प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.१०७

(ऋग्वेद: सूक्तं १०.१०७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१०६ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०७
दिव्य आङ्गिरसः, दक्षिणा वा प्राजापत्या।
सूक्तं १०.१०८ →
दे. दक्षिणा, दक्षिणादातारो वा। त्रिष्टुप्, ४ जगती।


आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि ।
महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥१॥
उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह ते सूर्येण ।
हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥२॥
दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति ।
अथा नरः प्रयतदक्षिणासोऽवद्यभिया बहवः पृणन्ति ॥३॥
शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः ।
ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥४॥
दक्षिणावान्प्रथमो हूत एति दक्षिणावान्ग्रामणीरग्रमेति ।
तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणामाविवाय ॥५॥
तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम् ।
स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥६॥
दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम् ।
दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥७॥
न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते ह भोजाः ।
इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति ॥८॥
भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं या सुवासाः ।
भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति ॥९॥
भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्या शुम्भमाना ।
भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥१०॥
भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः ।
भोजं देवासोऽवता भरेषु भोजः शत्रून्समनीकेषु जेता ॥११॥


सायणभाष्यम्

‘आविः' इत्येकादशर्चमष्टमं सूक्तम् । दिव्यो नामाङ्गिरस ऋषिः । प्रजापतेः सुता दक्षिणा सा वा ऋषिका । ‘शतधारं वायुम्' इति चतुर्थी जगती शिष्टा दश त्रिष्टुभः । अनेन सूक्तेन ऋत्विग्भ्यो दीयमाना दक्षिणा तद्दातारो यजमाना वा स्तूयन्ते । अतः सैव देवता । तथा चानुक्रान्तम् - आविर्दिव्यो दक्षिणा वा प्राजापत्या दक्षिणां तद्दातॄन्वास्तौच्चतुर्थी जगती' इति । गतो विनियोगः ॥


आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि ।

महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पंथा॒ दक्षि॑णाया अदर्शि ॥१

आ॒विः । अ॒भू॒त् । महि॑ । माघो॑नम् । ए॒षा॒म् । विश्व॑म् । जी॒वम् । तम॑सः । निः । अ॒मो॒चि॒ ।

महि॑ । ज्योतिः॑ । पि॒तृऽभिः॑ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः॑ । दक्षि॑णायाः । अ॒द॒र्शि॒ ॥१

आविः । अभूत् । महि । माघोनम् । एषाम् । विश्वम् । जीवम् । तमसः । निः । अमोचि ।

महि । ज्योतिः । पितृऽभिः । दत्तम् । आ । अगात् । उरुः । पन्थाः । दक्षिणायाः । अदर्शि ॥१

इदं सूक्तं दक्षिणाया वा तद्दातॄणां वा स्तावकम् । दक्षिणा तु यागाङ्गं यागस्तु सायंकाले न क्रियते । न सायमस्ति देवया अजुष्टम् ' ( ऋ. सं. ५, ७७, २ ) इत्यादिश्रवणात्। तस्मात् अह्येि व कर्तव्यः । अहश्च सूर्योदयात्पश्चाद्भवतीति सूक्तादौ सूर्योदयोऽभिधीयते । “माघोनम् । मघवेन्द्रः। इन्द्रश्च सूर्यः ‘ चैत्रमासे तयोरिन्द्रः' इति स्मरणात् । तस्य संबन्धि ॥ ‘ तस्येदम् । इत्यण् । अतद्धिते प्रत्यये संप्रसारणमभिहितम् (पा. सू. ६. ४. १३३ )। सर्वविधीनां छन्दसि विकल्पितत्वादत्र तद्धितेऽपि संप्रसारणम् ॥ सूर्यात्मकस्येन्द्रस्य स्वभूतं “महि महत् तेजः “एषां यजमानानां यागसिद्ध्यर्थम् “आविरभूत् । प्रकाशितमुद्गतमभूत् । तत्र “विश्वं सर्वं “जीवं स्थावरजङ्गमात्मकं जगत् “तमसः सकाशात् “निरमोचि निर्मुक्तमभूत्। मुञ्चतेः कर्मलुङि चिणि रूपम् । अथानन्तरं “पितृभिः यत् पितृभिर्देवैः “दत्तं नो हविषामागमनाय तत् “महि महत् “ज्योतिः सूर्याख्यम् "आगात् आगच्छति । पश्चात् “दक्षिणायाः यागाङ्गभूतायाः “उरुः महान् “पन्थाः मार्गः “अदर्शि सर्वैर्यंजमानैर्दृष्टोऽभूत् । सर्वे यागं कृत्वा ऋत्विग्भ्यो दक्षिणां दत्तवन्त इत्यर्थः ॥


