ऋग्वेदः सूक्तं १०.१०४

(ऋग्वेद: सूक्तं १०.१०४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१०३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०४
अष्टको वैश्वामित्रः
सूक्तं १०.१०५ →
दे. इन्द्रः। त्रिष्टुप् ।


असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम् ।
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥१॥
अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥२॥
प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥३॥
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥४॥
प्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः ।
मंहिष्ठामूतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥५॥
उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य ।
इन्द्र त्वा यज्ञः क्षममाणमानड् दाश्वाँ अस्यध्वरस्य प्रकेतः ॥६॥
सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिम् ।
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुः पनन्त ॥७॥
सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुमतर इन्द्र पूर्भित् ।
नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः ॥८॥
अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः ।
इन्द्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥९॥
वीरेण्यः क्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे ।
आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः ॥१०॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥


सायणभाष्यम्

‘ असावि' इत्येकादशर्चं पञ्चमं सूक्तं वैश्वामित्रस्याष्टकस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तमू- असाव्येकादशाष्टको वैश्वामित्रः' इति । गतः सूक्तविनियोगः ॥


असा॑वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूयं॑ ।

तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इं॑द्र॒ पिबा॑ सु॒तस्य॑ ॥१

असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् ।

तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥१

असावि । सोमः । पुरुऽहूत । तुभ्यम् । हरिऽभ्याम् । यज्ञम् । उप । याहि । तूयम् ।

तुभ्यम् । गिरः । विप्रऽवीराः । इयानाः । दधन्विरे । इन्द्र । पिब । सुतस्य ॥१

हे “पुरुहूत बहुभिः स्तोतृभिराहूत “तुभ्यं त्वदर्थं “सोमः "असावि अभिषुतोऽभूत्। ‘ षुञ् अभिषवे' इत्यस्मात्कर्मणि लुङ् । अतः “हरिभ्यां हरितवर्णाभ्यामश्वाभ्यां “यज्ञम् अस्मदीयं “तूयं तूर्णम् “उप “याहि उपागच्छ। “तुभ्यं त्वदर्थं “गिरः अस्मदीयाः स्तुतयः “विप्रवीराः । विप्रा मेधाविनो वीर विशेषेण प्रेरयितारः प्रोद्गमयितारो यासां तास्तथोक्ताः । “इयानाः गमनशीलाः “दधन्विरे गम्यन्ते । अस्माभिर्युष्मत्प्रीणनाय प्राप्यन्त इत्यर्थः । ‘ ईङ गतौ । ताच्छीलिकः शानच् । छान्दसो विकरणस्य लुक् । धविर्गत्यर्थः । इदित्त्वान्नुम् । कर्मणि छान्दसो लिट् । यत एवमतः “सुतस्य अभिषुतस्यांशं सुतं सोमं वा “पिब ॥


प्रथमे पर्याये ब्राह्मणाच्छंसिशस्त्रे ‘ अप्सु धूतस्य' इत्येषा याज्या । सूत्रितं च-’ अप्सु धूतस्य हरिवः पिबेहेति याज्या' (आश्व. श्रौ. ६. ४) इति ॥

अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व ।

मि॒मि॒क्षुर्यमद्र॑य इंद्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥२

अ॒प्ऽसु । धू॒तस्य॑ । ह॒रि॒ऽवः॒ । पिब॑ । इ॒ह । नृऽभिः॑ । सु॒तस्य॑ । ज॒ठर॑म् । पृ॒ण॒स्व॒ ।

मि॒मि॒क्षुः । यम् । अद्र॑यः । इ॒न्द्र॒ । तुभ्य॑म् । तेभिः॑ । व॒र्ध॒स्व॒ । मद॑म् । उ॒क्थ॒ऽवा॒हः॒ ॥२

अप्ऽसु । धूतस्य । हरिऽवः । पिब । इह । नृऽभिः । सुतस्य । जठरम् । पृणस्व ।

मिमिक्षुः । यम् । अद्रयः । इन्द्र । तुभ्यम् । तेभिः । वर्धस्व । मदम् । उक्थऽवाहः ॥२

