्रवसेषु । शोभनानि श्रवांस्यन्नानि हवींषि येषु कर्मसु तानि सौश्रवसानि । तेषु क्रियमाणेषु “तं यजमानं स्तोतारं वा “आ “भज अभीष्टफलप्रदानेन सेवस्व । किंच “उक्थे शस्त्रे “शस्यमाने पठ्यमाने सति “तम् “आ “भज अभीष्टफलप्रदानेनैव सेवस्व । सोऽयं यजमानः स्तोता वा “सूर्ये “प्रियो “भवाति भवतु । तथा “अग्ना अग्नावपि “प्रियो भवति । किंच सोऽयं “जातेन उत्पन्नेन पुत्रेण “उत् “भिनदत् शत्रून् विदारयतु । तथा “जनित्वैः जनिष्यमाणैश्च पुत्रैः शत्रून् “उत् भिनदत् ॥


त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।

त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥११

त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि ।

त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥११

त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसु । दधिरे । वार्याणि ।

त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥११

हे “अग्ने “त्वां प्रति “यजमानाः “अनु “द्यून प्रत्यहं “विश्वा विश्वानि “वार्याणि वरणीयानि “वसु वसूनि धनानि “दधिरे धारयन्ति । किंच “त्वया “सह “द्रविणम् असुरैरपहृतं गोरूपं धनम् “इच्छमानाः कामयमानाः "उशिजः मेधाविनो देवाः “गोमन्तं पशुमन्तं “व्रजं “वि “वव्रुः विवृतद्वारं कृतवन्तः ॥


अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः ।

अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥१२

अस्ता॑वि । अ॒ग्निः । न॒राम् । सु॒ऽशेवः॑ । वै॒श्वा॒न॒रः । ऋषि॑ऽभिः । सोम॑ऽगोपाः ।

अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥१२

अस्तावि । अग्निः । नराम् । सुऽशेवः । वैश्वानरः । ऋषिऽभिः । सोमऽगोपाः ।

अद्वेषे इति । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥१२

“अद्वेषे “द्यावापृथिवी द्यावापृथिव्यौ “हुवेम वयं ह्वयेम । किंच हे “देवाः यूयं “सुवीर शोभनपुत्राद्युपेतं रयिं धनम् “अस्मे अस्मासु “धत्त धारयत ॥ ॥ २९ ॥ ।

ग-अग्निरस्तावि स्तुतः ऋषिभिरस्माभिः । कीदृशः । नरां मनुष्याणां सुशेवः सुसुखः वैश्वानरः विश्वनरहितः सोमगोपाः सोमेनारक्ष्यमाणः । अद्वेषे द्वेषरहिते द्यावापृथिवी हुवेमाह्वयामः । देवा यूयं सुवीरं शोभनपुत्रयुतं रयिं धनमस्मासु धत्त धारयत दत्तेत्यर्थः; त७ - ऋषिभिर्मंत्रैः अग्निर्दानादिगुणयुक्तो देवः अस्तावि स्तुतः । कीदृशोग्निः । नरां नॄणां सुशेवः सुतरां सुखरूपः । शेवमिति सुखनाम शेवं शिवमिति तन्नामसु पाठात् । पुनः कीदृशः । वैश्वानरः विश्वेषु सर्वेषु नरेषु वर्तमानः । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित इति स्मृतः । पुनः के भूतः । सोमगोपाः सोमस्य रक्षकः । अतः अद्वेषे द्वेषरहिते द्यावापृथिवी अग्न्याधारभूते द्यावापृथिव्यौ हुवेम आह्वयेम । तयोरग्न्याधारभूतत्वं तु द्यावापृथिवीभ्यामेतं जातं देवा इत्यस्मिन् ब्राह्मणवाक्ये स्फुटमुक्तं । हे देवा अग्निप्रमुखा यूयं सर्वे सुवीरं शोभनपुत्राद्युपेतं रयिं धनं अस्मे अस्मासु स्तोतृषु धत्तं धारयतं; मु– नरां कर्मनेतॄणां पुंसां सुशेवः सुखसेव्यो वैश्वानरोग्निः ऋषिभिः मंत्रैः अस्तावि स्तुतः । कीदृशः । सोमगोपाः सोमस्य गोप्ता रक्षिता अद्वेषे द्यावापृथिवी द्यावापृथिव्यौ हुवेम वयं ह्वयेम । किंच हे देवाः यूयं सुवीरं शोभनपुत्राद्युपेतं रयिं धनमस्मे अस्मासु धत्त धारयत ।