उ॒च्चा दि॒वि दक्षि॑णावंतो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण ।

हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जंते वासो॒दाः सो॑म॒ प्र ति॑रंत॒ आयुः॑ ॥२

उ॒च्चा । दि॒वि । दक्षि॑णाऽवन्तः । अ॒स्थुः॒ । ये । अ॒श्व॒ऽदाः । स॒ह । ते । सूर्ये॑ण ।

हि॒र॒ण्य॒ऽदाः । अ॒मृ॒त॒ऽत्वम् । भ॒ज॒न्ते॒ । वा॒सः॒ऽदाः । सो॒म॒ । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥२

उच्चा । दिवि । दक्षिणाऽवन्तः । अस्थुः । ये । अश्वऽदाः । सह । ते । सूर्येण ।

हिरण्यऽदाः । अमृतऽत्वम् । भजन्ते । वासःऽदाः । सोम । प्र । तिरन्ते । आयुः ॥२

“दक्षिणावन्तः दक्षिणाया देयत्वेन तद्वन्तो दक्षिणां दत्तवन्तो यजमानाः “उच्चा उच्चैः स्थानैः स्थिते “दिवि द्युलोके “अस्थुः तिष्ठन्ति । सामान्येनोक्त्वा दातृविशेषाणां फलविशेषमाह । “अश्वद्राः अश्वानां दातारः “ये यजमानाः “ते “सूर्येण सर्वस्य स्वस्वकर्मणि प्रेरकेणादित्येन “सह तिष्ठन्ति । ये “हिरण्यदाः हिरण्यदातारः ते “अमृतत्वम् अमरणधर्मत्वं देवत्वं “भजन्ते । ‘ अमृतं वै हिरण्यम् । (तै. सं. ५.२.७.२ ) इत्याम्नानात् । तथा ‘ सौम्यं वै वासः '(तै, ब्रा. २.२.५) इति श्रवणात् सोम एवं संबोध्यते । हे “सोम “वासोदाः त्वद्देवत्यवस्त्राणां दातारो ये सन्ति ते त्वया सह तिष्ठन्तीति शेषः । एते सर्वे “आयुः जीवनं “प्र “तिरन्ते प्रवर्धयन्ति । प्रपूर्वस्तिरतिर्वृद्ध्यर्थः ॥


दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णंति॑ ।

अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणंति ॥३

दैवी॑ । पू॒र्तिः । दक्षि॑णा । दे॒व॒ऽय॒ज्या । न । क॒व॒ऽअ॒रिभ्यः॑ । न॒हि । ते । पृ॒णन्ति॑ ।