हे “हरिवः । ‘ ऋक्सामे वा इन्द्रस्य हरी' (ऐ. ब्रा. २. २४ ) इति श्रुतेः स्तोत्रशस्त्राधारभूताभ्यामृक्सामाभ्यां हरिभ्यां तद्वन्निन्द्र “अप्सु एकधनादिषूदकेषु “धूतस्य कम्पितस्य । अभिषुतस्येत्यर्थः । तथा “नृभिः कर्मनेतृभिः कर्मनिर्वाहकैरध्वर्य्वादिभिः “सुतस्य अभिषुतस्य । उभयत्र ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञायां • चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी। ईदृशं सोमम् “इह अस्मिन्यज्ञे “पिब । पीत्वा च "जठरं स्वकीयं “पृणस्व पूरय च । चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । “यं सोमम् “अद्रयः अभिषवग्रावाणो हे “इन्द्र “तुभ्यं त्वदर्थं “मिमिक्षुः सेक्तुमभिषोतुमैच्छन् । अभिषवमकुर्वन्नित्यर्थः । मिह सेचने' इत्यस्य सनि लिङ्युसि रूपम् । हे “उक्थवाहः उक्थैः शस्त्रैरुह्यमान “तेभिः तैः “मदं “वर्धस्व ॥


द्वितीये पर्याये ब्राह्मणाच्छंसिनः ‘प्रोग्राम्' इत्येषा याज्या। सूत्रितं च-’ अश्वावति प्रथमः प्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या' (आश्व. श्रौ. ६. ४) इति ॥

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्यं॑ ।

इंद्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥३

प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ।

इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः । विश्वा॑भिः । शच्या॑ । गृ॒णा॒नः ॥३

प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रऽयै । सुतस्य । हरिऽअश्व । तुभ्यम् ।

इन्द्र । धेनाभिः । इह । मादयस्व । धीभिः । विश्वाभिः । शच्या । गृणानः ॥३

हे "हर्यश्व इन्द्र “वृष्णे वर्षकाय “तुभ्यम् “उग्राम् उद्गूर्णं “सत्यां “पीतिं सोमपानं “प्र “इयर्मि प्रेरयामि । किमर्थम् । “प्रयै प्रगमनाय । कस्य पीतिम् । “सुतस्य अभिषुतस्य । अतो हे “इन्द्र “शच्या शक्या प कर्मणा वा युक्तः “गृणानः स्तूयमानस्त्वं “विश्वाभिः सर्वाभिः “धेनाभिः स्तुतिवाग्भिः विश्वाभिः “धीभिः सर्वैः कर्मभिश्च “इह अस्मिन् यज्ञे “मादयस्व तृप्यस्व । ‘मद तृप्तियोगे' । आत्मनेपदम् ॥


तृतीये पर्याये ब्राह्मणाच्छंसिनः शस्त्रे ‘ ऊती शचीवः' इत्येषा याज्या । ' ऊती शचीवस्तव वीर्येणेति याज्या ' ( आश्व. श्रौ. ६. ४ ) इति सूत्रितम् ॥

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः ।

प्र॒जाव॑दिंद्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णंतः॑ सध॒माद्या॑सः ॥४