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टकेऽष्टमोऽध्यायः समाप्तः ॥

सम्पाद्यताम्

टिप्पणी

वत्सप्री उपरि टिप्पणी


एतद्वै प्रजापतिर्विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यमकरोत्तथैवैतद्यजमानो विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यं करोति।१। स हैष दाक्षायणहस्तः । यद्वात्सप्रं तस्माद्यं जातं कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत्तदस्मै जातायायुष्यं करोति । ..... विष्णुक्रमैर्वै प्रजापतिरिमं लोकमसृजत वात्सप्रेणाग्निं विष्णुक्रमैर्वै प्रजापतिरन्तरिक्षमसृजत वात्सप्रेण वायुं विष्णुक्रमैर्वै प्रजापतिर्दिवमसृजत वात्सप्रेणादित्यं विष्णुक्रमैर्वै प्रजापतिर्दिशोऽसृजत वात्सप्रेण चन्द्रमसं विष्णुक्रमैर्वै प्रजापतिर्भूतमसृजत वात्सप्रेण भविष्यद्विष्णुक्रमैर्वै प्रजापतिर्वित्तमसृजत वात्सप्रेणाशां विष्णुक्रमैर्वै प्रजापतिरहरसृजत वात्सप्रेण रात्रिं विष्णुक्रमैर्वै प्रजापतिः पूर्वपक्षानसृजत वात्सप्रेणापरपक्षान्विष्णुक्रमैर्वै प्रजापतिरर्द्धमासानसृजत वात्सप्रेण मासान्विष्णुक्रमैर्वै प्रजापतिर्ऋतूनसृजत वात्सप्रेण संवत्सरं - माश ६.७.४.७

तद्धैक आहुः । स्वयं वा एष वनीवाहितो विष्णुक्रमैर्वा एष प्रयाति वात्सप्रेणावस्यतीति न तथा विद्याद्दैवं वा अस्य तत्प्रयाणं यद्विष्णुक्रमा दैवमवसानं यद्वात्सप्रम । माश ६,८, १,३

अथैतद्वात्सप्रम् , एतेन वै वत्सप्रीर्भालन्दनोऽग्नेः प्रियं धामाराध्नोत् , तदग्नेरेवैतेन प्रियं धाम राध्नोति , आगामुकं एनं प्रियं भवति, वत्सप्रियं वै भालन्दनं ऋषयोऽध्यवदन् , स्तेना इति, स एतत् सूक्तमपश्यत् , तेनाधिवादमपाजयत् , तेनापचितिम् अगच्छत् , तदधिवादं एवैतेनापजयति , अपचितिमेव गच्छति, द्वादशभिरुपतिष्ठते, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्धेअप, त्रिष्टुभो भवन्ति , इन्द्रियस्यावरुद्यै े , अन्येद्युः प्रक्रामयत्यन्येद्युरुपतिष्ठते, योगक्षेमं वा एतत् प्रजानां दाधार........ मैसं ३.२.२

अग्निहोत्रे उपस्थानम् -- वात्सप्रेणैव सायं प्रातरुपतिष्ठेतेत्येके - आप.श्रौ.सू. ६.१९.८


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४५&oldid=296628" इत्यस्माद् प्रतिप्राप्तम्