अथ॑ । नरः॑ । प्रय॑तऽदक्षिणासः । अ॒व॒द्य॒ऽभि॒या । ब॒हवः॑ । पृ॒ण॒न्ति॒ ॥३

दैवी । पूर्तिः । दक्षिणा । देवऽयज्या । न । कवऽअरिभ्यः । नहि । ते । पृणन्ति ।

अथ । नरः । प्रयतऽदक्षिणासः । अवद्यऽभिया । बहवः । पृणन्ति ॥३

"दैवी देवसंबन्धिनी ॥ ‘ देवाद्यञञौ (पा. सू. ४. १. ८५. ३) इत्यञ् । तादृशी “पूर्तिः पालिनी तत्साध्या “देवयज्या ॥ ‘ छन्दसि निष्टर्क्यं (पा. सू. ३. १. १२३) इति निपातितः ॥ देवयागः । तदङ्गभूता “दक्षिणा “न “कवारिभ्यः ॥ ‘ ‘ऋ गतौ ' इत्यस्य ' अच इः' (उ. सू. ४.१३८) इतीप्रत्ययः ॥ कुत्सितगन्तृभ्योऽयष्टृभ्यः । एतेभ्यो न भवति । यद्वा । देवानां स्वभूता पूर्तिः पूरयित्री स्तुतिभिर्हविर्भिश्च तादृशी देवयज्या दक्षिणा च तेभ्यो न भवतः । तत्र हेतुरुच्यते । हि यस्मात् “ते कुत्सितगन्तारः “नहि “पृणन्ति देवान् स्तुतिभिर्हविर्भिश्च न प्रीणयन्ति । ‘ पृण प्रीणने । तौदादिकः। “अथ इति प्रश्ने । यष्टॄणां देवयागादि कथं भवति । उच्यते । “नरः कर्मणां नेतारः अत एव “प्रयतदक्षिणासः दत्तदक्षिणाः “बहवः यजमानाः अवद्यभिया ॥ ‘ अवद्यपण्यवर्या गर्ह्य । (पा. सू. ३. १. १०१ ) इति यत्प्रत्ययान्तत्वेन निपातितः ॥ पापभिया । विहिताननुष्ठाने दुरितानि भवन्ति खलु। तस्मात्तद्भीत्या “पृणन्ति देवान् प्रीणयन्ति । तस्माद्यष्टॄणां देवपालनयागदक्षिणा भवतीत्यर्थः॥


श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः ।

ये पृ॒णंति॒ प्र च॒ यच्छं॑ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरं ॥४

श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्वः॒ऽविद॑म् । नृ॒ऽचक्ष॑सः । ते । अ॒भि । च॒क्ष॒ते॒ । ह॒विः ।

ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒म्ऽग॒मे । ते । दक्षि॑णाम् । दु॒ह॒ते॒ । स॒प्तऽमा॑तरम् ॥४

शतऽधारम् । वायुम् । अर्कम् । स्वःऽविदम् । नृऽचक्षसः । ते । अभि । चक्षते । हविः ।

ये । पृणन्ति । प्र । च । यच्छन्ति । सम्ऽगमे । ते । दक्षिणाम् । दुहते । सप्तऽमातरम् ॥४

“शतधारं बहुधारेणोपेतं "वायुम् एतन्नामकं “स्वर्विदं स्वर्गस्य लम्भकं सर्वस्य वेत्तारं वा “अर्कम् अर्चनीयमादित्यं च एतौ “नृचक्षसः नृणां द्रष्टॄनन्यानिन्द्रादीन् देवांश्चाभिलक्ष्य “ते यजमानाः “हविः “चक्षते । तेभ्यो दातुं पश्यन्ति जानन्ति। चष्टेर्लटि रूपम् । किंच “संगमे । कर्मकरणार्थम् ऋत्विजोऽत्र संगच्छन्त इति संगमः ॥ ‘ ग्रहवृदृनिश्चिगमश्च' इत्यधिकरणेऽप् । थाथादिस्वरः ॥ तस्मिन् यज्ञे “ये यष्टारः “पृणन्ति स्तुतिभिः प्रीणयन्ति । ये “च तेभ्यो देवेभ्यो हवींषि “प्र “यच्छन्ति । उभयत्र यद्योगादनिघातः । “ते “सप्तमातरम्। सप्तसंख्याका मातृभूता अग्निष्टोमादिसंस्था यस्यां भवन्ति सा । यद्वा। सप्तसंख्याका मातरः कर्मणां निर्मातारः कर्तारो होत्रादयः सन्ति । तादृशीं “दक्षिणां “दुहते ऋत्विभ्यो दुहन्ति ।


दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति ।

तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥५

दक्षि॑णाऽवान् । प्र॒थ॒मः । हू॒तः । ए॒ति॒ । दक्षि॑णाऽवान् । ग्रा॒म॒ऽनीः । अग्र॑म् । ए॒ति॒ ।

तम् । ए॒व । म॒न्ये॒ । नृ॒ऽपति॑म् । जना॑नाम् । यः । प्र॒थ॒मः । दक्षि॑णाम् । आ॒ऽवि॒वाय॑ ॥५