ऊ॒ती । श॒ची॒ऽवः॒ । तव॑ । वी॒र्ये॑ण । वयः॑ । दधा॑नाः । उ॒शिजः॑ । ऋ॒त॒ऽज्ञाः ।

प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः॑ । स॒ध॒ऽमाद्या॑सः ॥४

ऊती । शचीऽवः । तव । वीर्येण । वयः । दधानाः । उशिजः । ऋतऽज्ञाः ।

प्रजाऽवत् । इन्द्र । मनुषः । दुरोणे । तस्थुः । गृणन्तः । सधऽमाद्यासः ॥४

हे “शचीवः शक्तिवन् “इन्द्र “तव “ऊती ऊत्या रक्षणेन तव “वीर्येण “वयः अन्नं “प्रजावत् प्रजोपेतं “दधानाः धारयन्तः “उशिजः त्वामेव कामयमानाः “ऋतज्ञाः ऋतं यज्ञमहर्जानन्तः । अङ्गिरसः सत्रमनुतिष्ठन्तः षष्ठेऽहनि प्रयोगमूढाः सन्तो नाभानेदिष्ठेन पारं गता यतः अतस्तेषामृतज्ञत्वम् । ईदृशोऽङ्गिरसः “मनुषः मनुष्यस्य यजमानस्य “दुरोणे यज्ञगृहे “गृणन्तः त्वां स्तुवन्तः सधमाद्यासः सह माद्यन्तः “तस्थुः तिष्ठन्ति । मादयतेः ‘कृत्यल्युटो बहुलम् ' इति वचनात् कर्तरि ‘ अचो यत्' इति यत् । छान्दसः सधादेशः । अतो वयमपि तिष्ठेमेत्यर्थः ॥


प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः ।

मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑नाः स्तो॒तार॑ इंद्र॒ तव॑ सू॒नृता॑भिः ॥५

प्रनी॑तिऽभिः । ते॒ । ह॒रि॒ऽअ॒श्व॒ । सु॒ऽस्तोः । सु॒ऽसु॒म्नस्य॑ । पु॒रु॒ऽरुचः॑ । जना॑सः ।

मंहि॑ष्ठाम् । ऊ॒तिम् । वि॒ऽतिरे॑ । दधा॑नाः । स्तो॒तारः॑ । इ॒न्द्र॒ । तव॑ । सू॒नृता॑भिः ॥५

प्रनीतिऽभिः । ते । हरिऽअश्व । सुऽस्तोः । सुऽसुम्नस्य । पुरुऽरुचः । जनासः ।

मंहिष्ठाम् । ऊतिम् । विऽतिरे । दधानाः । स्तोतारः । इन्द्र । तव । सूनृताभिः ॥५

हे "हर्यश्व हरितवर्णाश्वोपेत “इन्द्र सुष्टोः सुष्ठु स्तूयमानस्य “सुषुम्नस्य सुसुखस्य सुधनस्य वा “पुरुरुचः बहुदीप्तेः “ते तव “प्रणीतिभिः प्रणयनैर्धनादिप्रदानैः “जनासः जनाः “स्तोतारः “सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः । एतत्प्रणीतिभिरित्यनेन समुच्चीयते । “वितिरे अन्येभ्योऽर्थिभ्यो वितरणाय “मंहिष्ठाम् अतिशयेन मंहनीयां “तव संबन्धिनीम् “ऊतिं रक्षां “दधानाः आसत इति शेषः ॥ ॥ २४ ॥


उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ ।

इंद्र॑ त्वा य॒ज्ञः क्षम॑माणमानड् दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥६

उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । सोम॑स्य । या॒हि॒ । पी॒तये॑ । सु॒तस्य॑ ।

इन्द्र॑ । त्वा॒ । य॒ज्ञः । क्षम॑माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः ॥६

उप । ब्रह्माणि । हरिऽवः । हरिऽभ्याम् । सोमस्य । याहि । पीतये । सुतस्य ।

इन्द्र । त्वा । यज्ञः । क्षममाणम् । आनट् । दाश्वान् । असि । अध्वरस्य । प्रऽकेतः ॥६

हे "हरिवः हरिवन्निन्द्र “सुतस्य अभिषुतस्य सोमस्य “पीतये पानाय “ब्रह्माणि परिवृढान्यस्मदीयानि कर्माणि स्तोत्राणि वा “उप “याहि उपागच्छ । केन साधनेनेति तदुच्यते । “हरिभ्याम् । अश्वाभ्याम् । ताभ्यां युक्तेन रथेनेत्यर्थः । यद्वा । हरिभ्यां। हरिव इति संबन्धनीयम् । हे “इन्द्र “क्षममाणं “त्वा त्वां “यज्ञः सोमयागः “आनट् व्याप्नोति । नशतेर्लुङि ‘ मन्त्रे घस” इति च्लेर्लुक् । ‘ छन्दस्यपि दृश्यते ' इत्याडागमः । अश्नोतेरेव' वा लिटि छान्दसस्तप्रत्ययस्य लोपः। ‘ अश्नोतेश्च ' इति नुडागमः। “ध्वरस्य यागस्य “प्रकेतः प्रकर्षेण जानंस्त्वं “दाश्वानसि दातासि कर्मफलस्य ॥


स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिं ।

उप॑ भूषंति॒ गिरो॒ अप्र॑तीत॒मिंद्रं॑ नम॒स्या ज॑रि॒तुः प॑नंत ॥७

स॒हस्र॑ऽवाजम् । अ॒भि॒मा॒ति॒ऽसह॑म् । सु॒तेऽर॑णम् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् ।

उप॑ । भू॒ष॒न्ति॒ । गिरः॑ । अप्र॑तिऽइतम् । इन्द्र॑म् । न॒म॒स्याः । ज॒रि॒तुः । प॒न॒न्त॒ ॥७

सहस्रऽवाजम् । अभिमातिऽसहम् । सुतेऽरणम् । मघऽवानम् । सुऽवृक्तिम् ।

उप । भूषन्ति । गिरः । अप्रतिऽइतम् । इन्द्रम् । नमस्याः । जरितुः । पनन्त ॥७

“सहस्रवाजम् अपरिमितान्नमपरिमितबलं वा “अभिमातिषाहम् अभिमातीनां सर्वतो हिंसकानां शत्रूणामभिभवितारं “सुतेरणम् अभिषुते सोमे रममाणं “मघवानं धनवन्तं “सुवृक्तिं शोभनस्तुतिकम् “अप्रतीतं युद्धेऽन्यैरप्रतिगतम् “इन्द्रं “गिरः स्तुतिरूपा वाचः “उप “भूषन्ति अलंकुर्वन्ति । तदेवाह। “जरितुः स्तोतुः "नमस्याः स्तुतयः “पनन्त स्तुवन्ति ॥


स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिंधु॒मत॑र इंद्र पू॒र्भित् ।

न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रवं॑तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विंदः ॥८

स॒प्त । आपः॑ । दे॒वीः । सु॒ऽरणाः॑ । अमृ॑क्ताः । याभिः॑ । सिन्धु॑म् । अत॑रः । इ॒न्द्र॒ । पूः॒ऽभित् ।

न॒व॒तिम् । स्रो॒त्याः । नव॑ । च॒ । स्रव॑न्तीः । दे॒वेभ्यः॑ । गा॒तुम् । मनु॑षे । च॒ । वि॒न्दः॒ ॥८

सप्त । आपः । देवीः । सुऽरणाः । अमृक्ताः । याभिः । सिन्धुम् । अतरः । इन्द्र । पूःऽभित् ।

नवतिम् । स्रोत्याः । नव । च । स्रवन्तीः । देवेभ्यः । गातुम् । मनुषे । च । विन्दः ॥८

हे इन्द्र त्वदाज्ञया “सप्त एतत्संख्याकाः “आपः अब्रूपा: “देवीः देव्यो गङ्गाद्याः “सुरणाः। सुष्ठु रममाणाः शोभनशब्दा वा । रणिः शब्दार्थः। वशिरण्योरुपसंख्यानम् ' (पा. सू. ३.३.५८. ३ ) इति भावेऽप् । बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । “अमृक्ताः अहिंसिताः प्रवहन्तीति शेषः । हे “इन्द्र “पूर्भित् पुरां भेत्ता त्वं “याभिः गङ्गादिभिः सप्तनदीभिः “सिन्धुं समुद्रम् “अतरः । प्रावर्धय इत्यर्थः । यद्वा । सप्त सर्पणस्वभावा उक्तलक्षणा आपो देव्यस्त्वया सृष्टाः प्रवहन्ति याभिः सिन्धुं नदीमतरः । किंच त्वं “नवतिं “नव “च नवोत्तरनवतिसंख्याकाः “स्रवन्तीः प्रवहन्तीः “स्रोत्याः। नदीनामैतत् । नदीः “देवेभ्यः हविरर्थं मनुषे मनुष्याय भोगार्थं “च “गातुं गन्तव्यं तासां मार्गं च “विन्दः अलभथाः ॥