दक्षिणाऽवान् । प्रथमः । हूतः । एति । दक्षिणाऽवान् । ग्रामऽनीः । अग्रम् । एति ।

तम् । एव । मन्ये । नृऽपतिम् । जनानाम् । यः । प्रथमः । दक्षिणाम् । आऽविवाय ॥५

“हूतः ऋत्विग्भिराहूतः “दक्षिणावान् यजमानः “प्रथमः सर्वेषां मुख्यः सन् “एति सर्वत्र गच्छति । तथा “ग्रामणीः ग्रामाणां नेता धनवत्त्वेन तेषां कर्ता “दक्षिणावान् सः “अग्रमेति । सर्वेषां प्रथममेव गच्छति । “तमेव “नृपतिं नराणां पालयितारमिति “मन्ये ऋषिरहमवबुध्ये “प्रथमः “यः “जनानां “दक्षिणाम् “आविवाय आगमयति । वी गत्यादिषु । तस्य लिटि रूपम् । तं नृपतिमिति मन्ये । यद्वा । जनानामिति पूर्ववाक्यशेषः । जनानां मध्ये तमेव मनुष्याणां स्वामिनमिति मन्ये ॥ ॥ ३ ॥ । तमेव ऋषि तर्नु ब्रह्मार्णमाहुर्यशुन्य सामगार्मुक्थशासम् ।


तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शासं॑ ।

स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥६

तम् । ए॒व । ऋषि॑म् । तम् । ऊं॒ इति॑ । ब्र॒ह्माण॑म् । आ॒हुः॒ । य॒ज्ञ॒ऽन्य॑म् । सा॒म॒ऽगाम् । उ॒क्थ॒ऽशस॑म् ।

सः । शु॒क्रस्य॑ । त॒न्वः॑ । वे॒द॒ । ति॒स्रः । यः । प्र॒थ॒मः । दक्षि॑णया । र॒राध॑ ॥६

तम् । एव । ऋषिम् । तम् । ऊं इति । ब्रह्माणम् । आहुः । यज्ञऽन्यम् । सामऽगाम् । उक्थऽशसम् ।

सः । शुक्रस्य । तन्वः । वेद । तिस्रः । यः । प्रथमः । दक्षिणया । रराध ॥६

“तमेव दक्षिणाया दातारम् “ऋषिम् अतीन्द्रियार्थदर्शिनं यद्वा सत्कर्मकरणेन ऋषिमित्याहुः । तथा “तमु तमेव “ब्रह्माणमाहुः । किंच तमेव “यज्ञन्यम् ॥ ‘णीञ् प्रापणे '। क्विप् । ‘उदात्तस्वरितयोर्यणः०' इत्यमः स्वरितत्वम् ॥ यज्ञस्य नेतारमध्वर्युमित्याहुः । तमेव “सामगां साम्नां गातारमिति । तथा “उक्थशासम् । ‘शन्सु स्तुतौ'। क्विप् । संहितायां दीर्घश्छान्दसः। उक्थशसं शस्त्राणां शंसितारं होतारमिति ब्रुवन्ति । दक्षिणादानेन तत्कर्मणः परिग्रहात्। “सः दाता “शुक्रस्य दीप्यमानस्य ज्योतिषः “तिस्रः “तन्वः अग्निवैद्युतादित्यात्मकानि त्रीणि शरीराणि “वेद जानाति ।। यद्वा । शुक्रस्य दीप्तस्याग्नेराहवनीयाद्यात्मकानि त्रीणि शरीराणि जानाति । “प्रथमः मुख्यः “यः जनः “दक्षिणया “रराध ऋत्विगादीनाराधयति ॥ ‘राध संसिद्धौ' । लिटि रूपम् । लित्स्वरः ॥


दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा चं॒द्रमु॒त यद्धिर॑ण्यं ।

दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥७

दक्षि॑णा । अश्व॑म् । दक्षि॑णा । गाम् । द॒दा॒ति॒ । दक्षि॑णा । च॒न्द्रम् । उ॒त । यत् । हिर॑ण्यम् ।

दक्षि॑णा । अन्न॑म् । व॒नु॒ते॒ । यः । नः॒ । आ॒त्मा । दक्षि॑णाम् । वर्म॑ । कृ॒णु॒ते॒ । वि॒ऽजा॒नन् ॥७

दक्षिणा । अश्वम् । दक्षिणा । गाम् । ददाति । दक्षिणा । चन्द्रम् । उत । यत् । हिरण्यम् ।

दक्षिणा । अन्नम् । वनुते । यः । नः । आत्मा । दक्षिणाम् । वर्म । कृणुते । विऽजानन् ॥७

"दक्षिणा तद्दातृभ्यः “अश्वं “ददाति । तथा “गां च ददाति । तथा “चन्द्रं सुवर्णं ददाति । “उत अपि च “यद्धिरण्यं रजतमस्ति ।' रजतं हिरण्यम्' (तै. सं.१.५.१,२) इत्याम्नानात् । तच्च ददाति । किंच सा “अन्नं “वनुते ददाति । वनोतिरत्र दानार्थः । तस्मात् “नः अस्मदीयः “यः “आत्मा अस्ति सः “वर्म “विजानन् कवचं यथायुधानां निवारकं तद्वद्दुरितानि वारयतीति कवचमिति विजानन् "दक्षिणाम् अश्वादिदानशीलां “कृणुते । ऋत्विग्भ्यः करोति ।।


न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यंति॒ न व्य॑थंते ह भो॒जाः ।

इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥८

न । भो॒जाः । म॒म्रुः॒ । न । नि॒ऽअ॒र्थम् । ई॒युः॒ । न । रि॒ष्य॒न्ति॒ । न । व्य॒थ॒न्ते॒ । ह॒ । भो॒जाः ।

इ॒दम् । यत् । विश्व॑म् । भुव॑नम् । स्वः॑ । च॒ । ए॒तत् । सर्व॑म् । दक्षि॑णा । ए॒भ्यः॒ । द॒दा॒ति॒ ॥८

न । भोजाः । मम्रुः । न । निऽअर्थम् । ईयुः । न । रिष्यन्ति । न । व्यथन्ते । ह । भोजाः ।

इदम् । यत् । विश्वम् । भुवनम् । स्वः । च । एतत् । सर्वम् । दक्षिणा । एभ्यः । ददाति ॥८

“भोजाः भोजयितारो धनादिदानेन दातारः “न “मम्रुः न म्रियन्ते । देवत्वं भजन्त इत्यर्थः ।। अत एव “न्यर्थम् ॥ ‘ऋ गतौ । उषिकुषिगार्तिभ्यस्थन् (उ, सू. ३. ४)। समासे थाथादिस्वरः ॥ निकृष्टां गतिं “न “ईयुः न प्राप्नुवन्ति ॥ ' इण् गतौ । लिटि ‘ दीर्घ इणः किति' (पा. सू. ७. ४, ६९ ) इति दीर्घः ॥ तथा “न “रिष्यन्ति । कैश्चिदप्यहिंसिता भवन्ति । कर्मणि व्यत्ययेन परस्मैपदम् । अत एव “भोजाः दातारः “न “व्यथन्ते । परस्परं न भीता न बाधिता वा भवन्ति । “ह प्रसिद्धौ । किंच “इदं परिदृश्यमानं “विश्वं सर्वं “भुवनं “यत् भूतजातमस्ति “स्वश्च स्वर्गलोकश्च “एतत्सर्वं “दक्षिणा स्वयम् “एभ्यः तद्दातृभ्यः “ददाति प्रयच्छति ॥


भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासाः॑ ।

भो॒जा जि॑ग्युरंतः॒पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यंति॑ ॥९

भो॒जाः । जि॒ग्युः॒ । सु॒र॒भिम् । योनि॑म् । अग्रे॑ । भो॒जाः । जि॒ग्युः॒ । व॒ध्व॑म् । या । सु॒ऽवासाः॑ ।

भो॒जाः । जि॒ग्युः॒ । अ॒न्तः॒ऽपेय॑म् । सुरा॑याः । भो॒जाः । जि॒ग्युः॒ । ये । अहू॑ताः । प्र॒ऽयन्ति॑ ॥९

भोजाः । जिग्युः । सुरभिम् । योनिम् । अग्रे । भोजाः । जिग्युः । वध्वम् । या । सुऽवासाः ।

भोजाः । जिग्युः । अन्तःऽपेयम् । सुरायाः । भोजाः । जिग्युः । ये । अहूताः । प्रऽयन्ति ॥९

“भोजाः दातारः “अग्रे प्रथममेव “योनिं क्षीरादेरुत्पत्तिस्थानं “सुरभिं धेनुं “जिग्युः । शत्रुभ्यो जितवन्तः ॥ ‘ जि जये। लिटि ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कवर्गादेशः ॥ तथा “भोजाः दातारः “वध्वं वधूं नवोढां स्त्रीं “जिग्युः । “या स्त्रीः “सुवासाः शोभनवासा अस्ति तां जिग्युः । किंच “भोजाः शत्रूणां “सुरायाः “अन्तःपेयम् अन्तःपानं "जिग्युः ॥ ‘ पा पाने'। भावे यत् । 'ईद्यति' इतीत्वम् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ “ये शत्रवः “अहूताः बलाधिक्येनानाहूयमानाः “प्रयन्ति प्रमुखमागच्छन्ति तान् “भोजाः दक्षिणाया दातारो जनाः “जिग्युः जयन्ति ॥