अ॒पो म॒हीर॒भिश॑स्तेरमुं॒चोऽजा॑गरा॒स्वधि॑ दे॒व एकः॑ ।

इंद्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥९

अ॒पः । म॒हीः । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । अजा॑गः । आ॒सु॒ । अधि॑ । दे॒वः । एकः॑ ।

इन्द्र॑ । याः । त्वम् । वृ॒त्र॒ऽतूर्ये॑ । च॒कर्थ॑ । ताभिः॑ । वि॒श्वऽआ॑युः । त॒न्व॑म् । पु॒पु॒ष्याः॒ ॥९

अपः । महीः । अभिऽशस्तेः । अमुञ्चः । अजागः । आसु । अधि । देवः । एकः ।

इन्द्र । याः । त्वम् । वृत्रऽतूर्ये । चकर्थ । ताभिः । विश्वऽआयुः । तन्वम् । पुपुष्याः ॥९

हे इन्द्र “महीः महतीः "अपः उदकानि "अभिशस्तेः अभिशंसकाद्वृत्रात् "अमुञ्चः । “आसु मुक्तास्वप्सु “देवः त्वम् “एकः एक एव असहायः सन् “अधि अजागः अप्रमत्तो भवसि । यद्वा । अधीति सप्तम्यर्थानुवादी । हे “इन्द्र “त्वं “याः अपः “वृत्रतूर्ये वृत्रहत्याय मेघहनने चकर्थ करोषि “ताभिः अद्भिः “विश्वाभिः सर्वाभिः त्वं तनुं स्वकीयं शरीरं पुपुष्याः पोषयेः । ‘पुष पुष्टौ' इत्यस्य व्यत्ययेन श्लुः ॥


वी॒रेण्यः॒ क्रतु॒रिंद्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे ।

आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥१०

वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ ।

आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥१०

वीरेण्यः । क्रतुः । इन्द्रः । सुऽशस्तिः । उत । अपि । धेना । पुरुऽहूतम् । ईट्टे ।

आर्दयत् । वृत्रम् । अकृणोत् । ऊं इति । लोकम् । ससहे । शक्रः । पृतनाः । अभिष्टिः ॥१०

"इन्द्रः "वीरेण्यः वीरैर्गन्तव्योऽतिशयेन वीरो वा “क्रतुः कर्मवान् “सुशस्तिः शोभनस्तुतिकः “उत अपि च । “अपि इत्यनर्थकः । अपि च “धेना । वाङ्नामैतत् । प्रीणयित्री स्तुतिवाक् "पुरुहूतम् इन्द्रम् “ईट्टे स्तौति पूजयति वा । यत उक्तलक्षणः अतः स्तौतीत्यर्थः। किंचायं “वृत्रम् आवरकमेतन्नामकमसुरम् “आर्दयत् हतवानित्यर्थः। “उ अपि च “लोकम् । लोक्यत इति लोकः प्रकाशः । तम् “अकृणोत् अकरोत् । अवरकमसुरं हत्वा प्रकाशं कृतवानित्यर्थः। न केवलं तमेकमेव अपि तु शक्रः शक्त इन्द्रः "अभिष्टिः शत्रूणामभिगन्ता “पृतनाः शत्रुसेनाः “ससाहे अभ्यभवत् ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥११

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥११

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥११

पूर्वं व्याख्याता ॥ ॥ २५ ॥ हे इंद्र वाजसातौ वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोयं वाजसातिः । तस्मिन् भरे। बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः संग्रामः । तस्मिन् संग्रामे शुनमुत्साहेन प्रवृद्धं मघवानं धनवंतं अत एव इंद्रं निरतिशयऐश्वर्यसंपन्नं नृतमं सर्वस्य जगतोतिशयेन नेतारं त्वां हुवेम कुशिका वयं यज्ञार्थमाह्वयाम । तथा शृण्वंति अस्माभिः क्रियमाणां स्तुतिं शृण्वंतं उग्रं शत्रूणां भयंकरं समत्सु संग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नंतं हिंसंतं धनानां शत्रुसंबंधिनां संजितं सम्यग्जेतारं त्वां ऊतये रक्षणाय वयमाह्वयेम ।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१०४&oldid=320761" इत्यस्माद् प्रतिप्राप्तम्