भो॒जायाश्वं॒ सं मृ॑जंत्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुंभ॑माना ।

भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रं ॥१०

भो॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय॑ । आ॒स्ते॒ । क॒न्या॑ । शुम्भ॑माना ।

भो॒जस्य॑ । इ॒दम् । पु॒ष्क॒रिणी॑ऽइव । वेश्म॑ । परि॑ऽकृतम् । दे॒व॒मा॒नाऽइ॑व । चि॒त्रम् ॥१०

भोजाय । अश्वम् । सम् । मृजन्ति । आशुम् । भोजाय । आस्ते । कन्या । शुम्भमाना ।

भोजस्य । इदम् । पुष्करिणीऽइव । वेश्म । परिऽकृतम् । देवमानाऽइव । चित्रम् ॥१०

“भोजाय दात्रे “आशुं शीघ्रगामिनम् “अश्वं “सं “मृजन्ति । परिचारकाः सम्यगलंकुर्वन्ति । ‘ मृजू शौचालंकारयोः' । तथा “कन्या । कन्यात्वेनात्र संनिकर्षादभिनवं यौवनं लक्ष्यते । अभिनव यौवना “शुम्भमाना शरीरावयवविशेषशोभया वस्त्राद्यलंकारशोभया च शोभमाना स्त्री तस्मै “भोजाय दात्रे “आस्ते । तथा “भोजस्य दातुरेव हृदयाह्लादकरं “वेश्म गृहं भवति । कीदृशम् । पुष्करिणीव' । पुष्कराणि पद्मानि यस्याः सन्तीति पुष्करिणी सरसी । सा यथा पद्महंसादिभिरलंकृता भवति तद्वत् “परिष्कृतं वितानादिभिरलंकृतम् ।। परिपूर्वस्य करोतेर्भूषणार्थे संहितायां सुडागमः । ‘ परिनिविभ्यः' इति सुटः षत्वम् । ‘ गतिरन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ तथा “देवमानेव' । सुपां सुलुक् । इति प्रथमैकवचनस्याकारः ॥ देवमानमिव देवयानमिव “चित्रं मनोहरं वेश्म तस्य भवति ॥


भो॒जमश्वाः॑ सुष्ठु॒वाहो॑ वहंति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः ।

भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥११

भो॒जम् । अश्वाः॑ । सु॒ष्ठु॒ऽवाहः॑ । व॒ह॒न्ति॒ । सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । दक्षि॑णायाः ।

भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे॑षु । भो॒जः । शत्रू॑न् । स॒म्ऽअ॒नी॒केषु॑ । जेता॑ ॥११

भोजम् । अश्वाः । सुष्ठुऽवाहः । वहन्ति । सुऽवृत् । रथः । वर्तते । दक्षिणायाः ।

भोजम् । देवासः । अवत । भरेषु । भोजः । शत्रून् । सम्ऽअनीकेषु । जेता ॥११

“सुष्ठुवाहः ॥ ‘ वह प्रापणे ' । “ वहश्च ' इति ण्विप्रत्ययः । शोभनवहनसमर्थाः “अश्वाः “भोजं दातारं “वहन्ति । लक्ष्यं देशं प्रापयन्ति । ततः “दक्षिणायाः दातुर्यंजमानस्य “सुवृत् सुष्ठु चक्रादिवर्तनं यस्य सोऽश्वादिसहितः “रथः “वर्तते । अथ प्रत्यक्षः । हे “देवासः हे देवा इन्द्रादयः “भरेषु । भ्रियत' आहवनीयादिरूपेणाग्निरत्रेति भरा यज्ञाः । यद्वा । ‘ भॄ भर्त्सने ' । भृणन्ति भर्त्सयन्ति योद्धार अत्रेति भराः संग्रामाः । तेषु “भोजं दातारम् “अवत रक्षत । ततो युष्माभिः पालितः “भोजः धनादिदानेन जनानां भोजयिता सन् “समनीकेषु संग्रामेषु “शत्रून् “जेता जयशीलो भवति । ‘ जि जये'। ताच्छीलिकस्तृन् । अत एव ‘ न लोकाव्यय° ' इति शत्रुशब्दस्य षष्ठीप्रतिषेधः । ॥ ४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१